श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व ..
उपनिषत् (खण्डः १३)
मोक्षप्रार्थना
श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १३ ॥
भाष्यम्
'श्यामो हृदिस्थितो विष्णुः शबलो विश्वरूपवान् । जीववर्णो जीवगतो लोहितश्चक्षुषि स्थितः ।।' इति मानसे । ' हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु । रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः ।।
यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु । तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः ।
एवं रमा तथा ब्रह्मा छान्दोग्योपनिषद्धि सा ॥' इति सामसंहितायाम् ।। खण्डः १३ ॥
पदार्थकौमुदी
हृदयादिस्थस्य भगवतो रूपविशेषवत्त्वेनोपास्तिमाहानेन खण्डेन । तत्र श्यामादेरधिष्ठानविशेषाप्रतीतेस्तद्दर्शयन् व्याचष्टे -- श्याम इति ॥ "हृदि स्थितो विष्णुः" इत्यस्य पूर्वेणोत्तरेण च सम्बन्धः । श्यामः श्यामरूपवान्। ‘“शबल:’” इत्यनूद्य “विश्वरूपवान्' इति व्याख्यानम् । नानारूपसमाहारवानित्यर्थः । एवं च श्यामशबलरूपवन्तौ भगवन्मूर्ति- विशेषौ हृदि स्थितौ । तयोश्वोपासनायां न क्रमः । किन्तु श्यामात् तदुपासनात् । अनन्तरं शबलं प्रपद्ये । अथवा शबलात् तदुपासनानन्तरं श्यामं प्रपद्य इत्यनियम एवेत्याह वेदपुरुष इत्युक्तं भवति । इदमुपलक्षणमित्याशयेनाऽह - जीववर्ण इति ॥ जीववर्णः जीवो (१)यादृशवर्णस्तादृशरूपवानित्यर्थः । अनेन गायत्रीविद्यायां यज्जीवव्यापि ‘यादृशरूपः' इति मातृकायाम् । भगवत्स्वरूपमुक्तं तज्जीववर्णमित्युपास्यमित्युक्तं भवति । “य एषोऽन्त- रक्षिणि'' इत्युक्तश्चक्षुषि स्थितो भगवान् लोहितो लोहितरूपवानुपास्य इत्यर्थः । एवं हृदयादिगतमूर्तीनां रूपविशेषवत्त्वेन प्रतिपत्तिमभिधाय तत्प्रतिपत्तिकाले कर्तव्यमनुसन्धानप्रकारमाह वेदपुरुषः - अश्व इत्या- दिना ॥ अश्वो रोमाणीव पापमप्रारब्धम् अनायासेनैव विधूय चन्द्र इव राहोर्मुखात् प्रारब्धपापाच्छनैर्भोगेन श्रीयमाणत्वात् प्रमुच्य शरीरं स्थूलं सूक्ष्मं च धूत्वा विहाय कृतात्मा आविर्भूतस्वरूपोऽहमकृतं नित्यं ब्रह्मलोकमभिसम्भवामि गन्ताऽस्मीत्यनेनाभिप्रायेण प्रपद्ये इत्याह वेदपुरुषः ।
नन्विदमयुक्तम् । हयग्रीवस्य रमाया वा एतदुपनिषद्द्रष्टृत्वाद् (१) उभयोश्च नित्यमुक्तत्वेनैतादृशाभिप्रायासम्भवादतः कथमेतदित्यतोऽ- त्रोपपत्तिं प्रमाणेनैवाऽह - हयग्रीवेति । नारद इत्युपलक्षणम् । सोमोऽपि ग्राह्यः । ‘सोमः साम्नाम्’ इत्यन्यत्रोक्तत्वात् । उत्तरेषां नारदादीनाम् । भविष्याणीत्युपलक्षणम् । एवं च हयग्रीवादयः अश्व इव रोमाणीत्यादि - प्रार्थनाभिप्रायकाणि वाक्यान्यतीतकल्पे नारदादयः प्रावोचन् । उत्तरत्र वक्ष्यन्ति चेत्येव पश्यन्ति । नतु स्ववाक्यतयाऽतो नानुपपत्तिरित्यर्थः । या वाक्यसंहतिस्तैर्दृष्टा सेत्यर्थः ॥ खं० १३ ॥ (२)