जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुवाक्य आस
अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते चतुर्थाध्याये प्रथमः खण्डः
उपनिषत्
( जानश्रुतेरुपाख्यानम् )
||हरिः ||ॐ|| जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुवाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे सर्वत एव मेऽत्स्यन्तीति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
'मनो ब्रह्म' इत्यादिखण्डे ' भाति च तपति च' इत्यादिना भानादिफलकविद्योक्ता । अत्र तु सार्वज्ञादिसम्पादकसंवर्गविद्या- माख्यायिकया त्रिभिः पर्वभिराह – जानश्रुतिरिति । जनश्रुतस्यापत्यं जानश्रुतिः पुत्रायणस्य गोत्रापत्यं पौत्रायणः, श्रद्धया देयमस्य श्रद्धादेयः, बहुदायी यथेष्टदाता, बहुवाक्य: (१) बहुमानवाक्यवान्, बहुश्रुतो वा आस बभूव । स राजा सर्वतः सर्वत्र आवसथान् गृहान् मापयाञ्चक्रे कारया- मास । कुतः ? सर्वत आगत्य मे मदीयमन्नमत्स्यन्ति । अधुरिति बुद्ध्याऽन्नसत्रगृहान् कारयामास सर्वत्रेत्यर्थः ।। १ ।।
उपनिषत्
अथ ह हंसा निशायामतिपेतुस्तद्धैवं हंसो हंसमभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ एवं राज्ञि स्थिते सत्यनन्तरं कदाचिन्निशायां रात्रौ हंसाः पक्षिणः प्रासादे मंचे शयानं राजानम् अभिपेतुः गगनमार्गे परि-पतितवन्तः । तद्ध तदैव हंसः कश्चिदन्यहंसं पुरतः उत्पतन्तमभ्युवाद | हो होय भो भो हंस भल्लाक्ष भल्लाक्ष मन्दाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा द्युलोकपर्यन्तं ज्योतिराततं व्याप्तमस्ति । तद् ज्योतिः त्वं मा प्रसाङ्क्षीः तत्प्रसञ्जनं सम्बन्धं मा कार्षीः । कुतः ? तत् तेजः त्वा त्वां मा प्रधाक्षीः दग्धं न करोतु, अत इति योजना । मध्यमपुरुषश्छान्दसः ॥ २ ॥
उपनिषत्
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
इत्येकेन हंसेनोक्तः परो हंसः तमेवं ब्रुवाणं हंसं प्रत्युवाच । किमिति? अरे हंस एतत्सन्तम् एतस्मिन् प्रासादे सन्तम् एनं पौत्रायणं कं कीदृक्प्रभावं मत्वा सयुग्वानं शकटयुगाश्रितं नामतो रैक्वमिवाऽत्थ वदसीति प्रत्युवाचेत्यर्थः । इति प्रत्युक्तोऽन्यो हंस आह । त्वयोक्तः सयुग्वा रैक्वः यो नु को नु कथं कीदृक्प्रभाववानिति || ३ ||
उपनिषत्
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
उत्तरमाह हंसः – स यथेति । वक्ष्यमाणदृष्टान्तो यथेत्यर्थः । कृताय विजिताय सम्यक्कर्मकरणेन कृतयुगे जिते सति अधरेयाः त्रेतादयः संयन्ति जितफला भवन्ति । एवं यत्किञ्चमाः प्रजाः साधु पुण्यं कर्म कुर्वन्ति स्वयोग्यं तत्सर्वमेनं संवर्गविद्यावेदिनं रैक्वम् अभिसमेति प्राप्नोति । यः कोऽपि । यद् ज्ञातव्यं वेद तत्सर्वं स रैक्वो वेद । स रैक्वो मया एतदुक्तोऽनेन प्रकारेणोक्त इत्युवाच हंस इत्यर्थः ॥ ४ ॥
उपनिषत्
( रैक्वमुनेरन्वेषणम् )
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संिजहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ५ ॥
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स सर्वं मयैतदुक्त इति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदुह हंसोक्तमात्मानादररूपं रैक्वप्रशंसारूपं च वाक्यं जानश्रुतिः पौत्रायणः उपशुश्राव । स ह राजा सञ्जिहानः तल्पादुत्थितः सन्नेव क्षत्तारं सारथिम् उवाच । किमित्यतस्तदाह - अङ्गेति ॥ अरे अङ्ग ! भो प्रिय ! क्षत्तः रैक्वो नाम मुनिस्त्वया विचार्यः । कुतः ? इति चेत् पृच्छसि रात्रौ प्रासादे शयनकाले केचन हंसा अतिपेतुः । तदैकं हंसं प्रति अरे मन्ददृष्टे हंस जानश्रुतेर्ज्योतिर्युलोकपर्यन्तं व्याप्तमस्ति तत्स्पर्शनं न कुरु तथात्वे त्वां धक्ष्यतीत्यन्येनोक्तो हंसोऽभ्युवाद | 'कम्बर एनमेतत्सन्तम्' इत्येतावद्वाक्यं ‘सयुग्वानम्' इत्यतः प्राग् योज्यम् । मयैतदुक्
वाक्यानन्तरमेवं हंसोक्तमतस्त्वया स ज्ञातव्य इति क्षत्तारमुवाचेत्यर्थो ज्ञेयः । वाक्यस्यार्थः प्रागुक्त एव ॥ ५ ॥ ६ ॥
उपनिषत्
स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येया तं स होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमुक्तः क्षत्ता सर्वत्रान्विष्य नाविदं न लब्धवानस्मीति वदन् प्रत्येयाय प्रत्यागतवान् । तं क्षत्तारं राजा पुनरुवाच । अरे क्षत्तः! यत्र ब्राह्मणस्यान्वेषणा अनुमार्गणं भवति तत् तत्र एनं रैक्वमृच्छ गच्छ ।तत्रान्वेषणं कुर्वित्यर्थः || ७ ||
उपनिषत्
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा३ इति ह प्रति जज्ञे स ह क्षत्ताऽन्विष्याविदमिति प्रत्येयाय ॥ ८ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमुक्तः स क्षत्ता तथैवान्विष्य क्वचिच्छकटस्याधस्तात् पामानं कषमाणं कण्डूयमानं दृष्ट्वा तत्समीपे उपविष्टवान् । उपविष्टः सन् तं रैक्वमभ्युवाद । किमिति ? हे भगवः ! भगवन् ! त्वं नु सयुग्वा रैक्वोऽसि नु किमित्यभ्युवादेत्यर्थः । इति पृष्टः स मुनिराह । अरे अहं हि रैक्वः । हि प्रसिद्धः, इति प्रतिजज्ञे प्रतिज्ञामकरोत् प्रत्युवाचेति यावत् । पामकषण-भावे अरा ३ इति प्लुतिः ।स ह क्षत्ता अविदं ज्ञातवानस्मि रैक्वमिति प्रत्येयाय ॥ ८ ॥ इति प्रथमः खण्डः ।।
अथ द्वितीयः खण्डः
उपनिषत्
(रैक्वस्य वैराग्यम् )
तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदुह तदैव । तेन ज्ञात्वा अभ्यागतत्वादेवेति वाऽर्थः । जानश्रुतिः पौत्रायणः गवां षट्शतानि निष्कं हाररूपम् अश्वतरीभिर्युक्तं रथमश्वतरीरथम्, अश्वतर्यश्वाश्वर्गर्दभीषु जाताः । आदाय तत् तत्र रैक्वस्थले प्रतिचक्रमे गतवान् । तत्र गत्वा तं रैक्व अभ्युवाद ॥ १ ॥
उपनिषत्
रैक्वेमानि षट् शतानि गवामयं निष्कोऽयमश्वतरीरथो नु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
हे रैक्व ! गवामिमानि षट्शतानि, अयं निष्कः, अयं अश्वतरीरथः एतत्सर्वं गृहीत्वा प्रसन्नः सन् हे भगवः ! त्वं यां देवताम् उपास्से तां देवतां मे मह्यम् अनुशाधि शिक्षय, उपदिशेति यावत् ॥ २ ॥
उपनिषत्
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तबैव सह गोभिरस्त्विति तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तं राजानं परो रैक्वः प्रत्युवाच । अह हे शूद्र ! हंसकृतानादर-श्रवणजातशोकाधिक्येनाऽगततया शूद्रेत्युक्तराजन् ! तदाह सूत्रेषु- ‘शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि ' ( ब्र. सू. १-३-३४) इत्यादि । हारेत्वा हारश्चेत्वा रथश्च हारेत्वानौ हारेत्वानावेव हारेत्वा । व्यत्ययेन द्विवचनस्यैकवचनम् । हारेण सहित इत्वा हारेत्वेति वा । सेदुराजेत्यादिवद् हार इति भिन्नं पदं वा । गोभिः सह तवैवास्तु इति प्रत्युवाचेत्यन्वयः । तदु ह तस्मादेव तेनैवं प्रत्याख्यातत्वादेव ह पुनर्जानश्रुतिः पौत्रायणो राजा पुरमागत्य गवां सहस्रं निष्कम् अश्वतरीरथं दुहितरं कन्यां चाऽदाय तत् तत्र प्रतिचक्रमे जगाम ॥ ३ ॥
उपनिषत्
तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
गत्वा तं रैक्वमभ्युवाद । हा हे रैक्व इदं गवां सहस्रम् अयं निष्कोऽयमश्वतरीरथः इयं जाया यस्मिन् ग्रामे त्वमास्से तिष्ठसि अयं च ग्रामः तत्सर्वं गृहीत्वा हे भगवः ! मा माम् अनुशाध्येव अवश्यमनुशाधी-त्यर्थः ॥ ४ ॥
उपनिषत्
तस्या ह मुखमुपोद्गृह्णन्नुवाचाऽजहारेमाः शूद्रानेनैव मुखेनाऽलाप-यिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै स होवाच ॥ ५ ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्या राजकन्यायाः मुखमुपोद्गृह्णन् पश्यन् इमाः गुरुदक्षिणाः आजहार स्वीकृतवान् । राजानं प्रत्युवाच रैक्वः । हे शूद्र ! हंसकृतानादर-श्रवणजातेन शोकेनाऽद्भुत! हे राजन् ! गुरुशुश्रूषां विनाऽनेन हारादिमुखे-नैव माऽऽलापयिष्यथा३ इत्युवाचेत्यर्थः । आलापयिष्यसीत्येकवचनार्थे बहुवचनम् । प्लुतिः सन्तोषातिशये । वेदपुरुष आह । ते हैते राजदत्ता ग्रामाः महावृषेषु देशेषु रैक्वपर्णा नाम प्रसिद्धाः । यत्र ग्रामेषु अस्मै राजार्थम् उवास रैक्वः त एत इति पूर्वेणान्वयः । दक्षिणां स्वीकृत्य प्रसन्नो मुनिः तस्मै राज्ञे संवर्गविद्यामुवाच || ५ || इति द्वितीयः खण्डः ।।
अथ तृतीयः खण्डः
उपनिषत्
( रैक्वोपदिष्टसंवर्गविद्या )
वायुर्वाव संवर्गो यदा वा महाप्रलये अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
रैक्वेनोक्तामधिदैवमध्यात्मं च संवर्गविद्यां संवर्गस्वरूपं च विस्तरेणाऽह वेदपुरुषः । वायुर्वाव मुख्यवायुरेव, संवर्गः संहर्तृतया संवर्ग इत्युक्तः । संहर्तृत्वमेव व्यक्तमाह- यदेति ।। उद्वायति नश्यति । वायुम् अप्येति प्राप्नोति । अग्यादयोऽत्र देवता ज्ञेयाः ।। १ ।।
उपनिषत्
यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान् सर्वान् संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
आपः अबभिमानिनः । स्वत एवान्यादयो नाशमिताः वायुमपियन्ति किम् ? इत्यत आह- वायुरिति । एतानग्र्यादिदेवान् संवृङ्क्ते संहरति इत्यधिदैवतं संहर्तृतया संवर्गाख्यं वायो रूपमुक्तमित्यर्थः ॥ २ ॥
उपनिषत्
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथाध्यात्मं तादृग्रूपमुच्यत इत्यर्थः । प्राणाख्यमध्यात्मगतं वायोरूपं संवर्ग इत्युक्तम् । संहर्तृत्वप्रकारमाह
स यदेति ॥ स जीवः यदा स्वपिति तदा । वागादयोऽत्राध्यात्मगतवह्न्यादिदेवताः । प्राणं चक्षुरि-त्यादावप्येतीत्यनुषज्यते । एतान् संवृङ्क्ते उपसंहरति । इतिशब्दोऽ-ध्यात्माधिदैवरूपोक्तिसमाप्तौ ॥ ३ ॥
उपनिषत्
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
उक्तमर्थं सङ्गृह्याऽह तौ वा एतौ द्वाविति ॥ प्राणेषु वागादी - न्द्रियेषु । विषयसप्तमी देवप्राणविषये । संवर्गौ संहर्तृतया संवर्गनामकौ ॥ ४ ॥
उपनिषत्
( वायुरेव संवर्ग:, अस्मिन् विषये ऐतिह्यम् )
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परि-विष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
उभयत्र मुख्यवायुः संवर्ग इत्युक्तमाख्यायिकयोपपादयति अथ हेति ॥ शुनकस्यापत्यं शौनकः । कपेरपत्यं कापेयः तं नामतोऽभिप्रतारिणम् । कक्षसेनस्यापत्यं काक्षसेनिः । परिविष्यमाणौ अन्नं परिवेषयन्तौ कश्चिद् ब्रह्मचारी बिभिक्षे अनं याचितवान् । तस्मै याचितवते । न उ नैव । ददतुर्ह ॥ ५ ॥
उपनिषत्
स होवाच महात्मनश्चतुरो देव एकः कः सो जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
स ब्रह्मचारी तानुवाच । यो भुवनस्य गोपाः रक्षकः एको देवश्चतुरो महात्मनः प्रागुक्ताग्निसूर्यादीन् जगार गृ निगरणे जग्रास, एतं मर्त्याः बहुधा वसन्तं नाभिपश्यन्ति हे कापेय हे अभिप्रतारिन् ! स कः यस्मै वा यस्य वै एतदन्नं तस्मा एतदन्नं दत्तं प्रयच्छतमित्युवाचेत्यन्वयः ।। ६ ।।
उपनिषत्
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानां हिरण्यदंष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदन्नमत्तीति वै वयं ब्रह्मचारिन्निदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
शौनकः कापेयः तदुह ब्रह्मचारिपृष्टमेव प्रतिमन्वानः विचारयन् प्रत्येयाय ज्ञातवान् । ज्ञात्वा च ब्रह्मचारिणं प्रत्युवाच चेति ग्राह्यम् । तदाह-आत्मेत्यादिना ॥ देवानामात्मा आदानादिकर्ता स्वामीति यावत्, प्रजानां जनिता जनयिता, हिरण्यदंष्ट्रः, बभसः भक्षकः, अनः चेष्टकः सूरिर्ज्ञानी चेत्यनसूरिः प्राण इत्यर्थः । अस्य प्राणस्य महान्तं महिमानमाहुः प्राज्ञाः । तमेव महिमानमाह । अनद्यमानोऽनन्नमन्यैरत्तु- मशक्यमग्न्याद्यन्नमद् यद् यस्मात् तस्मात् महान्तं महिमानमस्याऽहुरित्यर्थः । इति प्रत्युवाचेतीतिपदस्यान्वयः । भो ब्रह्मचारिन् ! ते तज्ज्ञानिनो वयम् एतं प्राणमुपास्महे । अस्मै प्राणाय ब्रह्मचारिस्थिताय ।भिक्षां दत्त प्रयच्छत भृत्या इति चोवाचेत्यर्थः ।। ७ ।।
उपनिषत्
तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात् सर्वासु दिक्ष्वन्नमेव दश कृतः सैषा विराडन्नादी तयेद सर्वं दृष्ट सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद । ८ ।। इति तृतीयः खण्डः ।।
छान्दोग्योपनिषत्खण्डार्थः
एवमुक्ताः ते अस्मै भिक्षां ददुः । एवं तर्हि प्राण एव सर्वमुत्पाद्य संहर्ता किम् ? इत्यतो नेत्याह-ते वा इति । एते वायुना सहाय्यादयो येsधिदैवताः पञ्च तथाऽध्यात्मगताश्च प्राणेन सहान्ये वागादयः पञ्च दश सन्तः दशसङ्ख्याका भूत्वा तत्कृतं तद् दशदेवताजातं कृतं पूर्णं पूर्णमन्नमित्यर्थः । तस्मादग्र्यादेरधिदैवाध्यात्मभेदेनाष्टत्वेऽपि वायुना सह दशसङ्ख्यापूरणात् सर्वासु दिक्षु स्थिताः दशदेवताः कृतं पूर्णमन्नम् । एते दश कस्यान्नमित्यत आह- सैषेति । सा प्रसिद्धा एषा अन्नदेवता विराड् विशेषेण राजमानो विष्णुरेवान्नादी । सर्वात्तृत्वोपयुक्तं सार्वज्ञमाह । तया विराट्शब्दितविष्णुदेवतया । इदं सर्वं जगद् दृष्टम् । फलमाह-सर्व-मिति ॥ योऽधिकारी | एवं वायुः स्वयं सकलसंहर्तृतया संवर्गनामा सन् हरेरन्नमिति यो वेद सोऽनादो भवति । अस्य अनेन । स्वयोग्यं सर्वं दृष्टं भवति । सर्वज्ञो भवतीत्यर्थः ।। ८ ।। ३ ।।
अथ चतुर्थः खण्डः
उपनिषत्
( जाबालसत्यकामोपाख्यानम् )
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पूर्वं ' तदेतच्चतुष्पाद् ब्रह्म वाकूपाद:' इत्यादिना वासुदेवादि- चतुर्मूर्तिविद्योक्ता । अधुना प्रत्येकं चतूरूपाणां वासुदेवादीनामेव विद्यामाख्यायिकयाऽऽह - षडूभिः खण्डैः सत्यकाम इत्यादिभिः ॥ सत्यकामो नामतः । जबालापुत्रो जाबालः आमन्त्रयाञ्चक्रे सम्बोधितवान् । भवति हे भवति ! ब्रह्मचर्यं ब्रह्मचारित्वं विवत्स्यामि वै ब्रह्मचर्यमुद्दिश्याऽचार्यकुले विशेषेण वासं करिष्यामि । किङ्गोत्रः बहुव्रीहिः।अहमस्मीत्यामन्त्र्य मातरमुवाचेत्यर्थः ॥१ ॥
उपनिषत्
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ २ ॥
॥
छान्दोग्योपनिषत्खण्डार्थः
सा मातैनमुवाच । हे तात! पुत्र ! यगोत्रस्त्वमसीत्येतदहं न वेद । कुत इत्यत आह- अहं भर्तृगृहे बहुकर्म चरन्ती कुर्वन्ती परिचर्यकारिणी यौवने त्वामलभे लब्धवत्यस्मि । अतो व्यासक्तचित्ता अहं यद्गोत्रस्त्वमसीत्येतन्न वेद । जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि । सत्यकाम एव जाबालोऽहमस्मीत्येवाऽचार्यं प्रति ब्रूया इत्युवाचेत्यर्थः
॥ २ ॥
उपनिषत्
स ह हारिद्रुमन्तं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
स सत्यकामः हारिद्रुमतोऽपत्यं गौतममेत्य प्राप्योवाच । भगवति पूज्ये त्वयि ब्रह्मचर्यमुद्दिश्य वत्स्यामि । भगवन्तं त्वामुपेयाम् उपगच्छामि शिष्यो भवानीत्युवाचेत्यर्थः ।। ३ ।।
उपनिषत्
तं होवाच किं गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं सा मा प्रत्यब्रवीद् बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
तं सत्यकामं गौतम उवाच ह । हे सोम्य ! किङ्गोत्रोऽसीति । इति पृष्टः सत्यकाम उवाच नाहमित्यादिना जाबालोऽस्मि भो इत्यन्तेन । अपृच्छं पृष्टवानस्मि । मा माम् । नाहमित्यादेः प्राग्वदर्थः ॥ ४ ॥
उपनिषत्
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशतं गा निराकृत्योवाचेमाः सोम्यानु संव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तयेति स ह वर्षगणं प्रोवाच ता यदा सहस्रं सम्पेदुः ॥ ५ ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतद् यथास्थितत्वम् अब्राह्मणः त्रैवर्णिकान्यो विवक्तुं नार्हत्यतोऽयं ब्राह्मण इति तदीयार्जवेन निश्चित्य तं सत्यकाममुवाच । हे सोम्य ! सोमपानार्हं! समिधमाहर । त्वा त्वाम् उपनेष्यामि । उपनीतं करिष्यामि । यस्मात् त्वं सत्यात् सत्यवचनान्नागाः सत्यवचनं न त्यक्तवानसि अत इति योजना । तं सत्यकाममुपनीय गौतमः कृशानाम् अबलानां बलहीनानां मध्ये चतुःशतं गाः गवां चत्वारि शतानि निराकृत्य बहिर्निष्क्राम्य हे सोम्येमाः गाः अनुगच्छ अरण्यं नीत्वा तृणादनादि कारयेत्युवाच । सत्यकामस्ताः अभिप्रस्थापयन् बहिर्गमयन् असहस्रेण सहस्रं गा असम्पाद्य नाऽवर्तेयं नाऽगच्छेयमित्युवाच । स एवमुक्तवान् सत्यकामो गाः वनं नीत्वा तत्रैव वर्षगणं गोसहस्रसम्पत्तिपर्यन्तमब्दसङ्घं प्रोवास प्रवासाञ्चक्रे, ता गावो यदा सहस्रं सम्पेदुः सम्पन्नाः || ५ || ४ ||
अथ पञ्चमः खण्डः
उपनिषत्
( ऋषभरूपिवायुना वासुदेवाख्यरूपोपदेशः )
अथ हैनमृषभोऽभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः प्रापय न आचार्यकुलम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ तदा एनं सत्यकाममृषभः ऋषभाविष्टो वायुः अभ्युवाद उच्चैरुवाच । हे सत्यकाम३ ! ' आमन्त्रिते च' इति प्लुतः । इत्यभ्यु - वादेत्यन्वयः । हे भगव इति प्रतिशुश्राव श्रावयति स्म ह । हे सोम्य ! सहस्रं सहस्रसङ्ख्त्यां वयं प्राप्ताः स्मः । नोऽस्मानाचार्यकुलम् आचार्य गृहं प्रापय ॥ १ ॥
उपनिषत्
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
ते तुभ्यं ब्रह्मणः पादं ब्रवाणि इति प्रोवाच ऋषभस्थो वायुरित्यर्थः । एवमुक्तः सत्यकाम आह । मे मह्यं भगवान् ब्रवीत्विति । तस्मै होवाच ऋषभाविष्टो वायुः | प्राच्यां दिशि तन्नियन्तृतया स्थितः प्राचीदिङ्नामा वासुदेववासुदेवात्मा कला एकं ब्रह्मणः पादस्याऽद्यं रूपम् । प्रतीची दिक् प्रतीचीदिङ्नामा प्रतीच्यां दिशि स्थितो वासुदेवसङ्कर्षणात्मककला ब्रह्मणः पादस्य वासुदेवस्य द्वितीयं रूपम् । दक्षिणा दिक् दक्षिणदिशि स्थितो दक्षिणदिङ्नामा वासुदेवप्रद्युम्नः कला ब्रह्मणः पादस्य तृतीयं रूपम् । उदीची दिग् उदग्दि स्थितः उदग्दिनामा वासुदेवानिरुद्धः कला ब्रह्मणः पादस्य चतुर्थं रूपम् । उपसंहरति- एवमिति ।। हे सोम्य ! ब्रह्मणो हरेरेषः वासुदेवाख्यः चतुष्कलः उक्तदिशा वासुदेवादिचतुरात्मकः पादः प्रकाशवान् नाम प्रसिद्धम् ।प्रकाशवानिति सञ्ज्ञक इति यावत् ॥२ ॥
उपनिषत्
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिंल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥५॥
छान्दोग्योपनिषत्खण्डार्थः
योऽधिकारी एतं ब्रह्मणः प्रथमपादभूतं वासुदेवरूपम् एवं चतुरात्मना प्राच्यादिदिङ्नामकतया चतुर्दिक्षु वर्तत इत्येवम्प्रकारेण विद्वान् जानन् ब्रह्मणो हरेः चतूरूपात्मकपादं वासुदेवं प्रकाशवानित्युपास्ते प्रकाशवान् प्रख्यातः इत्यैहिकफलं व्यक्तम् । य एतदिति पुनर्वचनं प्रकाशवत इत्यामुष्मिकफलोक्त्यर्थम् || ३ || इति पञ्चमः खण्डः ।।
अथ षष्ठः खण्डः
उपनिषत्
( अग्निना सङ्कर्षणाख्यभगवद्रूपोपदेशः )
अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिध-माधाय पश्चादग्नेः प्राङ् उपोपविवेश ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
|| अग्निरिति ॥ वृषभाविष्टो वायुर्वासुदेवाख्यमेकं ब्रह्मणः पादमुक्त्वा ते अग्निर्देवता सङ्कर्षणाख्यं पादं वक्ता वक्ष्यतीत्युवाचेत्यर्थः । स आचार्यकुलं नः प्रापयेति वृषभाविष्टवायुनोदितः सत्यकामः श्वोभूते परेद्युः गाः अभि आचार्यगृहं प्रति प्रस्थापयाञ्चकार यापितवान् । ताः आचार्यगृहाभिमुखा गावः यत्र देशे अभिसायं वभूवः सायं प्राप्ता इति यावत्, तत्र देशे गाः उपरुध्य निरुध्याग्निमुपसमाधाय प्रतिष्ठाप्य समिध-माधाय अग्नेः पश्चात् प्राङ्मुख उपोपविवेश ।। १ ।।
उपनिषत्
तमग्निरभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तमग्निरित्यादेस्तस्मै स होवाचेत्यन्तस्य प्रागिवार्थो ध्येयः ॥ २ ॥
उपनिषत्
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते अनन्तवानस्मिंल्लोके भवति अनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
पादं सङ्कर्षणाख्यं रूपम् । तस्य पादस्य चतुष्कलत्वमाह-पृथिवीति ॥ प्रथितत्वहेतुना पृथिवीनामकं पृथिवीनियन्तृतयां पृथिवीसंस्थं सङ्कर्षण- वासुदेवाख्यं कला एकं रूपं ब्रह्मणः पादभूतस्य सङ्कर्षणस्य । एवमग्रेऽपि ध्येयम् । अन्तरिक्षनियन्तृतयाऽन्तरिक्षस्थमन्तरिक्षनामकं सङ्कर्षण- सङ्कर्षणात्मकं कला द्वितीयं रूपम् । द्यौः धुनियन्तृतया द्युस्थं द्युनामकं सङ्कर्षणप्रद्युम्नाख्यं कला तृतीयं रूपम् । समुद्रनियन्तृतया समुद्रस्थं तन्नामकं सङ्कर्षणानिरुद्धाख्यं कला चतुर्थं रूपम् । 'एष वै’ इत्यादेः प्राग्वदर्थः । अनन्तवान् नाम अनन्तवत्सञ्ज्ञकः ॥ ३-४ ।। ६ ।।
इति षष्ठः खण्डः
अथ सप्तमः खण्डः
उपनिषत्
( हंसरूपिणा चतुर्मुखब्रह्मणा प्रद्युम्नाख्यभगवद्रूपोपदेशः )
हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्गुपोपविवेश ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमग्निदेवः सङ्कर्षणाख्यं चतूरूपं ब्रह्मणः पादमुक्त्वा हंसो हंसरूपी चतुर्मुखः ते पादं प्रद्युम्नाख्यं ब्रह्मणः पादं वक्तेत्युवाचेत्यर्थः । सह श्वोभूत इत्यादि प्राग्वत् ।। १ ।।
उपनिषत्
तं हंस उपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
हंसो हंसरूपी ब्रह्मा उपनिपत्य आगत्य ॥ २ ॥
उपनिषत्
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
पादं प्रद्युम्नाख्यं रूपम् | अग्निः कलेति अग्निनियन्तृतया अग्निस्थित-मग्निनामकं प्रद्युम्नवासुदेवाख्यं ब्रह्मणः पादभूतस्य प्रद्युम्नस्य कला आद्यं रूपम् । सूर्यनियन्तृतया सूर्यस्थितं सूर्यनामकं प्रद्युम्नसङ्कर्षणाख्यं कला द्वितीयं रूपम् । चन्द्रनियन्तृतया चन्द्रस्थं चन्द्रनामकं प्रद्युम्नप्रद्युम्नाख्यं कला तृतीयं रूपम् । विद्युन्नियन्तृतया विद्युद्गतं विद्युन्नामकं प्रद्युम्नानि- रुद्धाख्यं कला ब्रह्मणः पादस्य प्रद्युम्नस्य चतुर्थं रूपम् | 'एष वै' इत्यादि प्राग्वत् । तस्य प्रद्युम्नस्य सञ्ज्ञामाह – ज्योतिष्मान्नामेति ।। ३-४ ॥
।। इति सप्तमः खण्डः ।।
अथ अष्टमः खण्डः
उपनिषत्
( मद्दुरूपिवरुणेनानिरुद्धरूपोपदेशः )
मद्गुः ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्गुपोपविवेश ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं हंसरूपी विरिश्वः प्रद्युम्नाख्यं बासुदेवादिचतुरात्मना स्थितं ब्रह्मणः पादमुक्त्वा मद्गुर्जलवायसरूपो वरुणस्तेऽनिरुद्धाख्यं ब्रह्मणः पादं वक्तेत्यप्युवाचेत्यर्थः । स ह श्वोभूत इत्यादि प्राग्वत् || १ ||
उपनिषत्
तं मद्गुरुपनिपत्याभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
मद्गुः जलवायसरूपो वरुणः उपनिपत्य आगत्य ॥ २ ॥
उपनिषत्
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै स होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो आयतनवान्ना || 3 ||
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः आयतनवानित्युपास्ते आयतनवानस्मिंल्लोके भवति आयतनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः आयतनवानित्युपास्ते ॥ ४ ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
पादमनिरुद्धाख्यं रूपं ब्रवाणीत्यभ्युवाद । प्राणः कला प्राण- नियन्तृतया प्राणेन्द्रियस्थं(१) प्राणनामकम् अनिरुद्धवासुदेवाख्यं ब्रह्मणः पादभूतानिरुद्धस्य कला आद्यं रूपम् । चक्षुर्नियन्तृतया चक्षुःस्थं चक्षु- नमकं अनिरुद्धसङ्कर्षणाख्यं कला पादभूतानिरुद्धस्य द्वितीयं रूपम् । श्रोत्रस्थं श्रोत्रनामकम् अनिरुद्धप्रद्युम्राख्यं कला तृतीयं रूपम् । मनःस्थं मनोनामकम् अनिरुद्धानिरुद्धाख्यं कला चतुर्थं रूपम् । आयतनवान् अवस्थानवान् । शिष्टं प्राग्वद् ध्येयम् ।। ३-४ ।। इति अष्टमः खण्डः ।।
अथ नवमः खण्डः
उपनिषत्
प्राप हाऽचार्यकुलं तमाचार्योऽभ्युवाद सत्यकामा ३ इति भगव इति प्रतिशुश्राव ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
वनान्निर्गतः सत्यकामो मार्गे त्रिरात्रीत्वा चतुर्थेऽह्नि आचार्यकुलं प्राप ह । तं सत्यकाममाचार्योऽभ्युवाद | सत्यकामेत्यादि प्राग्वत् ॥ १॥
उपनिषत्
ब्रह्मविदिव वै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवांस्त्वेव मे कामे ब्रूयात् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
हे सोम्य ! ब्रह्मविदिव भासि प्रकाशसे । त्वा त्वां कोऽनुशशास शिक्षितवान्, इत्याचार्योऽभ्युवादेत्यर्थः । मनुष्येभ्योऽन्येऽनुशिक्षितवन्त इति सत्यकामः प्रतिजज्ञे प्रतिज्ञातवान् उवाचेति यावत् । तर्हि मयाऽनुशासितव्यं नास्ति किम् ? इत्यत आह - भगवानिति ॥ कामे कामय मदभीष्टसिद्ध्यर्थं भगवांस्त्वेव ब्रूयात् ॥ २ ॥
उपनिषत्
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्यद्ध्येव विद्या विदिता साधिष्ठं प्रापयतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति द्ह्ये ॥ ३ ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
कुतो मयैव वाच्यमित्यत आह श्रुतमिति ॥ भगवद्दृशेभ्यो महानुभावेभ्यः श्रुतमेव । तथाऽप्याचार्यादेव हि विद्या विदिता साधिष्ठं स्थिरत्वं साधुत्वं च प्राप्नोति हि यतोऽतस्त्वयैव वाच्यम् । त्वमेव हि मया आचार्यत्वेन वृतो न वृषभाविष्टवाय्वग्निब्रह्मवरुणाः । तेऽपि नाचार्य - बुद्ध्या मामनुशिक्षितवन्तोऽतस्त्वयैव कामाय मे वाच्यमिति । तदाह सूत्रे ‘लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ' (ब्र. सू. ३.३.४५) इति । एवं प्रार्थित आचार्यः एतस्मै सत्यकामा एतदेव वाय्वादिभि - रुक्तमेबोवाच । गुरुत्वेन वृताद् भवतोऽन्येभ्यः श्रवणेन ममापराधो जातः किमिति भावयन्त प्रत्याह अत्र हेति || देवेभ्यः श्रुतविषये न किञ्चन वीयाय न काचिद्धानिरभूत् । देवेभ्यः श्रवणेन ते न कोऽप्यपराध जात इत्यर्थः । उक्तमेव निर्धारयति - अत्र हेति पुनर्वचनेन || ३ || ९ ||
।। इति नवमः खण्डः ।।
अथ दशमः खण्डः
( उपकोसलोपाख्यानम् )
उपनिषत्
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन् परिचचार स ह स्मा अन्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥१॥
छान्दोग्योपनिषत्खण्डार्थः
प्रकारान्तरेण चतुर्मूर्तिविषयविद्यां ज्ञानिना ज्ञातव्यं मुक्तिकाले गन्तव्यमार्गं च वक्ष्यन् तदुपयुक्तां तावत् परापरब्रह्मनिष्ठां विद्यामा-ख्यायिकयाऽऽह– उपकोसल इति ।। उपकोसलो नामतः, कामलस्या-पत्यं कामलायनः । ब्रह्मचर्यं ब्रह्मप्राप्त्यर्थं चरणमुद्दिश्योवास । तस्य सत्यकामस्य । अग्नीन् गार्हपत्याहवनीयान्वाहार्यपचनरूपान् त्रीन् अग्नीन् द्वादशवर्षाणि परिचचार !
सः सत्यकामः अन्यानन्तेवासिनः शिष्यान् समावर्तयन् ब्रह्मोपदिश्य समावर्तनं कारयन् स्वस्वगृहं प्रति गन्तुमनुजानन् तमुपकोसलं नैव समावर्तयति । ह स्मेत्याश्चर्ये | ।। १ ।।
उपनिषत्
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् परिचचारीन्मा त्वाऽग्रयः परिप्रावोचन् प्रब्रूह्यस्मा इति तस्मै हाम्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तं भर्तारं सत्यकामं जायोवाच । ब्रह्मचारी तप्तः क्लिष्टः सन् अग्नीन् कुशलं यथा तथा परिचचारीत् पर्यचारीत् । चशब्दात् त्वां मां च पर्यचारीदित्यर्थः । ब्रह्मचारिणा परिचारिता अप्यग्नयस्त्वां प्रति ब्रह्मास्मै प्रब्रूहीति मा परिप्रावोचन् नैवोक्तवन्तः । प्रब्रूह्यस्मा इति जायोवाचेत्य- न्वयः । तस्मै उपकोसलायाऽप्रोच्यैव ब्रह्मानुपदिश्यैव प्रवासाञ्चक्रे प्रोषितवान् ॥ २ ॥
उपनिषत्
( अग्निभिः कृतः मुख्यप्राणपरब्रह्मोपदेशः )
स ह व्याधिनाऽनशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारि-न्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यया व्याधिभिः परिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
स उपकोसलो व्याधिना विशिष्टाधिना महामनोव्यथया अनशितुमभोक्तुं दध्रे मनश्चकार । तमुपकोसलम् । अशान भुङ्क्ष्व । किन्नु किमर्थं नाश्नासि न भुझे ? स उपकोसल उवाच । नानात्ययाः नानाप्रकाराः बहवः कामाः अस्मिन् पुरुषे कामाः कामनाविषयाः बहवः सन्ति । व्याधिभिः महामनोव्यथाभिः परिपूर्णोऽस्मि । अतो नाशिष्यामीत्युवाचेत्यन्वयः ।। ३ ।।
उपनिषत्
अथ हाग्रयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ गुरोर्निर्गमनानन्तरमिति वा, गुरुणा ब्रह्मणोऽनुपदिष्टत्वादिति वा, आत्मनां परिचर्याकरणादिति वा अथेत्यस्यार्थः । अग्नयः गार्हपत्यादयस्त्रयोऽग्निदेवाः समूदिरे परस्परमूचुः । किमिति ? तप्तो ब्रह्मचारी कुशलं यथा तथा नोऽस्मान् परिचचारीत् पर्यचारीत् । अस्मै ब्रह्मचारिणे ब्रह्म प्रब्रवाम । हन्त हर्षे । इत्यूचुरित्यन्वयः । इत्यन्योन्यं सम्भाष्य होमकुण्डेभ्य उत्थितास्त्रयोऽग्निदेवास्तस्मै ब्रह्मोचुर्ह ॥ ४ ॥
उपनिषत्
प्राणो ब्रह्मकं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ १० ॥
छान्दोग्योपनिषत्खण्डार्थः
कथम् ? ' प्राणो ब्रह्म, कं ब्रह्म, खं ब्रह्म' इति । प्राणो बलदेवता मुख्यवायुः ब्रह्म अपरं ब्रह्म । कं नैजपरिपूर्णसुखरूपं विष्ण्वाख्यं ब्रह्म । खं परिपूर्णज्ञानबलात्मकं विष्ण्वाख्यं ब्रह्मेत्यूचुरित्यर्थः । सूत्रभाष्ये तु ब्रह्मपदं न विशेष्यपरं किन्तु कखयोः पूर्णत्वरूपविशेषणपरमित्यभि-प्रेतम् । तदाह सूत्रे 'सुखविशिष्टाभिधानादेव च' (ब्र.सू.१.२.१५) इति । स एवमुक्त उपकोसल उवाच । प्राणो ब्रह्मेति यदुक्तं तद् विजानामि । प्राण मुख्यवायुतया प्रसिद्धेः । कं च तु खं च न विजानामि । ते किं प्राणादिवान्योन्यं भिन्ने उताभिन्ने इति न विजानामीत्युवाचेत्यर्थः । एवमुक्तास्ते अग्नयस्तयोरभेदमूचुः-यद्वाव कमिति ॥ यदेव खं तदेव कमिति पुनर्व्यत्यासेन वचनं मात्रयाऽपि न भेदः केवलं विशेषबलेनाऽनन्दरूपो ज्ञानबलरूप इति भेदेन व्यवहारमात्रमिति द्योतयितुम् । प्राणं मुख्यवायुं आ समन्तात् काशते दीप्यत इति व्युत्पत्त्या आकाशाख्यं व्याप्तं हरिं च परापरब्रह्मद्वयमूचुरित्यर्थः ॥ ५ ॥ १० ॥
।। इति दशमः खण्डः ।।
अथ एकादशः खण्डः
उपनिषत्
( गार्हपत्याग्निना पृथिव्यादिस्थभगवदुपदेशः )
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति
॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमग्निभिः सम्भूयोक्तां परापरब्रह्मनिष्ठां विद्यामुक्त्वा प्रत्येकं प्रत्येकं तैरुक्तां चतुर्मूर्तिविषयां विद्यामाह वेदपुरुषः- अथ हैनमित्यादित्रिभिः पर्वभिः ।। अथेत्यस्य विद्यान्तरमुच्यत इत्यर्थः । एवमग्रेऽपि । एनमुप- कोसलमनुशशास । तत्प्रकारमाह-पृथिवीति ॥ पृथुत्वहेतुना पृथिवी - नामकम् ब्रह्मेति चतुर्ष्वपि योज्यम् । अङ्गनेतृत्वेनाग्निनामकम् अग्निस्थं ब्रह्म । अत्तृत्वहेतुनाऽन्ननामकमन्नस्थं ब्रह्म । नित्यमादिरूपतया आदित्यनामकमादित्यस्थं ब्रह्मेति पृथिव्यादिनामकानि चत्वारि रूपाणि 'पृथिवी ब्रह्म' इत्यादिरूपेणानुशशासेत्यर्थः । स्थानभेदेन रूपाणां भेदो न शकय इति भावेन पृथिव्याद्यन्तर्यामिणः स्वान्तर्यामिणश्चाभेदमाह- य एष इति ।। आदित्य इत्युपलक्षणम् । पृथिव्यन्यन्नादित्येषु य एष पुरुषो हरिदृश्यते दिव्यदृष्टिविषयोऽस्ति सोऽहमहेयत्वहेतुना चेतनखण्डतया वर्तमानोऽस्मि । इन्द्रार्जुनादिवद-वान्तरविशेषोऽपि नेति भावेनाऽह-स एवाहमस्मीति । सोऽहमस्मीति पूर्वोक्तिरभेदे तात्पर्याधिक्यज्ञापनार्था । इति चानुशाशासेतीतिपदस्य पूर्वेणान्वयः ॥ १ ॥
उपनिषत्
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्व-मायुरेति ज्योग् जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ||२||११||
छान्दोग्योपनिषत्खण्डार्थः
योऽधिकारी एतं पृथिव्यादिचतुष्टयान्तर्यामिणमेवं गार्हपत्यान्त-र्याम्यभेदेन विद्वानुपास्ते सः पापकृत्यामपहते अपहन्ति लोकी भगवल्लोकवान् भवति सर्वमायुरेति उत्तरावधिशून्यायुष्मान् भवति । ज्योक् प्रकाशवान् जीवति अस्योपासकस्यापरपुरुषाः भृत्यजनाः न क्षीयन्ते, भृत्यवानेव भवतीत्यर्थः । य एवं विद्वानुपास्ते तं वयमुपभुञ्जामः पालयामो लोकद्वयेऽपीत्यग्नय ऊचुरित्यर्थः ।। २ ।।
॥ इति एकादशः खण्डः ११ ॥
अथ द्वादशः खण्डः
उपनिषत्
( अन्वाहार्यपचनाग्निना जलादिस्थभगवदुपदेशः )
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥१२॥
छान्दोग्योपनिषत्खण्डार्थः
अथ गार्हपत्योपदेशानन्तरम्, 'अन्वाहार्यश्वरुः पच्यतेऽत्र' इत्यन्वाहार्यपचननामा दक्षिणाग्निः किमित्यनुशशासेत्यत आह- आपो दिशो नक्षत्राणि चन्द्रमा इति प्रत्येकं ब्रह्मपदान्वयः ।। आ समन्तात् पालनहेतुनाऽऽप इत्युक्तोऽप्सु स्थितः ब्रह्म । अभीष्टदेशनाद्दिङ्नामा दिक्षु स्थितः, ब्रह्म । अनन्याधीनत्वहेतुना नक्षत्रनामा नक्षत्रगतः, ब्रह्म । आनन्दरूपतया चन्द्रनामा चन्द्रान्तःस्थो यः सः ब्रह्मेत्यर्थः । य एवं इत्यादेः पूर्ववदेव गमनिका अर्थश्व ज्ञेयः || १ || २ ||
॥ इति द्वादशः खण्डः ११ ॥
अथ त्रयोदशः खण्डः
उपनिषत्
( आहवनीयाग्निना प्राणादिस्थभगवदुपदेशः )
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युत पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग् जीवति नास्यापरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ १३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेति प्राग्वत् । प्राणो ब्रह्म, आकाशो ब्रह्म, द्यौर्ब्रह्म, विद्युद् ब्रह्मे- त्यनुशशासेत्यन्वयः । प्राणस्थो वलरूपत्वात् प्राणनामा । पदार्थपूरणा- बकाशदातृतयाऽऽकाशनामाऽऽकाशस्थः । प्रकाशरूपत्वाद् द्यौर्नामा । वेदनाद् विद्युन्नामेत्यर्थः । य एष विद्युतीत्यादि पूर्ववत् ॥ १ ॥ २ ॥
।। इति त्रयोदशः खण्डः ।।
अथ चतुर्दशः खण्डः
उपनिषत्
( उपकोसलमुखे ब्रह्मवर्चः )
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या चाऽचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याऽचार्यस्तमाचार्योऽभ्युवादोपकोसला ३ इति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं त्रेताग्निभिः सम्भूय, प्रत्येकं चोपदिश्योक्तं द्विरूपोपदेशं निष्कृष्यानुवदन् अन्यदपि तैरुक्तमित्याह श्रुतिः - ते होचुरित्यादिना || सोऽहमित्यादिनोक्ता अन्तर्यामिविषयत्वादस्मद्विद्या कं ब्रह्मेत्यादि-नोक्ता व्याप्तरूपविषयत्वादात्मविद्या अस्माभिरुक्ता । आचार्यस्तु गतिं कर्मणि करणे च व्युत्पादनीयोऽयं शब्दः । प्राप्यं तत्प्राप्त्युपायभूतं मार्गं च वक्ता वदिष्यतीति चोचुरित्यर्थः । आजगामेत्यादि व्यक्तम् ॥ १ ॥
उपनिषत्
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु माऽनुशिष्याद्भो इतीहावेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
को नु त्वाऽनुशशासेति प्रश्नस्य कथं को नु माऽनुशिष्यादिति मृषोक्तिरित्यतः स्वाभिप्रायं व्यनक्ति-इहेति ॥ इह च अव चेति इहावे । इहेति भूमिगा मनुष्याः । अवेति पातालस्था असुराः । उभये भगवन्तं निह्नुतः, अपलापं कुरुतः । अत एव न वक्तुं शक्ताः, किन्तु देवा एवेत्याह- इम इति ॥ ईदृशाः ज्वालारूपाः अन्यादृशाः करचरणादि- मन्तः । इति हाग्नीनभ्यूदे स्पष्टमुवाच । आचार्यो वक्ति किं नु सोम्येति । हे सोम्य तेऽग्नय किमवोचन् ॥ २ ॥
उपनिषत्
( चक्षुरन्तःस्थभगवदुपासनम् )
इदमिति ह प्रतिजज्ञे लोकान् वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं विदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥ १४ ॥
छान्दोग्योपनिषत्खण्डार्थः
इति प्रश्नस्योत्तरम् इदमिति प्रतीकपूर्वं प्रतिजज्ञे प्रतिज्ञातवान् । लोकान् पृथिव्यादिलोकस्थभगवद्रूपाणि । 'तेऽवोचन् ' इत्यादि सत्य- कामवाक्यम् । वक्ष्यमाणब्रह्मविद्यायामादरजननायऽदावेव पापासङ्गत्वा–पादकज्ञानविषयत्वमहिमानमाह - तद्यथेति ॥ वक्ष्यमाणनिदर्शनं यथा । पुष्करपलाशे पद्मपत्रे । एवं एवं वक्ष्यमाणप्रकारेण भगवज्ज्ञानिनि पापं कर्म न श्लिष्यते न लिप्तं भवति । यज्ज्ञानात् पापाश्लेषरूपमुक्तिर्भवति तद् वस्तु अहं वक्ष्यामीत्याचार्योऽवोचदित्यर्थः । ब्रवीतु भगवानित्युपकोसल उवाच । तस्मै उपकोसलाय उवाच हाऽचार्य: ।। ३ ।।
।। इति चतुर्दशः खण्डः ।।
अथ पञ्चदशः खण्डः
( चक्षुरन्तः स्थभगवद्विद्या )
उपनिषत्
य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मैतस्मिन्न किञ्चन श्लिष्यति तद्यदस्मिन् सर्पिवोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
आचार्योक्तविद्यामाह श्रुतिः य एष इति ।। अन्तरक्षिणि अक्ष्यन्तः, पुरुष: पूर्णषड्गुणतया पुरुषनामा, य एष दृश्यते दिव्यदृष्टि- विषयः सन्नास्ते । एष पुरुष आत्मा आदानादिकर्तृत्वेन वा आदेयम् उपादेयं सुखं मात्यनुभवतीति वा आत्मेत्युक्तः । तस्य गुणानाह- एतदिति ॥ विधेयापेक्षया नपुंसकम् । एष आत्मेत्युक्तोऽक्ष्यन्तःस्थः पुरुषः अमृतमभयमेतद् ब्रह्म पूर्णमित्युवाच हेत्यर्थः । तदाह सूत्रे - ' अन्तर उपपत्तेः’(ब्र.सू. १-२-१३ ) इति । एतस्मिन् चक्षुःस्थे हरौ । न किञ्चन श्लिष्यति लिप्तं न भवति । तत्र ज्ञापकमाह - तद्यदिति ॥ तत् तस्मादसङ्गभगवत्स्थानत्वाद् यत् यदि अस्मिन् चक्षुषि कश्चित् सर्पिर्वा उदकं वा अपिपदादन्यद्वा सिञ्चति तत् वर्त्मनी अधरोत्तरपार्श्वो प्रत्येव गच्छति न श्लिष्यतीति चोवाचेत्यर्थः ॥ १ ॥
उपनिषत्
( चक्षुरन्तःस्थभगवन्नामानि)
एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
चक्षुषोऽसङ्गत्वापादकस्यासङ्गपुरुषस्य विष्णुत्वे ज्ञापकान्तरमप्याह-एतमिति । एतं चक्षुःस्थासङ्गपुरुषं संयद्वामः संयन्ति प्राप्नुवन्ति वामानि भद्राणि अस्येति संयद्वाम इत्याचक्षते प्राज्ञाः । कुतः ? हि यस्मादेतं सर्वाणि वामानि भद्राण्यभिसंयन्त्यत इत्यर्थः । ज्ञानिनः फलमाह-सर्वाणीति । एनं ज्ञानिनं वामानि भद्राण्यभिसंयन्ति प्राप्नुवन्ति ।। २
उपनिषत्
।। एष उ एव वामनिरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि यति य एवं वेद ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
एष चक्षुरन्तःस्थो हरिः वामनिः । उ खल्वित्यर्थः । कुत: ? हि यस्मादेष चक्षुरन्तःस्थः सर्वाणि वामानि वामं सौन्दर्यं तत्प्रधानत्वात् स्त्रीकदम्बानि नयति प्रेरयत्यत इत्यर्थः । वामनीरेव वामनिः । ह्रस्वश्छान्दसः । ज्ञानिनः फलमाह – सर्वाणीति ।। अनेकस्त्रीनियन्ता मुक्ताविह च भवति य एवं वेदेत्यर्थः ॥ ३ ॥
उपनिषत्
एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
एष एव भामनिः भामं ओजः तत्प्रधानत्वात् पुरुषजातानि । तानि नयतीति भामनीरेव भामनिः । सर्वपुरुषनेतेत्यर्थः । तस्य गुणान्तरं चाऽह एष हीति ॥ अक्षिस्थः, हि प्रसिद्धम् । ज्ञानिनः फलमाह – सर्वेष्विति । । तदाह सूत्रे– ‘स्थानादिव्यपदेशाच्च' (ब्र.सू. १-२-१४) इति ।। ४ ।।
उपनिषत्
( अर्चिरादिमार्गः )
अथ यदु चैवास्मिंच्छव्यं कर्म कुर्वन्ति यदु च नार्चिषमेवा-भिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदङ्केति मासास्तान् मासेभ्यः संवत्सर संवत्सरादादित्य-मादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः ॥ ५॥
छान्दोग्योपनिषत्खण्डार्थः
चाक्षुषपुरुषज्ञानिनो माहात्म्यं प्रकाशयन् तस्य गम्यं मार्गं चाह-अथेति । अर्थान्तरे । यदु च यद्यप्यस्मिन् चाक्षुषपुरुषस्योक्तरूपस्य ज्ञानिनि मृते शव्यं शवसम्बन्धि दहनाद्युत्तरकर्म कुर्वन्ति, यदु च यदि च न कुर्वन्ति, स ज्ञानी अर्चिषमर्चिर्लोकमेवाभिसंविशन्ति प्राप्नोति । यद्वा, पूर्वमस्मिन्निति ज्ञानिसमुदायाभिप्रायम् । तेऽर्चिषमभिसंविशन्ति प्राप्नुवन्तीति यथाश्रुत एव न विपरिणामः । अर्चिषः अर्चिलोकात् । अहः अहरभिमानिलोकं संविशन्तीति सर्वत्रानुषज्यते । अह्नोsहर्लोकादा- पूर्यमाणपक्ष शुक्लपक्षाभिमानिलोकम् तस्मात् यान् षण्मासान् उदङ् याति सूर्यः उत्तरायणाभिमानिलोकमिति यावत् । तस्माच्च संवत्सरा-भिमानिलोकम्, तस्माच्चाऽदित्यमण्डलं, तस्माच्चन्द्रमण्डलम्, तस्माच्च वैद्युतं विद्युन्नामक वायुपत्नीलोकम् । तत्पुरुषः तस्या विद्युन्नामवाण्या भर्ता । मानवो वायुः । विद्युल्लोकात् तमिति शेषः । अभिसंविशन्तीत्य-नुषङ्गः ॥ ५॥
उपनिषत्
स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन खलु प्रतिपद्यमाना इमं मानवमावर्तं नाऽवर्तन्ते नाऽवर्तन्ते
सूत्रे –।। ६ ।। १५ ।।
छान्दोग्योपनिषत्खण्डार्थः
स वायुः एनान् चाक्षुषपुरुषज्ञानिनः ब्रह्म गमयति प्रापयति । तदाह “श्रुतोपनिषत्कगत्यभिधानात् ' ' ( ब्र.सू. १-२-१६ ) इति । 'वैद्युतेनैव ततस्तच्छ्रुतेः' (ब्र. सू. ४ ३ ६ ) इति । अत्र प्रतीकालम्ब- नान् कार्यं ब्रह्म चतुर्मुखं नयत्यप्रतीकालम्बनान् परं ब्रह्म नयतीति ब्रह्मपदस्य कार्यब्रह्मपरब्रह्मोभयपरत्वमधिकारिभेदेन ज्ञेयम् । तदाह सूत्रकारः 'कार्यं बादरिरस्य गत्युपपत्तेः' (ब्र.सू. ४- ३-७) । ' परं जैमिनिर्मुख्यत्वात्' (ब्र.सू.४-३-१२)
‘अप्रतीकालम्बनान्नयति' (ब्र.सू. ४-३-१४) इत्यादि । अर्चिरादेर्जडत्वभ्रान्तिं निवारयति - एष देवपथो देवैरभिमन्यमानमार्गः, ब्रह्मपथः ब्रह्मप्राप्तिमार्गः । एतेनार्चिरा-दिना पथा प्रतिपद्यमानाः ब्रह्म प्राप्नुवते । इमं मानवमावर्तं मानवा मनुष्याः यत्राऽवर्तन्ते सोऽयं मानवावर्तः, स एव मानव आवर्तः अलुक्समासः । तं मानवमावर्तं जननमरणादिरूपसंसारं प्रति नाऽवर्तन्ते मुक्ता एव भवन्तीति । ‘विकारवर्ति च तथा हि दर्शयति' (ब्र. सू. ४-४-२० ) इति सूत्रभाष्यादौ तु मानवमावर्तं संसारं नाऽवर्तन्ते नावर्तयन्तीत्यर्थमुपेत्य मुक्तानां संसारिविषयव्यापारो नेत्यर्थपरतया व्याख्यातम् ।। ६ ।।
।। इति पञ्चदश: खण्ड: ।।
अथ षोडशः खण्डः
उपनिषत्
(याज्ञनामकवायुदेवस्य पादपूजा )
एष वै यज्ञो योऽयं पवत एष यन्निद सर्वं पुनाति यदेष यन्निद सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक् च वर्तनी ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पूर्वत्र संवर्गविद्याविषयत्वेनोपक्रान्तो वायुः 'प्राणो ब्रह्म' इत्यपर- ब्रह्मत्वेन प्रकृतः 'स एनान् ब्रह्म' इत्यव्यवधानेन पूर्वं परामृष्टश्चेति तद्विषयामन्यामपि यज्ञविद्यामाह - एष हेत्यादिना ॥ योऽयं पवते वाति एष वायुर्यज्ञो हबै, सर्वयज्ञाभिमानी यज्ञे सन्निहितो यज्ञनामा । कथमित्यतो निर्वक्ति– एष इति । एष वायुः यन् गच्छन्नेव सर्वमिदं पुनाति पवित्रयति । यद् यस्मादेष वायुः गच्छन्नेवेदं सर्वं पुनाति, तस्माद्धेतोः एष वायुरेव यज्ञः । " इण् गतौ” इत्यस्य शतृप्रत्यये सुबाद यन्निति रूपम् । ‘ज्ञ शुद्धभावे' इति धातोः क्विपि ज्ञइति रूपम् । निरुक्तबलात् पूर्वपदान्त्यलोपे यज्ञ इति सिद्धेरिति भावः । यज्ञाख्यवायोः पादावस्थितिस्थानमाह - तस्येति । तस्य वायोः मनश्च वाक् च वर्तनी पादौ । मनोवाचौ वर्तेते द्वौ पादावित्यर्थः ॥ १ ॥
उपनिषत्
तयोरन्यतरां मनसा संस्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्गाताऽन्यतरांस यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यपवदति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तयोः पादयोरन्यतरां मनःसंस्थां वर्तनिं दक्षिणपादं ब्रह्मर्त्विक् मनसा मौनेन संस्करोति पूजयति होताऽध्वर्युरुद्गातेति त्रयो ऋत्विजः वाचा उपलक्षणं क्रमाद् (१) वाचा मन्त्रैः, अध्वर्युर्होमादिकर्मणा, सामगाने- नोद्गाता चान्यतरां वाचि स्थितां वर्तनिं वामपादं संस्करोतीत्यनुषज्यते । प्रत्येकमन्वयः । ब्रह्मर्त्विजः कदा मौनं तद्भङ्गे च किमनिष्टमित्यतः तद्भङ्गेऽनिष्टोक्त्या मौनकालं नियमयति अथेति । यत्र यदि । प्रातरनुवाके उपाकृते उपक्रान्ते । परिधानीयाः कर्मसमापिकायाः अन्त्याया ऋच: जपात् पुरा ब्रह्मा व्यपवदति वाचं विसृजति ॥ २ ॥
उपनिषत्
अन्यतरामेव वर्तनीं संस्कुर्वन्ति हीयतेऽन्यतरा स यथैकपाद् व्रजन्रथो वै केन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान् भवति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदा होत्राद्यास्त्रयः ऋत्विजः अन्यतरां वाचि स्थितां वामवर्तनिमेव संस्कुर्वन्ति पूजयन्ति । हीयते अन्यतरा मनः स्थिता दक्षिणवर्तनिः । ततश्च किमित्यत आह स यथेति ।। एकपात् मनुष्यो व्रजन् गच्छन् रथो वा एकेन चक्रेण वर्तमानस्तिष्ठन् रिष्यति नश्यति एवमस्य यजमानस्य यज्ञो रिष्यति । रिष्यन्तं यज्ञमनु यजमानो रिष्यति । तद् व्यनक्ति-स यजमान इष्ट्वा पापीयान् भवतीति ॥ ३ ॥
उपनिषत्
अथ यत्रोपाकृते प्रातरनुवाकेन पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥
स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान् भवति ॥ ५ ॥ १६ ॥
छान्दोग्योपनिषत्खण्डार्थः
तर्हि मौनस्याभङ्गे किं भवतीत्यत आह-अथ यत्रेति ॥ न व्यपवदतीत्यन्वयः । शिष्टं स्पष्टम् || ४ || ५ ||
॥ इति षोडशः खण्डः ॥
अथ सप्तदशः खण्डः
उपनिषत्
( व्याहृतित्रयस्य महिमा )
प्रजापतिर्लोकानभ्यतपत् तेषां तप्यमानानां रसान् प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
ब्रह्मादिऋत्विजां मौनादिनियमभङ्गे प्रसक्तयज्ञपादलोपसन्धायकं व्याहृतिहोमं वक्ष्यन् व्याहृतिमाहात्म्यं क्रमाद् वदन् ताभिर्होमप्रकारं चाऽह – प्रजापतिरित्यादिना ।। प्रजापतिर्भगवान् लोकानभ्यतपत् सारत्वेन व्यजानात् । तेषां लोकानां तप्यमानानां भगवता विज्ञायमानानां सकाशात् सारान् प्राबृहत् निरगमयत् । तद् व्यनक्ति-अग्निमिति ॥ पृथिव्या अग्निं प्राबृहदित्यनुषङ्गः । वायुं नासिक्यवायुमन्तरिक्षाद् आदित्यं दिवः ।। १ ।।
उपनिषत्
स एतास्तिस्रो देवता अभ्यतपत् तासां तप्यमानानां रसान् प्रावृहदग्नेर्ऋचो वायोर्यजूंषि सामान्यादित्यात् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रजापतिः एतास्तिस्रोऽयादिदेवताः । अग्नेरित्यादि पञ्चमी । ऋचः ऋचामभिमानी ब्रह्मा । वायोः नासिक्यवायुतः यजूंषि यजुषामभिमानी हरः । आदित्यात् सामानि साम्नामभिमानी वायुः ॥ २ ॥
उपनिषत्
स एतां त्रयीं विद्यामभ्यतपत् तस्यास्तप्यमानाया रसान् प्रावृहद्भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
ऋग्भ्यः ऋङ्मानिचतुर्मुखाद् भूरिति नामानं वराहं प्राबृहत् सत्त्वेनोदबर्हयत् । यजुर्भ्यः यजुर्मानिरुद्राद् भुव इति नामानं नृसिंहं प्रा-बृहत् । सामभ्यः साममानिवायुतः स्वरिति नामानं कपिलं प्राबृहत् ॥ ३ ॥
उपनिषत्
( ऋत्विजां कर्मभङ्गे व्याहृतिहोम: प्रायश्चित्तम् )
तद्यद्ध्यृक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयाद् ऋचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टिं सन्दधाति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् तस्माद् व्याहृतीनां सर्वसारत्वाद् यदि ऋक्तः रिष्येद् ऋग्जप-मौनादिहान्या वैगुण्यं प्राप्नुयात् तर्हि भूः स्वाहेत्युक्त्वा गार्हपत्ये जुहु-यात् । ऋचां तद्रसेन तस्य विवरणं ऋचां वीर्येण । भूरित्यनेन होमे कृत इति शेषः । यज्ञस्य ऋचां सकाशात् प्राप्तां विरिष्टिं भ्रंशं सन्दधाति ।। ४ ।।
उपनिषत्
अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद् यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टिं सन्दधाति ॥ ५ ॥
अथ यदि सामतो रिष्येत् स्वः स्वाहेत्याहवनीये जुहुयात् साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टिं सन्दधाति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यजुष्ट इत्यादिवाक्यद्वयेऽप्येवमर्थो ध्येयः ॥ ५ ॥ ६ ॥
उपनिषत्
तद्यथा लवणेन सुवर्णं सन्दध्यात् सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
उक्तमेव विरिष्टिसन्धानमनुभवारूढं करोति-तद्यथेति ॥ तन्नि दर्शनं यथा । भिन्नसुवर्णानामग्रिपाके लवणक्षारेण द्रवीभूयैकीभवनरूप- सन्धानदृष्टेरिति भावः । शिष्टं स्पष्टम् ॥ ७ ॥
उपनिषत्
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टिं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमेषां पृथिव्यादिलोकानां आसामग्र्यादिदेवतानामस्यास्त्रय्या विद्याया वीर्येण भूरित्यादिव्याहृतित्रयेण यज्ञस्य विरिष्टिं सन्दधाति । एवं सन्धितो यज्ञः सम्यक् समाप्तयज्ञवत् फलं दद्यात् किम् ? इत्यत आह- भेषजेति । यत्र यज्ञे एवं विद्वान् यज्ञपादभङ्गादिपरिहारज्ञानी ब्रह्मा भवति एष यज्ञः भेषजकृतः रोगार्तः पुमान्निपुणचिकित्सककृतौषधेन नीरोग इव भेषजकृतः प्रायश्चित्तरूपव्याहृतिहोमाख्यौषधकृतः ॥ ८ ॥
उपनिषत्
एष हवा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवत्येवंविद हवा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद् गच्छति
॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
तर्हि फलं न दद्यात् किम् ? इत्यतो दद्यादेवेत्याह- एष हवा इति । यत्र यज्ञे एवंविद् ब्रह्मा भवति एष: यज्ञः उदकप्रवणः ऊर्ध्वप्रवणः । ऊर्ध्वलोकानुसारीत्यर्थः । मौनादिनियमभङ्गाद् भग्नमपि यज्ञं सन्धित्वा यजमानादेः फलप्रदं करोति ब्रह्मेत्यत्र गाथाऽस्तीत्याह - एवमिति ॥ एवंविदं भग्नयज्ञसन्धानविदं ब्रह्माणमृत्विजमनु तन्निमित्ता तद्विषयिणी स्तुतिरूपा गाथा | हवै प्रसिद्धाऽस्ति । तामाह यतो यत इति ।। यजमानो यज्ञस्य दुरिष्ट्या यतो यतः पुण्यलोकस्थानादावर्तते तत्तत्स्थानमेवंविदा ब्रह्मर्त्विजा गच्छति ॥ ९ ॥
उपनिषत्
मानवो ब्रह्मैवैकर्त्विक् कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ।। १० ।। १७ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि चतुर्थोऽध्यायः ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
मानवो मौनेन भगवन्तं ध्यायन् ब्रह्मैक एव ऋत्विक् कुरून् यज्ञकर्तृन् यजमानांदीन् सर्वान्, अश्वा-आशु वाति जानाति यज्ञभ्रंशमित्याश्वा, आश्वैव अश्वा शीघ्रं तत्तदीयं दोषं ज्ञात्वाऽभिरक्षति सर्वानित्यर्थः । गाथार्थं स्वयमेव श्रुतिर्व्यनक्ति- एवंविदिति । तस्माद् भग्नयज्ञसन्धायकत्वाद् ब्रह्माणम् ऋत्विजं कुर्वीत । नानेवंविदमिति द्विरुक्तिरादरार्था ॥ १० ॥ ॥ इति सप्तदशः खण्डः ॥
इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते चतुर्थोऽध्यायः सम्पूर्णः ।।