उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते ..

उपनिषत् ( खण्ड: १३)

वामदेव्यसामप्रतिपाद्यभगवदुपासना

उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥

स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न काञ्चन परिहरेत् तद् व्रतम् ॥ २ ॥१३॥

भाष्यम्

'मिथुनस्थं पञ्चरूपं (२) ध्यात्वैव पुरुषोत्तमम् । अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः ।। ' इति च । मिथो नयतीति मिथुनं भगवान् ॥ १३ ॥

पदार्थकौमुदी

‘“उपमन्त्रयते’” इति खण्डोऽपि भगवत्पर इति ज्ञापनाय स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति" इत्यादिफलवाक्यं प्रमाणेन व्याचष्टे - मिथुनस्थमिति ॥ मिथुनीभवतीत्यस्यार्थः - अत्यागी च स्वभार्याणामिति । अनेन " न काञ्चन परिहरेत्" इत्यस्य स्वभार्याणां मध्ये न काश्चन परित्यजेदित्यर्थः सूचितः । तेन काञ्चन काञ्चिदपि स्त्रियं स्वतल्पप्राप्तां समागमार्थिनीं न परिहरेदिति व्याख्यानं परस्त्रीरागपारवश्येन कृतमित्युपेक्ष्यमिति सूचितम् । प्रतिषेधशास्त्र - विरोधात् । नच वामदेव्योपासनाङ्गत्वेन विधानादेतस्मादन्यत्र प्रतिषेध- स्मृतयः । वचनप्रामाण्यादस्य च धर्मत्वावगतेरिति वाच्यम् । एतद्वचनस्यैव बहुस्मृतिविरोधेनोक्तरीत्याऽन्यार्थत्वात् ।मिथुने प्रोतम्’’इत्युक्तो मिथुनशब्दो मिथुनस्थभगवत्पर इत्युक्तम् । तत्र तं शब्दं निर्वक्तिमिथ इति ।। ओकारस्योकारो निर्वचनत्वात् ।। खण्डः - १३ ।।

खण्डार्थः

उपमन्त्रयते रन्तुं सङ्केतं करोति । ज्ञपयते सुखमनुभवति । प्रति स्त्री सह शेते यत्स्त्रिया सह प्रतिशेते यत्स्त्रिया सहाऽभिमुख्येन शयनं करोतीत्यर्थः । कालं मैथुनसमयं गच्छति प्राप्नोति । तन्निधनम् । न केवलमेतावत् । पारं मैथुनपारं गच्छति प्राप्नोति । तन्निधनम् । मिथुनीभवति स्वभार्या त्यागी - भवतीत्यर्थः । मिथुनान्मिथुनात् प्रजायते । अमोघरेता भवतीति यावत् । न काश्चन परिहरेत् । एकस्यैव यदि कर्मवशेनानेकभार्याः स्युस्तासु न काञ्चन परित्यजेदित्यर्थः ।। १-२॥

।। इति त्रयोदशः खण्डः