इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते ..
उपनिषत् ( खण्ड: - १० )
जीवब्रह्मभेदविषये नदीसमुद्रदृष्टान्तः
इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति । स समुद्र एव भवति । ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहे इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत्तदा भवन्ति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १० ॥
भाष्यम्
...................यथा नद्यश्चेतनाश्च समुद्रगाः । स्वं वारि (१) नैव जानन्ति प्रजास्तद्वत्प्रजालये । स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम् । इति पृष्टः पुनः प्राह वृक्षदृष्टान्ततः पिता ॥ १० ॥
पदार्थकौमुदी
प्रश्नोत्तरत्वेन " इमाः सोम्य नद्यः" इति खण्डतात्पर्यमाह - यथा नद्य इति || नदीशब्दस्य चेतनपरत्वमभिमान्यधिकरणन्यायसिद्धम् । च- शब्दोऽपिशब्दार्थः । नदीदेवतानामियमहमस्मीयमहमस्मीति न विदु- रित्युक्तस्वस्वरूपापरिज्ञानं कथमित्यत उक्तम्- स्वं वा ॥ सर्वस्यापि नदीजलस्य सामुद्रजलप्रवेशेन मिश्रीभावात् क्षीरनीरयोरिव स्वीयोदकभेदाज्ञानं युक्तमिति भावः । प्रजानामालयः आश्रयस्तस्मिन् प्रजालये परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुरिति शेषः । अनेन श्रुतौ दृष्टान्तवाक्यानुसारेण सत आगम्य न विदुरित्येतदुप - लक्षणपरमित्युक्तं भवति । एतेन चेतनत्वविशिष्टस्यापि हेतोरनैकान्त्य- मुक्तं भवति । दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गताः विनष्टा इति । जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि यन्मरणप्रलययोश्च न विनश्यन्तीत्येतद्भूय एव मा भगवान् विज्ञापयतु दृष्टान्तेनेति प्रश्नाभिप्रायवर्णनमयुक्तम् । जलवीचीतरङ्गा- दावुपादानोपादेयभावसत्त्वात् । प्रकृते च तदभावेन वैषम्यात् । "पेपीयमानो मोदमानस्तिष्ठति" इत्यन्तस्यैव कथञ्चिद् वक्तव्यत्वेनास्य यदैकां शाखां जीवो जहातीत्यादिवैयर्थ्याच्चेति भावेन भूय एवेति पुनः प्रश्नाभिप्रायं स्वयमाह स्वत इति ।। परः परमात्मा । स्वतोऽन्यो देहेऽस्तीति सत्यम् । तथाऽपि जीवस्य तदधीनत्वमिति शेषः ।। दशमः खण्डः ।।
खण्डार्थः
किमुवाच – इमाः सोमेत्यादि । हे सोम्येमाः प्रसिद्धाः गङ्गाद्याः नदीदेवताः प्राच्यः प्रागञ्चनात् प्राचीशब्दवाच्याः पुरस्तात् स्यन्दते स्रवन्ति । तथा प्रत्यगञ्चनात् प्रतीचीशब्दवाच्याः पश्चात् स्यन्दन्ते । एवमत्यन्तविलक्षणास्ता नद्यो मेघादिद्वारेण समुद्रादागत्य उत्पन्न- जलत्वात् समुद्रमेवापियन्ति । एवशब्दस्योत्तरत्रान्वयः । अविज्ञेयत्वेन प्राप्नुवन्ति । प्रविशन्तीति यावत् । तथाऽपि स समुद्रः समुद्र एव भवति । न नदीभावं प्राप्नोतीत्यर्थः । " स एव समुद्रो भवति" इति पूर्ववाक्यगतैवकारान्वयः । समुद्र एव समुद्रो भवति । न नद्य इत्यर्थः । ता नदीदेवताः यथा तत्र समुद्रे इयं गङ्गाऽहमस्मीयं तु यमुनाऽयं च समुद्र इत्येवमन्या अपि न विदुः । स्वं स्वं वारि नैव जानन्ति ॥ १ ॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सतः परमेश्वरादागम्योत्पद्यापि सत आगच्छामहे उत्पन्ना स्म इति न विदुः । एवं परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुः । " त इह ' ' इत्यादि पूर्ववत् । अनेन चेतनत्वविशिष्टस्यापि हेतोरनैकान्त्यमुक्तं भवति । इति पित्रोपदिष्टेन पुत्रेणास्तीश्वरः स्वतो भिन्नस्तथाऽपि जीवस्य तदधीनत्वं कुत इत्याशयवता “भूय एव मा भगवान् विज्ञापयतु " इति पृष्टे " तथा सोम्येति होवाच " पिता ।। २-३ ॥
।। इति दशमः खण्डः ।।