अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् ..
उपनिषत् (खण्डः-११)
‘जीवोऽस्वतन्त्रः' इत्यस्मिन् विषये वृक्षदृष्टान्तः
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद्यो मध्येऽभ्याहन्याज्जीवन् स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ १ ॥
अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धीति होवाच ॥ २ ॥
जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति यथा सोम्येति होवाच ॥ ३ ॥ ११ ॥
भाष्यम्
अभिमानिनोऽस्वतन्त्रत्वाद् भेदेन ज्ञायते तरौ । हरिः किमु मनुष्येषु शोषो ह्यस्यास्वतन्त्रतः ॥ ११ ॥
पदार्थकौमुदी
वृक्षदृष्टान्तोक्त्या कथमस्योत्तरं जातमित्यतस्तदभिप्रायमाह- अभि- मानिन इति ।। वृक्षजीवस्य भेदेन तन्नियामकत्वेन च । अनेन वृक्षजीवः केनचिन्नियम्योऽस्वतन्त्रत्वाद् रथादिवदित्यनुमानं सूचितम् । किमु मनुष्येष्विति कथं कैमुत्यमिति चेत् । मनुष्याणां बहुलं भग्नसङ्कल्प- त्वेनास्वातन्त्र्यं प्रत्यक्षसिद्धम् । वृक्षजीवे त्वस्वातन्त्र्यं कार्यलिङ्गानुमेय- मतो युक्तं कैमुत्यमित्याशयेनाऽह - शोष इति ॥ " अस्य वृक्षजीव- स्यानुपहतात्यक्तदेहेन मया भवितव्यमितीच्छायामप्यस्वातन्त्र्यादेव हि शरीरशोषछेदाद्यनिष्टं भवत्यन्यथा तन्न स्यादित्यर्थः ।। खं० ॥। ११ ॥
खण्डार्थः
किमुवाच - अस्येत्यादि । हे सोम्य महतो वृक्षस्य यो यः कश्चिद् यदि मूलेऽभ्याहन्यात् तदा जीवन जीवेनानिरुद्धाख्येन परमेश्वरेणाऽ- धिष्ठितश्चेत् तदा स्रवेत् रसमेवोद्विरेत् । नतु म्रियते । अङ्कुरमात्रस्याऽ- भ्याघातेऽवस्थानासम्भवान्महत इत्युक्तम् । एवं “यो मध्येऽभ्या- हन्यात्’” इत्यादिकमपि व्याख्येयम् । एवं स एषः वृक्षजीवोऽनेन प्रकृतेन जीवेनाऽत्मना परमात्मनाऽनुप्रभूतः प्राप्तोऽधिष्ठितदेहः पेपीयमानः पुनः पुनर्भृशं वा पिबन् मोदमानस्तिष्ठति ॥ १ ॥
एवं वृक्षजीवस्य सर्वदाऽनुपहतात्यक्तदेहेन सुखिनैव मया स्थातव्यमितीच्छायामपि कदाचिदेवेश्वरानुग्रहे सति विघातिषु बाह्य- कारणेषु सत्स्वप्येवमवस्थानं भवतीत्युक्तम् । इदानीं कदाचिदीश्वरानु- ग्रहाभावे बाह्यकारणबलवत्त्वाभावेऽपि शरीरशोषाद्यनिष्टं भवत्येवेत्याह- अस्येति । अस्य वृक्षजीवस्य यदैकां शाखां जीवः परमात्मा जहात्यथ तदा सा शुष्यति । यदा द्वितीयां शाखां जहाति तदा साऽपि शुष्यति । यदा तृतीयां जहाति तदा साऽपि शुष्यति । यदा सर्वं जहाति तदा सर्वोऽपि शुष्यति । यथाऽयं दृष्टान्तः एवमेव खलु सोम्य मानुषशरीरेऽपि जीवस्येश्वराधीनत्वं विद्धीति होवाच पिता ॥ २ ॥
तदेव विशदमाह - जीवापेतमिति ॥ जीवेन परमात्मनाऽपेतं त्यक्तम् । त्यक्तदेहमिति यावत् । इदं संसारिजातं म्रियते प्राणैर्वियुज्यते । तथाच स्मृति:- " ब्रह्मणा त्यक्तदेहस्तु मृत इत्युच्यते बुधैः" इति । एवं भगवतोऽपि मरणं चेत्, को विशेषस्तस्येत्यत आह न जीव इति ॥ जीवः परमात्मा तु कदापि न म्रियत इत्येवमत्यन्तविलक्षणौ जीव- पराविति शेषः । अत्र प्रकरणे जीवशब्देन परमात्मैवाभिहितः ।‘“जीव इति भगवतोऽनिरुद्धस्याऽख्या" इति श्रुतेः । “विष्णुर्जीव इति प्रोक्तः सततं प्राणधारणात्" इत्यादिस्मृतेश्व । नहि संसारिणो मुख्यतः प्राणधारकत्वं युज्यत इत्यवगन्तव्यम् । इत्युपदिष्टेन पुत्रेण एवं जीवस्य सत्तादिप्रदः परमात्माऽत्रैव शरीरे जीवान्तर्वर्तमानो जीवेन कुतो न दृश्यते ? सौक्ष्म्यादिति चेत् । जीवस्य सूक्ष्मस्वात्मदर्शिनः सूक्ष्मदर्शन- शक्तिसद्भावादित्याशयेन पुनः पृष्टे पिताऽवोचत् || ३ |
।। इति एकादशः खण्डः ।। ११ ।।