उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ..
उपनिषत् (खण्डः - १०)
उपकोसलोपाख्यानम्
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन् परिचचार स ह स्मा अन्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥१॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् परिचचारीन् मा त्वाऽग्नयः परिप्रवोचन् प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
अग्निभिः कृतः मुख्यप्राणपरब्रह्मोपदेशः
स ह व्याधिनाऽनशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यया व्याधिभिः परिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेवं खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ १० ॥
भाष्यम्
प्राणो ब्रह्म बलरूपं ब्रह्म । कमानन्दरूपम् । खं ज्ञानरूपम् । ‘अपरब्रह्म(१) स प्राणः साक्षाद् यो बलदेवता ॥
ज्ञानानन्दात्मकं पूर्णं परं ब्रह्म स्वयं हरिः । नैजानन्दबलोद्रेकः कमित्युक्तो मनीषिभिः ॥ बलज्ञानसमाहारः पूर्णः खमिति शब्दित: ( २ ) । तदात्मकः परो विष्णुराकाश इति कीर्तितः ।
एवं प्राणस्तथाऽऽकांशो ब्रह्मणी द्वे प्रकीर्तिते ।।' इति च । प्राणशब्दस्य वायुरर्थः प्रसिद्धः । कखयोर्भिन्नार्थत्वशङ्कया (३) कं च तु खं च न विजानामीत्याह । अत एवैक्याभिप्रायेण यद्वाव कं तदेव खं यदेव खं तदेव कमित्यूचुः॥ १० ॥
पदार्थकौमुदी
अत्र पुनराख्यायिकापुरःसरं परापरब्रह्मविद्यामुत्क्रान्तमार्गं च निरूपयति – उपकोसल इत्यादिना खण्डषट्केन || तत्र " प्राणो ब्रह्म" इत्यादौ प्राणाद्यनुवादेन ब्रह्मत्वं विधीयत इति प्रतीतिनिरासाय तदनूद्य व्याचष्टे – प्राण इति ।। अत्र " प्राणो ब्रह्म कं ब्रह्म" इत्यादिकं नैकविषयं प्राणस्य विज्ञेयत्वोक्तेः । कखयोरविज्ञेयत्ववचनात् । “प्राणं च हास्मै तदाकाशं चोचुः" इत्युपसंहारविरोधाच्चेति भावेन भिन्नविषयतां प्रमाणे- नैव दर्शयति- अपरमिति । ब्रह्मशब्दस्याप्यमुख्यार्थत्वमुपपद्यते विरोध इति भावः । परब्रह्मप्राप्तेरपरब्रह्माधीनत्वादादौ तन्निरूपणम् । नन्वपर- ब्रह्मणोऽपि ज्ञानानन्दात्मकत्वात् कथं कं च खं च परब्रह्म । अपरब्रह्मणो बलरूपत्वे परब्रह्मणस्तदभावप्रसङ्गश्वेत्यतः कखशब्दौ व्याचष्टे- नैजेति ।। अपराधीनेत्यर्थः । पूर्ण इत्यस्याप्ययमेवार्थः । अतिशयद्योतक - त्वान्न बलांशे पुनरुक्तता । प्राचीनव्याख्यानं त्वसाधारणपदार्थमादाये- त्यवधेयम् । वाक्यार्थमाह - तदात्मक इति ।। विष्णुः कमित्युक्त इति मिति शब्दित इति च वर्तते ।
ननु “प्राणं च हास्मै तदाकाशं चोचुः" इति कखयोराकाशत्वोक्तेः कथं विष्णुत्वमुच्यत इत्यत आह- आकाश इति । प्रसिद्धाकाशे कत्वा- नुपपत्तेरिति भावः । नच कं खाभिन्नं खं चाऽकाशमिति नानुपपत्तिः । उक्तार्थाविवक्षायां कवयोरभेदस्यैवानुपपत्तेः । " खं ब्रह्म" इति ब्रह्म- शब्दानुपपत्तेश्च । " प्राणं च' इति वाक्यं किञ्चित् पूरयन् व्याचष्टे - एवमिति ।
विजानाम्यहं यत् प्राणो ब्रह्मेत्युक्तौ निमित्तमाह - प्राणशब्दस्येति ॥ अतो “विजानाम्यहं यत् प्राणो ब्रह्म'' इत्याह । ननु यथा प्राणशब्दस्य वायुरर्थः प्रसिद्धस्तथा कखशब्दयोरपि सुखज्ञानार्थत्वं प्रसिद्धमेव । ततश्च “कं च खं च न विजानामि " इति कथमुक्तमित्यत आह- कवयो - रिति ।। न करखशब्दयोरर्थापरिज्ञानेन "कं च खं च न त्रिज्ञानामि' इत्याह । किन्तु भिन्नार्थत्वशङ्कयैवेत्यत्रोत्तरवाक्यमवष्टम्भकमाह अत एवेति || अन्यथा कखशब्दार्थस्यैव निरूपणीयत्त्वेन तयोंग्क्योक्ति- रसङ्गता स्यादिति भावः । ऊचुरग्नयः ।।
खण्डार्थः
उपकोसलो नामतः । कमलायनस्यापत्यं कामलायनः । सत्यकामे जाबाले पूर्वोक्ते । ब्रह्मचर्यमुद्दिश्योवास । स तत्र गुरुकुले तस्याऽ- चार्यस्याग्नीन् द्वादशवर्षाणि परिचचार । स ह स्माऽचार्योऽन्या- नन्तेवासिनश्छात्रान् स्वाध्यायं ग्राहयित्वा सम्यगावर्तयंस्तमुपकोसल- मेकमेव न समावर्तयति । स्महेत्याश्चर्या महतां चित्तवृत्तिरित्याह ॥ १ ॥
तमाचार्यमाचार्यजायोवाच । ब्रह्मचारी तप्तश्वीर्णता जातः । कथं कुशलं यथा तथाऽग्रीन् परि च चारीत् पर्यचरत् । त्वमिमं नोपदिष्टवानेव । त्वा तवाग्नयोऽप्यनेन सेविताः सन्तो मा परिप्रावोचन् । इतः परं वा प्रब्रूह्यस्मा इति । एवं जायोक्तोऽपि सत्यकामस्तस्मा उपकोसलायाप्रोच्यैव प्रवासाञ्चक्रे प्रोषितवान् ॥ २ ॥
स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दध्रे मनः । तमनशनमनस्कमाचार्यजायोवाच । हे ब्रह्मचारिन्नशान भुङ्ख । किन्नु कस्मात् कारणान्नाश्नासीति । एवमुक्तः स होपकोसलो होवाच । अस्मिन् पुरुषेनानात्ययाः नानागतयः कामाः बहवोऽतः कामिता - प्राप्तिनिमित्तव्याधिभिः प्रतिपूर्णोऽस्मि । अतो नाशिष्यामीत्युक्त्वा ब्रह्मचारिणि तूष्णीम्भूते ॥ ३ ॥
अथ हाग्नयः कारुण्याविष्टाः सन्तस्त्रयोऽपि समूदिरे परस्परमूचुः । तप्तो ब्रह्मचारी यतः कुशलं यथा भवति तथा नोऽस्मान् परि च चारीत् । हन्तेदानीमस्मै ब्रह्मचारिणे वयं सर्वे प्रब्रवाम परापरब्रह्मविद्यामित्येवं प्रतिज्ञाय तस्मै होचुः ॥ ४ ॥
प्राणो ब्रह्म बलरूपं ब्रह्मेत्यपरब्रह्मोपदेशः । कम् अपराधीनबला- नन्दरूपं ब्रह्म । खं तादृग्बलज्ञानरूपं ब्रह्मेति परब्रह्मोपदेशः। एवमुक्तः स उपकोसल उवाच ह । यदुक्तं भवद्भिः प्राणो ब्रह्मेति तदहं विजानामि । प्राणशब्दस्य वायुरर्थ इति प्रसिद्धत्वात् । कवयोर्भिन्नार्थत्वशङ्कया कं च, खं च तु विशेषाकारेण न विजानामीति ।। अत एवैक्याभिप्रायेण ते होचुः । “यद्वाव कं तदेव खं यदेव खं तदेव कम्" इति । श्रुतिः स्वयमाह - प्राणं चेति ॥ तेऽग्नयस्तदा सम्भूयोपदेशकालेऽस्मा उपकोसलाय प्राणं मुख्यप्राणाख्यम् अपरं ब्रह्म चाकाशं च पूर्तेराकाशनामकं विष्ण्वाख्यं परं ब्रह्म चोचुः । कं च खमित्युक्तं खं चाकाशमित्यनूद्यत इति न दोष इति ।। ५ ।।
।। इति दशमः खण्डः ।।