स होवाच किं मेऽन्नं भविष्यतीति ..

उपनिषत् (खण्डः - २)

अस्माभिरद्यमानं सर्वं मुख्यप्राणस्यान्नसमर्पणमेव

स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदं आश्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥

भाष्यम्

अक्षेषु प्रति प्रति स्थितत्वादनः प्रत्यक्षम् ।

रुद्रस्यैव मुख्यतया सर्वभोक्तृत्ववर्णनम्

'प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः ।तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः ।।' इति च ।।

पदार्थकौमुदी

अक्षेष्विति । शास्त्रैकवेद्यस्य प्रत्यक्षाविषयत्वादिति भावः । प्रादि- समासोऽयं नाव्ययीभावः । अन्यथा प्रत्यक्षस्येति षष्ठी न श्रूयेत । "न हवा एवंविदि किञ्चनानन्नं भवति' इत्यनेनोक्तं प्राणवेत्तुः सर्वात्तृत्वं मुख्यतः यस्य कस्यचिदिति प्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे - प्राणेति ॥

Load More