अभिमन्थति स हिङ्कारो धूमो जायते ..

उपनिषत् (खण्डः १२ )

रथन्तरसामप्रतिपाद्यभगवदुपासना

अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशाम्यति तन्निधनमेतद्रथन्तमग्नौ प्रोतम् ॥ १ ॥

स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या न प्रत्यङ्ग्ङग्निमाचामेन्न निष्ठीवेत् तद् व्रतम् ॥ २ ॥ १२ ॥

भाष्यम्

'मन्थनादिस्थितं यस्तु (१) तन्नामानं हरिं परम् । तत्तत्क्रियैकहेतुत्वाद् योऽग्नौ ध्यायेज्जनार्दनम् । रथन्तराश्रयं पञ्चरूपं स च विमुच्यते ॥ ' इति च ॥ १२ ॥

पदार्थकौमुदी

" अभिमन्थति स हिङ्कारः" इति खण्डस्य भगवत्परत्वज्ञापनायस य एवमेतद्रथन्तरमग्री प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति' इत्यादि फलवाक्यं प्रमाणेन व्याचष्टे -मन्थनादीति ॥ तत्तत्क्रियैकहेतुत्वात् मथनधूत्कारादिक्रियामुख्यहेतुत्वादित्यर्थः ।

द्वादशः खण्डः 

खण्डार्थः

एतदग्निस्थविष्ण्वाश्रितं रथन्तरं सामानौ प्रोतमग्निस्थभगवद्रूपवाचकं तन्नियम्यं चेत्यर्थः । ब्रह्मवर्चस्वी ब्रह्मणो विष्णोर्वरणादेव चाऽयितमभिवृद्धं स्वरूपतेजो ब्रह्मवर्चः तद्वान् ब्रह्मवर्चस्वी मुक्त इति यावत् । संसृता- वल्पतेजो जीवरूपं भगवान् मुक्तौ महत्तेजः करोतीति प्रमाणप्रमितम् । अन्नादो यथेष्टान्नभोक्ता भवति । अग्निं प्रत्यग् अग्रयभिमुखो नाऽचामेत् । न भक्षयेत् । न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात् तद् व्रतम् ।। १-२।।

इति द्वादशः खण्डः ।।