त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां ..
उपनिषत् ( खण्ड: - ३)
संसारे आकाङ्क्षितं सर्व कुतो न लभ्यते इत्यत्र कारणवर्णनम्
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
भाष्यम्
तस्माद् ये मुक्तियोग्याः स्युस्तेषां कामाः पुराऽपि तु ॥ सत्याः सन्तस्तदज्ञानान्न दृश्यन्ते तथाऽखिलाः ।
अज्ञानमनृतं प्रोक्तमृ गताविति धातुतः || तस्माद् द्रष्टुं यदिष्टं स्यात् तद्दृष्टिनियमो न तु (१) ।
अमुक्तस्य ………………………………||
पदार्थकौमुदी
यदि मुक्तौ सत्यकामत्वं तर्हि तत्पूर्वमपि स्यादेव । मुक्तधर्मणां तत्स्वभावत्वात् । तथाचानुपलम्भबाध इत्याशङ्कापरिहाराय प्रवृत्तं “त इमे सत्याः कामाः अनृतापिधानाः" इति वाक्यं व्याचष्टे - तस्मादिति ॥ अनेन सर्वेषामपि कामाः सत्या इति यथाश्रुतप्रतीतिरप्यपास्ता । ‘‘तदज्ञानात्’’(१) इत्यनेनानृतशब्दो व्याख्यातः । कचित् संत्या दृश्यन्त एवेत्यत उक्तम्- तथाऽखिला इति ॥ यथा मुक्तौ तथेत्यर्थः । ननु " अनृतापिधानाः " इति मिथ्याभूतवस्त्वाच्छादितत्वोक्तेः कथम- ज्ञानान्न दृश्यन्त इत्युक्तमित्यत आह- अज्ञानमिति ॥ कुत इत्य आह - ऋ गताविति ॥ गत्यर्थानां ज्ञानार्थत्वान्निष्ठाप्रत्ययस्य च भावार्थ- त्वात् । ऋतं ज्ञानं तद्विरुद्धमज्ञानमनृतमित्यर्थः । " यो यो ह्यस्येतः प्रैति’”इत्यादि व्याचष्टे– तस्मादिति ॥ सत्यकामत्वस्य पूर्वमज्ञानावृत- त्वात् ।