यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति ..
उपनिषत् (खण्डः -९)
जीवब्रह्मभेदविषये पुष्परसदृष्टान्तः
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतांं गमयन्ति ॥ १ ॥
ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्मि अमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति ॥ २ ॥
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् भवन्ति तत्तदा भवन्ति ॥ ३ ॥
स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ() तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ ९ ॥
भाष्यम्
यदि स्वतोऽन्यः परमो देहेऽस्मिन् संव्यवस्थितः || न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः । अज्ञैरदृश्यमानोऽपि न भेदो नास्ति पुत्रक । यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः । अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः । इति पित्रोपदिष्टः सन् पुत्रः पप्रच्छ तं पुनः । चेतनानामविज्ञानं कथमित्येव चिन्तयन् ॥ तं प्रत्याह....॥९॥
पदार्थकौमुदी
भूय एव मा भगवान् विज्ञापयत्विति पुनः प्रश्नाभिप्रायः परेण वर्णितः । यद्भवदुक्तमहन्यहनि सर्वाः प्रजाः सुषुप्ते सत्सम्पद्यन्त इति तत्सन्दिग्धम् । यतः सत्सम्पद्य न विदुः सत्सम्पन्ना वयमिति । अतो दृष्टान्तेन प्रत्यापयत्वित्यर्थ इति । स न युक्तः । तथा सति ते यथा तत्र विवेकं लभन्ते मधुभावं प्राप्ता वयमित्येव वक्तव्यत्वापातात् । नदीसमुद्र- दृष्टान्तोक्तिवैयर्थ्याच्च । नच यथा लोके स्वकीये गृहे सुषुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहादागतोऽस्मीति एवं सत आगतोऽस्मीति जन्तूनां कस्माद् विज्ञानं न भवतीति पुनः प्रश्ने तत्कथनमिति वाच्यम् । तथा सति ताः समुद्रादागता न विदुरितो वयमागता इत्येव वक्तव्यत्वापातेन नदीनां समुद्रप्राप्तेः परस्परज्ञानस्य च कथनायोगात् । नानावृक्षरसा यथा तत्तद्वृक्षादागत्य न विदुरित आगतोऽस्मीत आगतोऽस्मीति पूर्वखण्ड एव तत्रापि दृष्टान्तस्योक्तप्रायत्वाच्चेति भावेन स्वयं पुनः प्रश्नाभिप्रायं प्रमाणेनैवाऽह - यदीति ॥ स्वतः स्वस्मात् मत्त इत्यर्थः । न दृश्यते भेदेनेति शेषः । न मत्तोऽन्योऽस्मिन् देहेऽस्ति । मया भेदेनानुपलभ्यमानत्वात् । योऽयमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्तेरिति भावः । किमत्र ज्ञानिभिरदृश्यमानत्वं हेतुरथवाऽज्ञानिभिः । नाद्यः । असिद्धेः । द्वितीये व्याप्तिभङ्गमाह - अज्ञैरिति ॥ कुत इत्यतस्तत्र " यथा सोम्य मधु ” इति खण्डोक्त- व्यभिचारस्थानमाह- यथेति ।। " एवमेव खलु सोम्य" इत्यादिदाष्ट- न्तिकवाक्यतात्पर्यमाह- अजानन्तोऽपीति ॥ इति "भूय एव मा भगवान् विज्ञापयतु'' इत्येतद् व्याचष्टे - इति पित्रेति ॥ पित्रोपदिष्टः सन्निति शेषोक्तिः । प्रश्नाभिप्रायमाह - चेतनानामिति ॥ भवत्वचेत- नानां नानावृक्षरसानां भेदापरिज्ञानं मया तु चेतनत्वेन हेतुर्विशेष्यत इति भावः । तथा सोम्येति होवाचेत्यर्थ:- तं प्रत्याहेति ॥ नवमः खण्डः ||
खण्डार्थः
किमुवाचेत्यत आह - यथा सोम्येत्यादि । हे सोम्य यथा मधुकृतो भ्रमराः मधु निस्तिष्ठन्ति निर्मिमते । कथं नानात्ययानां नानागतीनां परस्परविलक्षणानां वृक्षाणां रसानां समवहारं समूहमेकतां मिश्रतां गमयन्ति । ‘‘रसान् समवहारम्" इति पाठे रसानिति द्वितीया षष्ठ्यर्थे ॥ १ ॥
यथा च ते नानावृक्षरसास्तत्र मिश्रतायां विद्यमानमपि विवेकं परस्परभेदं न लभन्ते न जानन्ति । अमुष्य वृक्षस्याऽम्रस्याहं रसोऽस्म्ययं त्वन्यस्येति । तथा परोऽप्यमुष्य पनसस्याहं रसोऽस्म्ययं त्वन्यस्येति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः जीवाः परमेश्वरशक्तिभिरेव स्वे स् शरीरे सति परमेश्वरे सम्पद्यते न मिश्रीभावं प्राप्य सति सम्पत्स्यामहे । उपलक्षणमेतत् । सम्पन्नाः सम्पद्यामहे इति न विदुः ॥ २ ॥
अज्ञानभवमनर्थमाह – त इत्यादिना ॥ इह लोके ते प्रसिद्धाः । व्याघ्रो वेत्यादि यद् यद्भवन्ति तत् तदा तस्मात् परमेश्वराश्रितत्वा- ज्ञानापराधाद् भवन्तीति । एतेन यो यमात्मनो भेदेन न पश्यति स ततो न भिद्यत इति व्याप्तेर्भङ्गो दर्शितो भवति ।। ३ ।।
“स यः” इत्याद्यभ्यासस्तात्पर्यद्योतनार्थः । " आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्युक्तानां श्रवणादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः । किन्त्वावृत्तिः कर्तव्येति ज्ञापनार्थं चायमसकृदुपदेशः । तथाचोक्तं सूत्रकृता - आवृत्तिर - सकृदुपदेशादिति (ब्र.सू. ४-१-१) ॥ इति पित्रोपदिष्टेन श्वेतकेतुना भवत्वचेतनानां नानावृक्षरसानां भेदापरिज्ञानम् । मया तु चेतनत्वेन हेतुर्विशेष्यत इत्यभिप्रायेण “भूय एव मा भगवान् विज्ञापयतु' इति पृष्टे पिता " तथा सोम्य'' इति होवाच ।। ४ ॥
॥ इति नवमः खण्डः ॥