वृष्टौ पञ्चविधं सामोपासीत

उपनिषत् (खण्डः- ३ )

वृष्टौ भगवदुपासना

वृष्टौ पञ्चविधं सामोपासीत । पुरो वातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः ॥ १ ॥

उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २ ॥ ३ ॥

भाष्यम्

'पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम् । उपास्ते वृष्टिरस्मै स्याद् वर्षयत्यस्य मुक्तिगान् । सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः' इति च ॥ ३ ॥

पदार्थकौमुदी

एवं लोकेषु पञ्चविधभगवदुपास्तिमुक्त्वा लोकस्थितेर्वृष्टिनिमित्त- कत्वाद् वृष्टौ पञ्चविधभगवदुपास्तिः कर्तव्येत्याह - वृष्टाविति ।। अयमपि खण्डो भगवत्पर एवेति ज्ञापनाय " वर्षति हास्मैइत्यादिफलवाक्यं प्रमाणेनैव व्याचष्टेपञ्चरूपमिति । वर्षतीत्यस्यार्थः - वृष्टिरस्मै स्या- दिति ।। वर्षयतीत्यस्य कर्मानुक्ते:मुक्तिगान् सर्वभोगान्’”इत्युक्तम् । वर्षयति चेति चशब्दान्वयः । मुक्तिगांश्चेति वा ।

खण्डार्थः

।। अत्र खण्डार्थः पूर्वोक्तरीत्या स्पष्टः । एवमुत्तरत्रापि । अस्पष्टांशस्तु व्याख्यास्यते । अत्र पुरोवातादिशब्दानां भगवति व्युत्पत्तिः प्रमाणान्तरेण द्रष्टव्या ||

।। इति तृतीयः खण्डः ।।