ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या ..

उपनिषत् (खण्डः- १४ )

उपकोसलमुखे ब्रह्मवर्चः

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसला ३ इति ॥ १ ॥

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु माऽनुशिष्याद्भो इतीहावेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥

चक्षुरन्तःस्थभगवदुपासनम्

इदमिति ह प्रतिजज्ञे लोकान् वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥ १४ ॥

भाष्यम्

इह च अ च ( १ ) इहावे । इहेति मनुष्यलोकस्था उच्यन्ते अवेति पातालस्था (२) । मानुषासुरौ भगवन्तं निह्नुत एव न वक्तुं समर्थों । अतो देवा एव मामनुशशासुरित्यर्थः । ईदृशा इति वर्णतो ज्वालावर्णा इति । अन्यादृशाश्च करशिरश्चरणादिमन्तः । चन्द्रादिसर्वनामवत्त्वात् । 'यो देवानां नामधा एक एव ' इति श्रुतेर्विष्णोरेव सर्वनामानि॥ १४ ॥

पदार्थकौमुदी

को नु माऽनुशिष्याद् भो इतीहावेव निह्नुतः" इति वाक्यस्य को नु माऽनुशिष्यात् त्वयि प्रोषित इत्यपनिद्दुत इवेति व्याख्यानमसत् । गुरुं प्रति सोल्लुण्ठवचनायोगादिति भावेन वाक्यभेदमङ्गीकृत्येहावेवेति पाठमनुसृत्य " इहावे" इत्यत्र विग्रहं दर्शयति इह चेति ।। इहापेति शाखान्तर- पाठस्याप्ययमेवार्थः । पदार्थमाह - इहेति ॥ वाक्यार्थमाह - मानुषेति ॥ पूर्वं बहुवचनप्रयोगेऽपि अत्र द्विवचनप्रयोगो जात्यभिप्रायेण । इ द्विवचनश्रवणात् । भगवन्तमिध्याहारः । वशब्दार्थः - एवेति । तथाच " को नु माऽनुशिष्यात्" इत्यस्य को वा मनुष्यो बाऽसुरो वा मामनुशिष्यात् । न कोऽपीत्यर्थ इति भावः । तर्हि " को नु त्वाऽनु- शशास’” इत्यस्य किमुत्तरं जातमित्यतः परिशेषसिद्धमर्थमाह अत इति ।। के ते देवा इत्याकाङ्क्षायांइमे नूनम् ' ' इत्यादिकं प्राप्तिमिति भावेन ईदृशा अन्यादृशा इति पदार्थावाह - ईदृशा इतीति ॥ ईदृशा इत्यस्य परिदृश्यमानभूतानिवद् वर्णतो ज्वालावर्णा इत्यर्थ इति शेषः । अन्यादृशाः भूताग्निविलक्षणा इति पदार्थमभिप्रेत्य वैलक्षण्यमेवोक्तम्- करेति । एतेनेो मया परिचरिता उक्तवन्तो नूनम् । यत् स्वां दृष्ट्वा वेपमाना इवेदृशा दृश्यन्ते । पूर्वमन्यादृशाः सन्त इति व्याख्यान - मसदित्युक्तं भवति । उपकोसलेन स्वगुरुं प्रति निश्चितार्थस्यैव वक्तव्यत्त्रेनानुभवचौर्यायोगात् । अग्नीनां सत्यकामादुत्तमत्वेन तच्छिष्य- मुपदिश्यापि वेपमानत्वासम्भवाच्च । तथाचोक्तम् - ऋषिभ्यस्तूत्तमा देवा इति ॥

पृथिव्यग्निरन्नमादित्यः" इत्यादीनि नामानि विष्णोरेवेत्यत्र युक्तिमाहचन्द्रादीति ॥ विष्णोरेवात्रोक्ताग्निपृथिव्यादिसर्वनामानि । अत्र चन्द्रादित्यविद्युच्छब्दानां देवतावाचकानां श्रवणात् । विष्णो- श्चन्द्रादिसर्वदेवतानामवत्त्वात् ।यो देवानाम्' इति श्रुतेरित्यर्थः । यद्यपि ‘“नामानि सर्वाणि' इति श्रुतेरेवोदाहरणं युक्तम् । तथाऽपि युक्तिकथनार्थमेवमुक्तम् । आदित्यशब्दस्याऽदिमत्त्वेऽपि मध्यवाक्य- स्थचन्द्रशब्दग्रहणं पूर्वोत्तरसग्रहाभिप्रायेण । पृथिव्यादिनाम्नां देवता- वाचकत्वविवादाभिप्रायेणेदम् । यद्वा पृथिव्यादिसर्वनामानि विष्णो- रेवेत्यत्र श्रुतिमेवाऽहचन्द्रादीति ॥ तथाच विष्णोरेव पृथिव्यादिसर्व- नामानीति प्रतिज्ञा । तत्र हेतुः - श्रुतेश्चन्द्रादिसर्वनामवत्त्वात् । सर्व- नामवत्त्वावगमादिति योजना ।। चतुर्दशः खण्डः ||

खण्डार्थः

एवं सम्भूय प्रत्येकं चोपदिश्य ते होचुः । हे सोम्योपकोसल ते तुभ्यमेषाऽस्मद्विद्याऽन्तर्यामिविद्याऽऽत्मविद्या सर्वगतात्मविद्या चो-पदिष्टा । एषा तु ज्ञेयैव । नतु (१) त्वयोपास्या । अत आचार्य एव ते तव गतिं गम्यत इति गतिरुपास्यं मार्गं गम्यं च वक्तेति । आजगाम हास्याऽचार्य: । तमाचार्योऽभ्युवाद | उपकोसला ३ इति ।भगवः" इति ह प्रतिशुश्रा- बोपकोसलः । हे सोम्य ते मुखं ब्रह्मविदो मुखमिव सुप्रसन्नं भाति । को नु त्वाऽनुशशास ? नुर्वितर्के(२) । देवो वाऽन्यो वा इत्युक्त आह ( ) - भो मा मां को नु मनुष्योऽसुरो वाऽनुशिष्यात् ? न कोऽपि । कुतः इह चाव हावे । इहेति मनुष्यलोकस्थ उच्यते । अवेति पातालस्थः । मानुषासुरौ भगवन्तं निह्नुत एव न वक्तुं समर्थों । अतो देवा एव मामनुशशा- सुरित्यर्थः (४) ' ” । के ते देवा इत्यत आह - इम इति ॥ ईदृशाः वर्णतः परिदृश्यमानाग्निवत् ज्वालावर्णाः अन्यादृशाः करशिरश्चरणादिमन्तः इमेऽध्यक्षा: नूनं निश्चयेन मामनुशशासुः । वेदपुरुषः स्पष्टं तदुपदेष्टृनाह - इतीति । इत्यनेन प्रकारेण हाऽचार्यसमीपे अग्नीन् स्वात्मोपदेष्टृनभ्यूद उपकोसलः । एवमुक्त आचार्यो हे सोम्य तेऽग्नयः किल किन्ववोचनित्युवाच ॥ १-२ ॥

" इदमिति ह प्रतिजज्ञे " उपकोसलः । अग्निभिरुक्तमनूदितवानि- त्यर्थः । एवमुक्तः सत्यकामो हे सोम्य तेऽग्नयो लोकान् सर्वाधारान् प्राणसर्वगतान्तर्यामिरूपानेवावश्य वेद्यान् किलावोचन् । ते तु त्वया ज्ञेया एव । नोपास्याः । न वा गम्याः । अहं तु ते तव तद्वक्ष्यामि यदुपास्यं येन पथा यद् गम्यं च । वक्ष्यमाणं स्तौतियथेति । एवंविदि वक्ष्यमाणा- परोक्षज्ञानिनि । ब्रवीतु भगवानित्युक्तस्तस्मै होवाच ।। ३ ।

॥ इति चतुर्दशः खण्डः ।।