अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ..

अथ अष्टमाध्यायस्य प्रथमः खण्डः

उपनिषत्

हृदयकमले भगवदुपासना

ॐ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥

भाष्यम्

'यदिदमस्मिन् ब्रह्मपुरे' इति ब्रह्मपुरशब्देन ब्रह्माख्यं पुरम् पूर्णत्वात् पुरमिति परं ब्रह्म ब्रह्मणः पुरमिति शरीरं चोभयं विव- क्षितम् ।

" प्राप्तोऽस्म्यवध्यं ब्रह्मपुरं राजेव निवसाम्यहम् " 'अस्मिंश्चेदिदं (२) ब्रह्मपुरे सर्वं समाहितम्,

(३) यदैतज्जराऽवाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न बधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युः'

इत्यादिवाक्यशेषाद्(४) भगवद्वचनाच्च ब्रह्मपुरशब्देन परं ब्रह्मोच्यत इत्यवसीयते । ' यत्पुण्डरीकं पुरमध्यसंस्थम्', 'यदिदं शरीरं तदेतदाद्यं देवसदनम्' इत्यादेः शरीरं च ।

हृत्कमलस्थभगवानेव हृत्कमलस्याप्याधार इति निरूपणम्

'यद् वै तद् ब्रह्मेतीदं वा तद् योऽयं बहिर्धा पुरुषादाकाशः ', 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति' इत्यादिना

परब्रह्मण्येव (१) हृदयं स्थितम् ।

पदार्थकौमुदी

हृत्पुण्डरीकगाकाशगतमाकाशनामकम् । नानारूपं जाग्रदादिप्रवर्तकमहं भजे ॥ १ ॥

पूर्वाध्यायेषु बाह्या एव ब्रह्मविद्या निरूपिताः । इदानीमान्तरीं सर्वमुमुक्षुसाधारण हृत्पुण्डरीकविद्यां निरूपयत्यनेनाध्यायेन । येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित् कार्यमेव । "यदिद - मस्मिन् ब्रह्मपुरे " इत्यत्र ब्रह्मपुरशब्देन षष्ठीसमासाच्छरीरमात्रं विवक्षितमिति प्रतीतिनिरासाय तदनूद्य व्याचष्टे - यदिदमिति ॥एतत् सत्यं ब्रह्मपुरम्इति वाक्यस्थ ब्रह्मपुर शब्दव्यावर्तनायानुवादः । तत्र परब्रह्मण एव विवक्षितत्वात् । ब्रह्मणः कथं पुरत्वं तदधिष्ठातुरभावादित्यत आह - पूर्णत्वादिति ॥ इत्युभयं ब्रह्मपुरशब्देन विवक्षितमित्यन्वयः । तन्त्रन्यायेन कर्मधारयषष्ठीतत्पुरुषयोराश्रयणादिति भावः । किमुभय- विवक्षाज्ञापकमित्यतो ब्रह्मपुरशब्दस्य तावद् ब्रह्मविवक्षाज्ञापकौ समाख्योपसंहारावाहप्राप्त इत्यादिना ॥ तत्र निवसामि निवसाम्यह-मिति भगवद्वचनाच्चेति योज्यम् । भगवद्वचनात् तत्समाख्यानादित्यर्थः । समाख्यारूपभगवद्बाचनेऽपि ब्रह्मपुरशब्दस्यावध्यत्वलिङ्गबलात् परब्रह्म- परत्वमिति द्रष्टव्यम् । वाक्यशेषोक्तसर्वाश्रयत्वादिलिङ्गानामन्यत्रा- सम्भवाद् ब्रह्मपुरशब्देन ब्रह्मोच्यत इत्यवसीयत इत्यर्थः ।

शरीरं च ब्रह्मपुरशब्देन विवक्षितमित्येतत् समाख्याभ्यामुपपादयति- यत्पुण्डरीकमिति ॥यत्पुण्डरीकम् ' ' इति तैत्तिरीयवाक्ये पुण्डरीका - श्रयत्वेनोक्तं पुरं तावच्छरीरमिति प्रसिद्धम् । तथाच तत्समाख्यानादत्रापि "ब्रह्मपुरे दहरं पुण्डरीकम् ' इति पुण्डरीकाश्रयत्वेन श्रूयमाणं ब्रह्मपुरं शरीरमित्यवसीयते ।यदिदम्इति श्रुत्यन्तरे शरीरस्य देवसदन- त्वोक्त्या ब्रह्मपुरत्वं लब्धम् । तथाच तत्समाख्यानादत्रापि ब्रह्मपुरशब्देन शरीरमुच्यत इत्यवसीयत इति भावः ।

ननु ब्रह्मपुरशब्देन भगवानपि चेद् विवक्षितस्तर्हि तस्य " अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्युक्तं हृत्पुण्डरीकाश्रयत्वं कथम् ? तस्य शरीरधर्मत्वात् । ब्रह्मणश्च हृत्पुण्डरीकान्तर्गतस्य तदाश्रयत्वायोगादि- त्यतो भगवतोऽपि हृत्पुण्डरीकाश्रयत्वमुपपादयतियद्वै तदिति । पुरुषाज्जीवाद् बहिर्धा देहव्यापी योऽयमासमन्तात् काशत इत्याकाश- स्तदिदं सर्वगं ब्रह्मेति ब्रह्मणः शरीरव्यापित्वमुच्यते । तथाच शरीर- व्यापिभगवद्रूपविशेषस्य हृत्पुण्डरीकाश्रयत्वमुपपद्यत एव । यस्त्वित्यनेन च परब्रह्मणः सर्वाश्रयत्वोक्त्या सर्वान्तःपातिहृदयं हृत्पुण्डरीकमपि तत्र स्थितं तदाश्रितमिति सिद्धमेवेति भावः ।

Load More