वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं ..
उपनिषत् ( खण्ड: - २)
नामाभिमान्युषोदेव्याः सकाशाद् वागभिमानिस्वाहादेव्याः उत्तमत्वकथनम्
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्च्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्ग्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ २ ॥
भाष्यम्
तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः ।सर्वैर्गुणैर्विमुक्तौ च तथा बन्धे च सर्वदा । वाचोऽभिमानिनी सैव वाङ्नाम्नी चाञ्चनाद् वसोः || २ ॥
पदार्थकौमुदी
"वाग् वाव नाम्नो भूयसी" इति द्वितीयखण्डतात्पर्यमाह - तस्या इति ॥ स्वाहाऽग्निर्भार्या । तथाशब्द उपमायाम् | ‘“सर्वदा’” इत्यस्य विवरणम् – विमुक्तौ बन्धे चेति । श्रुतौ “वाग् भूयसी" इति श्रवणात् कथं स्वाहेत्युक्तिरित्यत आह- बाच इति ॥ वागिन्द्रियस्य । वसोरग्नेरञ्चनात् पूजनाच्च वाङ्नाम्नी ।। द्वितीयः खण्डः ।
खण्डार्थः
ततश्चेयं खण्डस्याक्षरयोजना
सनत्कुमार आह— वागिति । वाग् वागिन्द्रियाभिमानिनी स्वाव नाम्नो भूयसी । तत् कथमित्यत आह- वाग्वेति ॥ “ अयमृग्वेदः " इत्यादिरूपेण बागेवर्वेदादिकं विज्ञापयति यतोऽतो भूयसीत्यर्थः । ज्ञाप्यज्ञापकयोर्ज्ञापकस्य प्राधान्यादिति भावः । न केवलं नामात्मक- प्रपञ्चज्ञापकत्वं वाचः किन्तु रूपात्मकप्रपञ्च ज्ञापकत्वमप्यस्तीत्याह- दिवं चेत्यादिना ॥ हृदयज्ञं भगवत्तत्त्वज्ञम् अहृदयज्ञं भगवत्तत्त्वाज्ञं विज्ञापयतीति पूर्वेण सम्बन्धः । ननु धर्माधर्मयोः सत्यानृतादेव ऋग्वेदादिज्ञापकत्वोपपत्तेः किं वाचस्तद्ग्रहणेनेत्यत आह- यद्वा इति ॥ यदि वाङ् नाभविष्यन्न तर्हि धर्मादिकम् ऋग्वेदादिकं व्यज्ञापयिष्यत् । वागभावेऽध्ययनाभावेन ज्ञानस्य दूरोत्सारितत्वादिति भावः । उप- संहरति- वागेवेति ॥ १ अन्यत् समानम् ।। २ ॥
।। इति द्वितीयः खण्डः ॥२॥