प्रजापतिर्लोकानभ्यतपत् तेषां तप्यमानानां रसान् ..

उपनिषत् (खण्डः - १७)

व्याहृतित्रयस्य महिमा

प्रजापतिर्लोकानभ्यतपत् तेषां तप्यमानानां रसान् प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ १ ॥

स एतास्तिस्रो देवता अभ्यतपत् तासां तप्यमानानां रसान् प्रावृहदग्नेर्ऋचो वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥

स एतां त्रयीं विद्यामभ्यतपत् तस्यास्तप्यमानाया रसान् प्रावृहद्भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः॥३॥

ऋत्विजां कर्मभङ्गे व्याहृतिहोम: प्रायश्चित्तम्

तद्यद्ध्यृक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयाद् ऋचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टिं सन्दधाति ॥ ४ ॥

अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद् यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टिं सन्दधाति ॥ ५ ॥

अथ यदि सामतो रिष्येत् स्वः स्वाहेत्याहवनीये जुहुयात् साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टिं सन्दधाति ॥ ६ ॥

तद्यथा लवणेन सुवर्णं सन्दध्यात् सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टिं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति ॥ ८ ॥

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवत्येवंविदं ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥

मानवो ब्रह्मैवैकर्त्विक् कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥ १७ ॥

॥ इति श्रीमच्छान्दोग्योपनिषदि चतुर्थोऽध्यायः ॥ ४ ॥

भाष्यम्

'अग्निर्नासिक्यवायुश्च सूर्यो लोकरसास्त्रयः । अग्ने रसस्तु ऋग्वेदमानी ब्रह्मा प्रकीर्तितः ॥ नासिक्यवायोस्तु रसो यजुर्वेदात्मको हरः । सामवेदाभिमानी तु वायुः सूर्यरसः स्मृतः ॥ वराहसिंहकपिलास्तेषां भूरादिनामकाः ।

व्याहृतीभिस्ततो जुह्वन् ब्रह्मैवंविद् विरिष्टितः । सर्वान् स ऋत्विजो रक्षेद् ब्रह्मैवंवित् ततो भवेत् ॥' इति च । उदक्प्रवणः ऊर्ध्वप्रवणः ऊर्ध्वलोकानुसारी । यज्ञस्य दुरिष्ट्या यतो यतः स्थानादावर्तते तत्तत् स्थानमेवंविदा ब्रह्मणा गच्छति । तद् ब्रह्मैवैकर्त्विक् । कुरून् कर्तृन् यजमानादीनभिरक्षति । अश्वा आशुज्ञानी । ' वा गतिगन्धनयो:' इति धातोः । गतिशब्दश्चावगतौ भवति ।

'दीर्घबिन्दुविसर्गादीनां लोपो वा' इति सूत्रादाशुवैवाश्वा ।। १७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छान्दोग्योपनिषद्भाष्ये चतुर्थोऽध्यायः

पदार्थकौमुदी

अत्र प्रमादाद् ब्रह्माद्वृत्विजां मौनादिनियमभङ्गे प्रायश्चित्तं व्याहृति-होमरूपं ( )व्याहृतिमहिमाभिधानपुरः सरमाह - प्रजापतिरित्यादिना ॥ अप्रतिपत्तिविप्रतिपत्तिनिरासाय " अग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिव:" इति वाक्यं प्रमाणेनैव व्याचष्टे - अग्निरिति ॥ सूर्यश्चेत्येते त्रयः । प्रधानवायुग्रहणे " वायोर्यजूंषि ' ' इत्युक्तमनुपपन्नमिति भावः । " अग्रे- ऋचः" इत्यादिवाक्यं व्याचष्टेअग्रेरिति ॥ " भूरित्यृग्भ्यः " इत्यादि व्याचष्टेवराहेति ॥ तेषां रसा इत्यनुवर्तते । " तद्यदृक्तः" इत्यादि- पूर्वशेषतात्पर्यमाहव्याहृतीभिरिति । ततो व्याहृतीनां भगवन्नाम- त्वात् । ‘“उदक् प्रवणो यज्ञः" इत्यत्र यज्ञस्योदीचीदिक्प्रवणत्वमुच्यत इति प्रतीतिनिरासाय तदनूद्य व्याचष्टे उदगिति । प्रावण्यस्य चेतनधर्मत्वेन यज्ञस्य तदपि कथमित्यत आहऊर्ध्वेति ॥यतो यत आवर्तते तत् तद्गच्छति' इत्येतद् व्याहतिपरिहारायावृत्तौ गमने च निमित्तं दर्शयन् व्याचष्टे - यज्ञस्येति ॥ स्थानाद् यज्ञकरणेन प्राप्तुं प्रसक्तादिति शेषः । ‘“ब्रह्मैवैकर्त्विक्’” “कुरूनश्वाभिरक्षति" इत्येतत्कुरूनित्यस्य देशविशेषपरत्वप्रतीतिं निवारयन् सङ्गतत्वेन व्याचष्टे - तदिति ॥ तत् तस्मादेवंविदो ब्रह्मण एवाऽवृत्तस्थानप्रापणसमर्थत्वादित्यर्थः । एक एव ब्रह्माख्यर्त्विक् । कर्तुरेकत्वाद बहुवचनं कथमित्यत उक्तम् - यज- मानादीनिति ॥ वाक्यशेषे तथा श्रवणादिति भावः । योद्धमारूढा अश्वा वडवा यथाऽभिरक्षतीत्यसत् । बहुश्रुतकल्पनापत्तेः । एवं सति रक्षतीत्यनन्तरमेवास्य वक्तव्यत्वाच्च । अतो ब्रह्मण एवेदं विशेषणमिति भावेन तदनूद्य व्याचष्टे - अश्वेति । बाधकवशाद् रूढित्याग इति भावः । आशु ज्ञानी झडिति यज्ञभङ्गानुसन्धानवानित्यर्थः । तदेवोप- पादयन्नश्वेत्यस्य ज्ञानित्वार्थत्वे धातुं पठति वेति ॥ वातेर्गति-गन्धनार्थत्वेऽपि ज्ञानीति कथं व्याख्यानमित्यत आह गतिशब्द- चेति ॥ तथाऽप्याशु वाति गच्छति अवगच्छतीत्याशुवेति स्यान त्वश्वेति । दीर्घोकारयोर्लोपविधायकाभावादित्यत आह - दीर्घेति ॥ आदिपदेन स्वरादिग्रहणम् ॥ खं० ॥। १७ ।।

खण्डार्थः

प्रजापतिर्भगवान् लोकान् पृथिव्यन्तरिक्षघुसञ्ज्ञकांस्तदभिमानि- देवानभ्यतपद् आलोचितवान् । इम एव रसाः किं ततोऽन्य इति संशयमाहार्य विचारितवानित्यर्थः । इम एव रसा इति प्राप्ते तेषां लोकानां तप्यमानानामालोच्यमानानां सकाशाद् । रसान् वरान् प्राबृहद् उद्वबर्ह । कस्माल्लोकात् कं रसत्वेन निश्चितवानित्यत अह - अग्निमिति ।। पृथिव्या धरादेव्या रसं प्राबृहदित्यादिसम्बन्धः । निष्कृष्य ज्ञातवानिति यावत् । कस्माल्लोकात् कं रसत्वेन निश्चितवानित्यत आह- अग्निमिति । पृथिव्या धरादेव्या रसं प्राबृहद् इत्यादिसम्बन्धः । वायुं नासिक्यम् ॥ १ ॥

ततः स प्रजापतिरेतास्तिस्रो देवताः पूर्ववदभ्यतपत् । तत्राप्येत एव रसा इति प्राप्ते तासां तप्यमानानां सकाशाद् रसान् प्राबृहत् । तदेवाऽह अग्नेरिति ।। अग्नेर्ऋचो ऋग्वेदमानिनं ब्रह्माणम् । वायोर्नासिक्यात् । यजूंषि यजुर्वेदात्मकं हरम् । आदित्यात् सामानि सामवेदाभिमानिनं वायुं सं प्राबृहदिति सम्बन्धः ॥ २ ॥

ततः स प्रजापतिरेतां त्रयीं विद्यां वेदाभिमानिदेवताः पूर्ववदभ्यतपत् । तस्या इत्यादि पूर्ववत् । ऋग्भ्यस्तदभिमानि ब्रह्मणो भूरितिनामकं वराहं, यजुर्भ्यस्तदात्मकाद्धराद् भुव इति नामकं नृसिंहं सामभ्यस्तदात्मकाद् वायोः स्वरिति नामकं कपिलं रसं प्राबृहत् । नित्यज्ञानस्याप्येवमभितपनं क्रीडयेति प्रागेवोक्तम् ।। ३ ॥

यदर्थमेतदुक्तं तदाह - तदिति ॥ तत्तस्मात् । यद् यदि ऋक्तो ऋनिमित्तं रिष्येद् यज्ञः क्षतं प्राप्नुयात् तदा ब्रह्मा भूरिति नामकं वराहमुद्दिश्य ‘“भूः स्वाहा' इति मन्त्रेण गार्हपत्ये जुहुयात् । सा तत्र प्रायश्चित्तिः । तत् तदा ऋचां तदभिमानिचतुर्मुखस्य सकाशाद् रसेन कोऽर्थः ? ऋचां सकाशाद् वीर्येण बलवता वराहेण तत्प्रसादेन यज्ञस्यच विरिष्टिं ऋङ्निमित्तं क्षतं सन्दधाति ब्रह्मा । एवमुत्तरवाक्ययोरपि योजना ॥ ४ ॥

अथेत्यर्थान्तरम् । यजुषां वीर्येण नृसिंहप्रसादेन साम्नां वीर्येण कपिलप्रसादेन ।। ५ ।। ६ ॥

यज्ञस्य विरिष्टिसन्धानमेव सदृष्टान्तमाह - तद्यथेति ॥ तत् निदर्शनं यथा । लवणेन क्षारेण टङ्कणादिना सुवर्णमशक्यसन्धानं सन्दध्यात् स्वर्णकारः । यथा चाशक्यसन्धानं रजतं सुवर्णेन सन्दध्यात् । यथा चाशक्यसन्धानं त्रपु रजतेन । यथा त्रपुणा तादृशं सीसम् ।सीसेन तादृशं लोहम् ।लोहेन दारु, दारु चर्मणा चर्मबन्धनेन सन्दध्यात्॥७ ॥

एवमेषां लोकानां पृथिव्यादीनामासां देवतानामग्र्यादीनामस्या- स्त्रयीविद्यायाः ब्रह्मादीनामिति यावत् । सकाशाद् वीर्येण श्रेष्ठेन भूरादिनामकेन भगवता तत्प्रसादेन यज्ञस्य विरिष्टिं सन्दधाति ब्रह्मा । ब्रह्मणः सामर्थ्यमाहभेषजेति । यत्र यज्ञे एवंविद् ब्रह्मा भवत्येष यज्ञो भेषजेन चिकित्सकेन कृतो हवै ॥ ८ ॥

यत्र यज्ञे एवंविद् ब्रह्मा भवत्येष यज्ञः उदक्प्रवणः ऊर्ध्वलोकानुसारी वै । एवंविदो ब्रह्मण उक्तसामर्थ्यसत्त्वे गाथां प्रमाणयतिएवंविद- मिति । एवंविदं ब्रह्माणम् अन्वनुसृत्यैषा वक्ष्यमाणा गाथा प्रवर्तते । ताव पठतियत इति ।। यज्ञस्य दुरिष्ट्या यतो यतः स्थानात् । यज्ञकरणेन प्राप्तुं प्रसक्तादावर्तते मानव: (१) तत्तत्स्थानमेवंविदा ब्रह्मणा गच्छति मानवो भगवद्भक्तो यजमानः । तत् तस्मादश्वा आशुज्ञानी ब्रह्मैक एवर्त्विक् कुरून् कर्तृन् यजमानादीनभिरक्षति । तां गाथां वेदपुरुषो वृ एवंविदिति ॥ उपसंहरति - तस्मादिति ॥ ९ ॥

।। इति सप्तदश: खण्ड: ।।

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य च्छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां चतुर्थोऽध्यायः ॥