अथाध्यात्मं वागेवकः प्राणः साम तदेतदेस्यामृच्यध्यूढं साम ..
उपनिषत्(खण्ड: - ७)
देहगतऋक्साम्नोरुपासना
अथाध्यात्मं वागेवकः प्राणः साम तदेतदेस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते वागेव सा प्राणोऽमस्तत् साम ॥ १ ॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते चक्षुरेव साप्राणोऽमस्तत् साम ॥ २ ॥
श्रोत्रमेवङ्गर्मनः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते श्रोत्रमेव सा मनोऽमस्तत् साम ॥ ३ ॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदक्ष्णः शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ४ ॥
अक्षिस्थोद्गीथमहिमा
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवकः तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावदमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात् ते धनसनयः ॥ ६ ॥
अथ य देतदेवं विद्वान् साम गायत्युभौ साम गायति सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास्तांश्चाप्नोति देवकामास्तांश्च ॥ ७ ॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥
कं ते काममागायानीत्येष ह्येष कामगानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ ९ ॥सप्तमः खण्डः ७ ॥
भाष्यम्
आत्मा जीवः ।
'सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरित: । विदित्वा तावुभौ देवौ तद्नं ध्यायेद्धरिं सदा ||' इति मानसे । ‘दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् । ऋङ्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥ उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः । ब्रह्मासौ (४) पूर्णरूपत्वादेवं सर्वाभिधानवान् ।।' इति च ।
'यथा बदरिकानाथ द्वारकानाथ इत्यपि । अनाथः पराङ्नाथ इति तद्वदिहोच्यते । सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ' इति च ||७||
पदार्थकौमुदी
" चक्षुरेवर्गात्मा साम'' इत्यत्राऽत्मशब्देन छायात्मोच्यत इति व्याख्याननिरासायाऽत्मशब्दार्थमाह- आत्मेति । कुतोऽयमर्थः ? परोक्त एवार्थः किं न स्यादित्यतः श्रुत्यार्थनिश्चायकं प्रमाणमाह सरस्वतीति ।
ननु य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" "य एषोऽन्त- रक्षिणि पुरुषो दृश्यते’”इत्ययुक्तम् । “न चक्षुषा पश्यति कश्चिदेनम्" इत्यादिश्रुतिविरोधादित्यतस्तद् व्याचष्टे - दृश्यत इति || “सैवर्क तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म'' इति वाक्यमृगाद्यात्मकत्वप्रतीतिनिरासाय व्याचष्टे ऋङ्नामेति ॥ एतेन जीवाख्यचाक्षुषपुरुषपरमित्येतदपि परास्तम् । किञ्च यदीदं प्रकरणं जीवपरं स्यात् तदा " स एष ये चैतस्मादर्वाचो लोकास्तेषां चेष्टे" इति पातालादिलोकाधिपत्यकथन- मयुक्तं स्यात् । नच जीवस्यार्वाग्लोकाधिपत्यमस्ति । सर्वेषां तदनु- पलम्भेऽपि कस्यचित् स्यादिति चेन्न । सर्वस्यापि भगवद्भिक्षुकत्वेन कस्याप्यसम्भवात् । उक्तं चैतरेयभाष्ये " नहि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र किञ्चिन्मानम्" इति ।
ननु चाक्षुषपुरुषस्येश्वरत्वेऽपि नैतदुपपन्नम् । तस्य सर्वलोकनाथत्वेन विशिष्यार्वाग्लोकनाथत्वकथनस्याधिदैवप्रकरणे “ स एष ये चामुष्मात् परावो लोकास्तेषां चेष्टे" इति पराग्लोकनाथत्वकथनस्य चानुपपत्ते- रित्यत आह -यथेति ॥
खण्डार्थः
अधिदैवतमृक्सामादिस्वरूपकथनानन्तरम् अध्यात्ममृक्सामस्वरूप- कथनपूर्वकमुद्गीथस्वरूपमुच्यत इति शेषः । " बागेवर्क" इत्यादेः पूर्व- वदेवाक्षरार्थः । वागेव वागिन्द्रियगतैव । प्राणः श्वासरूपप्राणस्थः।। १ ।।
चक्षुश्चक्षुस्था | आत्मा जीवस्थः ॥ २
श्रोत्रं श्रोत्रस्था | मनो मनस्थः ॥ ३ ॥
यदेतदक्ष्णश्चक्षुषः शुक्लं भास्तेजः सैव तत्स्थैव ऋक्, अथ यन्नीलं परः परं कृष्णं तत्स्थं साम ॥ ४ ॥
एवमध्यात्ममृक्सामनामक सरस्वतीवाय्वोर्माहात्म्यमुक्त्वेदानीं तदन्तर्गतोद्गीथाख्यभगवत्स्वरूपमाह - अथेति । य एष पुरुष उद्गीथाख्यो भगवानक्षण्यक्षिस्थ‘'सरस्वतीवाय्वोरन्तर्दृश्यते । ज्ञानदृष्ट्येति शेषः । तस्य माहात्म्यमाह – सैवेति ॥ सैव योऽन्तरक्षणि पुरुषो दृश्यते सा ऋक् ऋङ्नामा ज्ञानरूपत्वात् । ऋक्शब्दस्य स्त्रीलिङ्गत्वात् तदपेक्षया सेत्यु- क्तम् । एवमुत्तरत्रापि । तत् साम सामनामकं नित्यसमत्वात् । तदुक्थम् उक्थनामकमुत्थापकत्वात् । तद् यजुर्यजुनामकं याज्यस्वरूपत्वात् । तद् ब्रह्म ब्रह्मनामकं पूर्णरूपत्वात् । इदमधिदैवप्रकरणेऽपि ग्राह्यम् । चक्षुस्थस्य भगवतः कीदृशं रूपादिकमित्यतो यादृशं सूर्यस्थस्य तादृश- मेवास्यापीत्याह तस्येति ।। तस्यैतस्याक्षिस्थसरस्वतीवायुगतस्य भगवतस्तदेव रूपम् । किम् ? यदमुष्य सूर्यस्थसरस्वतीवायुगतस्य रूपं हिरण्मयत्वादिकं, यौ ऋक्सामनामको सरस्वतीवायू अमुष्य गेष्णौ. तावेवास्य गेष्णौ यदमुष्य नामोदिति उद्गीथ इति च तदेवास्य नाम ।। ५ ।।
स एषोऽक्षिस्थो भगवान् ये चास्मादर्वाञ्च लोकाः पातालाद्यास्तेषां चेष्टे । तेषामप्यधिपतिर्भवति । न केवलमस्य लोकस्येति चशब्दार्थः । मनुष्यकामानां चेष्टे मनुष्यकामितदानाय समर्थो भवति । इतिशब्दो भगवत्स्वरूपनिरूपणसमाप्तिद्योतकः । “मनुष्यकामानां चेष्टे” इत्युक्त- मनुभवारूढं कर्तुमाह तद्य इति ॥ तत् तस्माद् भगवतो मनुष्यकामदानसमर्थत्वाद् य इमे प्रसिद्धा गायका वीणायां गायन्ति राजादिपुरतस्ते एतमक्षिस्थं भगवन्तमेव गायन्ति । तस्माद् भगव- गायकत्वादेव भगवत एव ते गायका धनसनयो धनप्राप्तिमन्तः । राजादेर्धनदाने स्वातन्त्र्याभावादित्यर्थः ।। ६ ।।
उक्तरीत्या ज्ञात्वा सामगायकस्य सामर्थ्यमाह – अथेति ॥ य उद्गाता एतद् अधिदैवमादित्यस्थसरस्वतीवायुगतमध्यात्मं चक्षुस्थसरस्वतीवायुगतं भगवत्स्वरूपं एवमुक्तप्रकारेण विद्वान् साम गायति स उभावादित्य- चक्षुस्थितौ भगवन्तावेव गायति । किं स्वसामर्थ्येन ? नेत्याह सोऽमुनैवेति ॥ स उद्गाता गायतीति यत् तदमुनैव भगवत्प्रेरणयैवेत्यर्थः । इष्टफलप्रापकत्वलक्षणं सामर्थ्यान्तरमाह - स इति । स एष भगवदुद्गाता ये चामुष्मादन्तरिक्षलांकात् पराखो लोकाः स्वर्गादयो वैकुण्ठादयश्च तांश्चाऽप्नोति उद्गानेन योग्यान् प्रापयतीत्यर्थः । न केवलममुं लोकमिति चशब्दः । देवकामांश्च देवकाम्यान् स्वर्ग्याश्वाप्नोति प्रापयतीत्यर्थः । पराग्लोकादिप्रापकत्वं न स्वसामर्थ्यादिवेति वक्तुं "सोऽमुनैव" इत्येतदत्रापि योज्यम् । स उद्गाता पराग्लोकादि प्रापयतीति यत् तदमुनाऽऽदित्यगतभगवत्प्रसादेनेत्यर्थः ।। ७ ।।
अथानेनैव चक्षुःस्थभगवत्प्रसादेनैव ये चास्मादवञ्च लोकास्तां- वाप्नोति उद्गानेन प्रापयति । न केवलमिमं लोकमिति चशब्दः । मनुष्यकामांश्च नृलोकगान् मनुष्यकामां (म्यां) श्च प्रापयतीत्यर्थः ।
अत्रायं विवेकः । भगवदुद्गाता हि मुख्यो वायुरमुख्यस्त्वाधुनिको मनुष्यः । तत्र वायुविवक्षाया परागवग्लिोकप्रापकत्वमुच्यते । मनुष्यविवक्षया स्वर्ग्यनृलोकगकामप्रापकत्वमिति । तस्मादेवं- विदुद्रातुरतिसमर्थत्वाद् एवंविदुद्गाता यजमानं प्रति ब्रूयात् । किमिति ? ते तब कं काममुद्दिश्याऽगायानि उद्गानं कुर्यामिति । नैतद्वचनमात्रम् । य एवंविद्वान् साम गायति एष एव हि यजमानकामगानस्येष्टे उद्गानेन यजमानेष्टप्रदानसमर्थ इत्यर्थः । द्विरुक्तिः पूर्ववत् ॥ ८-९ ॥ ॥ इति सप्तमः खण्डः ॥