अधीहि भगव इति होपससाद सनत्कुमारं ..
अथ सप्तमाध्यायस्य प्रथमः खण्डः
उपनिषत्
सनत्कुमारसविधे नारदागमनम्
ॐ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
नारदाधीतशास्त्रवर्णनम्
ऋग्वेदं यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तन्मा भगवांञ्च्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
नामाभिमानिन्यामुषोदेव्यां भगवदुपासनम्
नाम वा ऋग्वेदः यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमः वेदानां वेदः पित्र्यो राशिः दैवो निधिः वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्वेति ॥ ४ ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाग्वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ५ ॥ १ ॥
भाष्यम्
यद्वेत्थ तेन तदुक्त्वा मामुपसीद । "पितृलक्षणं तु पित्र्यं स्याद् राशिः स्यात् पूगलक्षणम् । देवतालक्षणं दैवं निधिश्व निधिलक्षणम् || वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः । एकायनमिति प्रोक्तं देवविद्या त्वमानुषी ( २ ) ॥ देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम् । भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका ॥ नाक्षत्री ज्यौतिषाख्या (२) च सर्पलक्षणमेव च । सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा । सा देवजनविद्या स्यादेता वेद स नारदः ।। "
इति सामसंहितायाम् ।
‘“विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान् । सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये । कुमारमैच्छद् देवर्षिर्नारदो ब्रह्मवित्तमम् ॥” इति च ।
" विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृताः (३) | नामाभिमानिनी (४) चोषास्तस्यां ब्रह्म परं स्मरेत् ॥
यदेषा न त्वमेया स्यान्मीयते ह्युषसि ध्रुवम् । रात्रिमानमजानद्भिस्ततो नामेत्युषा स्मृता ( ९ ) ॥ १ ॥
पदार्थकौमुदी
नामादिप्राणपर्यन्तदेवश्रेष्ठाय विष्णवे । सत्याद्यात्मान्तरूपाय नमो भगवते सदा ॥ १ ॥
पूर्वं जीवभिन्नत्वादिना विष्णोः सर्वोत्तमत्वं निरूपितम् । इदानीं तद्देवतातारतम्यपुरःसरमेव तारतम्यान्तगत्वेन ज्ञातं फलवन्नान्यथेति भावेन देवतातारतम्यकथनपुरःसरं विष्णोः सर्वोत्तमत्वमेव निरूपयत्यनेनाध्या- येन । तत्र " यद्वेत्थ तेन मोपसीद" इत्यत्र मेत्यस्य निषेधार्थत्वं प्रतीयते । अस्मच्छब्दरूपत्वेऽपि तेन (२) मामुपसीदेत्ययुक्तम् । स्वज्ञानपरित्यागे- नाऽगमनासम्भवेन स्वज्ञानेन सहैव नारदेनाऽगतत्वादित्यतस्तदूव्याचष्टे- यद्वेत्थेति ॥
ननु नारदोक्तविद्यामध्ये ऋग्वेदादिपुराणान्ता विद्याः प्रसिद्धाः । " पित्र्यं राशिम्" इत्यादिकमप्रसिद्धमतोऽप्रतिपत्तिविप्रतिपत्तिनिरासाय पित्र्यमित्यादिकं क्रमात् प्रमाणेनैव व्याचष्टे - पितृलक्षणमित्यादिना ॥ पितॄणां लक्षणं यस्मिंस्तत्पितृलक्षणं श्राद्धकलापः । पूगलक्षणं सङ्ख्चा- समूहलक्षणं गणितशास्त्रम् । देवानां यथाक्रमं द्वात्रिंशल्लक्षणादिप्रतिपादकं शास्त्रं देवतालक्षणम् । दैवमुत्पातज्ञानमित्यप्रामाणिकम् । निधिलक्षणमे- तादृशस्थले निधिरस्तीत्यादिप्रतिपादकम् । मूलवेदः प्रागेवनिगदादि-रूपेण विभक्तः । ततश्च प्रागृगादिशब्दैरवान्तरो वेदो ग्राह्य इति भावः । वेदसारोपसंहृतिः मूलवेदसारस्यावान्तरवेदस्योद्धारश्चतुर्विंशत्यादिशाखा- रूपः । वाकोवाक्यं तर्कशास्त्रमेकायनं नीतिशास्त्रमित्यप्रामाणिकम् । देवविद्या दैवमित्युक्तैवेत्यसत् । तथा सति पुनरुक्त्यापातादिति भावेनोक्तम्- देवेति ॥ तुशब्दः पूर्वोक्ताद् विशेषज्ञापनार्थः । देवैरेव ज्ञेया या विद्या सा देवविद्या । (१) अवधारणव्यावर्त्त्यमाह - अमानुषीति ।। न मानुषैर्ज्ञेयेत्यर्थः । अरण्ये अधीयत इत्यारण्यमुपनिषत् । ब्रह्मविद्या शिक्षाकल्पादिकमित्यप्रामाणिकम् । भूतचिह्नं देवेतरभूतचिह्नप्रतिपादकं सामुद्रम् | नीतिका नीतिशास्त्रम् | क्षत्रविद्या धनुर्वेद इत्यप्रामाणिकम् सर्पलक्षणं गारुडम् । देवपरिचारगा गान्धर्वम् ।
नन्वेवं तर्हि नारदस्य सर्वविद्यावेत्तृत्वेनाऽत्मविद्यावित्त्वात् “कथं सोऽहं मन्त्रविदेवास्मि नात्मवित्" इति स्वस्याज्ञानत्वमुच्यते । " तन्मा भगवान् शोकस्य पारं तारयतु' इति किमिति कुमारः प्रार्थ्यत इत्याशङ्कां प्रमाणेनैव परिहरति- विद्यानामिति । सर्वविद्याविदपि पुमानद्धा विद्यानां निर्णयाज्ञानादविद्वानित्युच्यते यस्मात् तस्मात् सर्वविद्याविदपि देवर्षिरद्धा निर्णयवित्तये कुमारमैच्छदित्यन्वयः । “ब्रह्मवित्तमम् ' ' इति गुरुत्व- प्रयोजकोक्तिः । तेन देवर्षिर्नारदः स्वयं श्रेष्ठोऽपि प्राकृतपुरुषवत् सनत्कुमारमाससादेति निरस्तम् । सनत्कुमारस्य स्कन्दत्वेन तदपेक्षयाऽ- प्युत्तमत्वात् ।
नारदप्रार्थितः कुमारो " यद्वै किञ्चैतदध्यगीष्ठा नामैवैतन्नाम वा ऋग्वेदः” इत्यादिना सर्वविद्यानां नामत्वमाह तत् कस्य नामेत्यत आह- विष्णोरिति ॥ " नामोपास्व" इतीति विधिवाक्यस्थनामशब्दस्य प्रसिद्धार्थत्वप्रतीतिं निवारयंस्तदर्थमाह- नामाभिमानिनीति ॥ ननु विधिवाक्ये ब्रह्मेति पूरणीयम् । अन्यथेतिशब्दानुपपत्तेः । “नाम ब्रह्मे- त्युपास्ते" इत्यनुवादायोगाच्च । ततश्च नामब्रह्मशब्दयोः प्रथमान्तत्वेनैक्य- दृष्टिरत्र कर्तव्येत्युच्यत इत्यबुधानां शङ्कावारणाय तद्व्याचष्टे - तस्या- मिति ॥ ननूषसोऽश्विभार्यायाः नामत्वमेव कथम्? तदभिमानित्वादित्यु - क्तमेव । तर्हि सर्वविद्याभिमानित्वे भारत्यादिवदमेयत्वं स्यादित्याशङ्कां नामशब्दनिर्वचनेनैव परिहरति- यदिति । एषा यस्मादमेया नैव ततो नामेति स्मृता । अमा अमेया न भवतीति नामेति निर्वचनात् । इयं कुतो नामेयेत्यत उक्तम् - मीयत इति ।। रात्रिमानमजानद्भिरुषस्युषःकाले ध्रुवं मीयते । तदभिमात्वात् । यस्मात् तस्मान्न त्वमेयेत्यन्वयः ।। प्रथमः खण्डः ।।
खण्डार्थः
नारदो देवर्षिः सनत्कुमारं स्वापेक्षया ब्रह्मवित्तममधीहि मामध्यापय । भगवो भगवन्निति होपससाद । तं नारदं प्रत्युवाच सनत्कुमारः । त्वं यद्वेत्थ तेन तदुक्त्वा मामुपसीद । तत ऊर्ध्वं तदनन्तरं ते तव वक्ष्यामि । अज्ञातस्यैवोपदेष्टव्यत्वात् ॥ १ ॥
एवमुक्तः सः नारदो होवाच ऋग्वेदमित्यादि । इतिहासश्च पुराणं चेति द्वन्द्वैकवद्भावः । इतिहासपुराणं वेदं ग्रन्थम् । वेदानामृगादीनां पञ्चमं पञ्चत्वसङ्ख्यापूरणम् । वेदमध्येमीत्यर्थः । अत्र सामान्योक्तावपि प्रमाणान्तरबलाद् वेदानुकूलयोरेवेतिहासपुराणयोर्ग्रहणम् । इतरत् पूर्वमेव स्पष्टम् ।। २ ।।
हे भगवः सोऽहमेवं सर्वविद्यावेत्ताऽपि मन्त्रविदेव आत्मनामविदेवास्मि । तन्निर्णयाज्ञानान्नाऽत्मवित् । अलमात्मप्रति- पादकज्ञानेन । किं तत्प्रतिपाद्यज्ञानेनेत्यत आह- श्रुतमिति ॥अस्त्वात्मज्ञानस्य शोकतरणलक्षणमुक्तिसाधनत्वम् । त्वं तीर्णशोकश्चेद् व्यर्थ उपदेश इत्यत आह- सोऽहमिति || हे भगवः सोऽहं शोचामि । विद्यानामद्धा निर्णयाज्ञानेनाऽत्मावित्त्वात् । तत् तस्मान्मा मां भगवाञ्छोकस्य शोकसागरस्य पारमन्तं तारयत्विति प्रार्थितः कुमारस्तं होवाच । यद्वै यदेव किमप्येतद् प्रागुक्तमृगादिकमध्यगीष्ठाः अधीत- वानसि । एतदात्मनो विष्णोर्नामैव || ३ ||
एकदेशस्य नामत्वात् सर्वस्य नामत्वोक्तिरुपचरितेत्याशङ्कापरि- हारायोक्तं विवृणोति - नाम वा इत्यादिना ॥ “ इतिहासपुराण: " इत्यत्र द्वन्द्वैकवद्भावप्रयुक्तं नपुंसकत्वं नाऽश्रितम् । पुराणशब्दस्य विशेष्यलिङ्गत्वाद् ग्रन्थविशेषणत्वेन पुल्लिङ्गत्वमेवाऽश्रितम् । “नामै - वैतत्” इति निगमनम् । प्रकृतसर्वविद्यारूपनामावान्तराभिमानिन्या- मुषोनामिकायामश्विभार्यायां ब्रह्म सन्निहितमित्युपास्तिः कार्येत्याह- नामोपास्वेतीति ॥ द्वितीया सप्तम्यर्थे । ब्रह्मपदं पूरणीयम् ॥ ४ ॥
नाम्नि ब्रह्मोपासकस्य फलमाह - स य इति । सः प्रसिद्धो योsधिकारी नाम्नि ब्रह्मेत्युपास्ते नामवतो ह स लोकानभिसिद्ध्यतीति ग्राह्यम् । उत्तरत्र तथा श्रवणात् । फलान्तरमाह - यावदिति । यो नाम ब्रह्मेत्युपास्ते । अस्योपासकस्य नाम्नो यावद्गतं गमनमस्ति तत्र लोके यथा योग्यताऽनतिक्रमेण कामचारो भवति । एवं नामाभिमानिन्यां ब्रह्मोपा- स्तावुक्तायां किं नाम्नो भूयोऽस्ति नवा ? आद्ये तत्रैव ब्रह्मोपास्ति- विधेया । द्वितीये मानान्तरविरोध इत्याशङ्कायां पृच्छति - अस्तीति ॥ किंशब्दोऽध्याहार्यः । परिहारमाह - नाम्न इति ॥ हे भगवो नाम्नो भूयोऽधिकमस्ति किमिति पृष्टः कुमारो नाम्नो भूयोऽस्त्येवेति परिहार - माह । उपासकविशेषं प्रत्येव नामाख्यप्रतीकोक्तिरिति भावः । तन्नामा - धिकं वस्तु मे भगवान् ब्रवीत्विति नारदः ।। ५ ।।
।। इति प्रथमः खण्डः ।।