विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः ..

उपनिषत् (खण्डः - २२ )

सामगानस्य ध्वनिप्रभेदाः

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥

भाष्यम्

सर्वदा समत्वात् साम भगवान् । तस्योद्गानप्रकारो विनर्दि वृषभस्वरवन्मेघनर्दवद्वा । तदेव वृणे । सर्वोत्तमत्त्वात् ।

विष्णोः स्वरो वृषभवन्मेघनादवदेव वा ।

स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः ॥

ब्रह्मणस्त्वथ सोमस्य साक्षाद् घण्टानिनादवत् ।

मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत् ॥

बृहस्पतेः क्रौञ्चवच्च वरुणस्य तु विस्वरः ।

एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः । वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा ॥' इति च ।

'गायेदेतैः स्वरैस्तस्माद् यथाशक्ति न विस्वरम् ।

पदार्थकौमुदी

एवं सामनाम्नो भगवतो व्यस्तसमस्तोमास्तिरभिहिता । तत्र साम्न उद्गानप्रकारं सप्रभेदमाहविनर्दीत्यादिना ॥ तत्रविनर्दि साम्नो वृणे" इत्येतद्वाक्यं दुर्गमार्थं व्याख्यातुं सामशब्दस्य प्रसिद्धार्थप्रतीतिवारणायार्थ तावदाहसर्वदेति ।।सर्वदा समस्तेन साम" इति श्रुत्यैव पूर्वं निरुक्तेरिति भावः । इदानीं तद्वाक्यं व्याचष्टे - तस्येति ॥ श्रुतौपशव्य- मित्यग्नेरुद्गीथःइत्यत्रोद्गीथशब्दः सर्वत्र सम्बध्यत इति भावेन तस्यार्थ उक्त :- उद्गानप्रकार इति ॥ नन्वेवं ( १ ) साम्न उद्गीथो विनर्दीत्येतावता वाक्यस्य पूर्णत्वाद् वृण इत्यनन्वितमित्यतो वाक्यभेदं कृत्वा योजयति - तदेवेति ।। सामोद्गानप्रकारे विनर्दित्वस्य सिद्धत्वान्नैकवाक्यत्वं सम्भव- तीति भावः । श्रुतावन्यत्र वृण इत्यनुक्त्वाऽत्रैव तदुक्तेस्तदेवेत्येवकारः । तत्र हेतुमाह - सर्वेति ॥ उक्तार्थं द्रढयन् प्रमाणेनैव खण्डं व्याचष्टेविष्णोरिति ।। वृषभवत् वृषभनादवत् । अनेन विनर्दि साम्न उद्गीथ इत्येतद् व्याख्यातम् । ‘“पशव्यमित्यग्नेरुद्गीथःइत्यस्य व्याख्यानम् - स्त्रीति ।। " अनिरुक्तः प्रजापतेः" इत्येतस्यार्थमाहगम्भीर इति । एतद्वदिति निर्वक्तुमशक्यत्वादनिरुक्त इति पदार्थमभिप्रेत्य " अनुपमः'' इत्युक्तम् । सोपमत्वस्य वक्ष्यमाणत्वात् तत्तात्पर्यमाहगम्भीर इति ।निरुक्तः सोमस्यइत्यस्यार्थमाह - अथेति ॥ " मृदु श्लक्ष्णं वायोःइत्येतद् व्याचष्टेमृदुमेघेति ।। ‘“श्लक्ष्णं बलवदिन्द्रस्य " इति वाक्यं व्याचष्टे- इन्द्रस्येति । स्तनयित्नुस्तीव्रमेघगर्जनम् । " क्रौञ्चं बृहस्पतेः" इत्यस्या- र्थमाहबृहस्पतेरिति ॥अपध्वान्तं वरुणस्य' इत्यस्यार्थःवरुण- स्येति ॥

विष्णोः स्वरो वृषभस्वरवदित्युक्तम् ।मृदुमेघस्वरो वायो: " इत्युक्त्या वायुस्वरोऽपि वृषभस्वरवदित्युक्तम् । मेघस्वरवृषभस्वरयोः साम्यात् । अत एवविष्णोः स्वरो वृषभवन्मेघनादवदेव वा" इत्युक्तम् ।गम्भीरोऽ- नुपमो ब्रह्मणः" इत्यनेन ब्रह्मस्वरोऽपि वृषभस्वरवदित्युक्तम् । वृषभमेघ- नादयोरेव गाम्भीर्यदर्शनात् । एवं त्रयाणां स्वरस्यैकप्रकारत्वप्रतीतौ तत्र विशेषमाहएकस्येति ।। एकस्यैकवर्षस्य पादवर्षसहितस्य यून इति यावत् । वृषभस्य स्वरवदिति शेषः । तदन्तरा विंशतिवर्षादवाग्वर्षस्य । यद्वा, “मेघनादवत्'' इति " गम्भीरोऽनुपमः" इति " मृदुमेधस्वरवत्" इति च विष्णुब्रह्मवायुगानां नादानां गम्भीरत्वमुक्तम् । तस्यैकप्रकारत्व- प्रतीतिं निवारयन् विशेषमाह एकस्येति ॥ " तान् सर्वानेवोपसेवेत ' " इत्यस्य सहेतुकमर्थमाह गायेदिति । तस्मादेतेषामेव स्वराणां प्रशस्तत्वादेतैरेव स्वरैर्गायेत् । देवोद्गानसदृशोद्गानविधानमशक्यत्वा- दयुक्तमित्यत उक्तम् - यथाशक्तीति ।।वारुणं त्वेव वर्जयेत्इत्यस्यार्थः न विस्वरमिति ।। तस्माद् विस्वरस्यानर्थहेतुत्वादित्य- त्रापि सम्बध्यते ।

Load More