तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुदि्भज्जमिति
उपनिषत् (खण्डः - ३)
नामरूपात्मकप्रपञ्चस्य सृष्टिकथनम्
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुदि्भज्जमिति ॥ १ ॥
सेयं दैवतैक्षत हन्ताहमिममास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ३ ॥ ३ ॥
भाष्यम्
सृष्टेष्वेतेषु भगवानीक्षाञ्चक्रे स केशवः । जीवाख्येनैव रूपेण योऽनिरुद्ध इति स्मृतः ॥ तेन रूपेण लक्ष्म्यादीन् प्रविष्टो रूपनामनी । करिष्ये त्रिवृतश्चैतानेकैकं करवाणि च ॥ मत्वा प्रविश्याथ तेभ्य इन्द्रादिनामपि ।नामरूपाणि कृतवांस्तांश्चान्योन्यप्रवेशिनः । कृत्वाऽग्निसोमसूर्यादिष्वेतांस्त्रीन् विदधे (१) पुनः ॥ ३ ॥
पदार्थकौमुदी
"सेयं देवता" इत्यादि " करवाणि " इत्यन्तं वाक्यं प्रसिद्धजीव- रूपेणेति प्रतीतिं निवारयन् ससङ्गतिकं व्याचष्टे - सृष्टेष्विति ॥ “ सेयं देवता" इत्यादि “ नामरूपे व्याकरोत्" इत्यन्तं वाक्यं ससङ्गतिकं व्याचष्टे - इति मत्त्वेति ॥ तेभ्य इन्द्रादिनामिन्द्रादीनामिति शेषोक्तिः । ‘“तासां त्रिवृतं त्रिवृतमेकैकामकरोत्" इत्येतद्व्याचष्टे - तांश्चेति ॥ ताँल्लक्ष्म्यार्दीश्चान्योन्यप्रवेशिनः कृतवानित्यनुवर्तते । यदग्नेरित्याद्युत्तर- प्रकरणं सङ्गमयितुमाह— कृत्वेति ॥ तांश्चान्योन्यप्रवेशिनः इत्यनुवर्तते । एताँल्लक्ष्म्यादीन् पुनर्विदधे पुनःप्रवेशितवान् ॥ तृतीयः खण्डः ।।
खण्डार्थः
एवमुत्पन्नानां तेजोऽबन्नानां सर्वभूतकारणत्वरूपमाहात्म्यमाह-- तेषामिति ॥ तेषां प्रसिद्धानामेषां वक्ष्यमाणानां भूतानां त्रीण्येव खलु प्रागुक्ततेजोऽन्नान्येव बीजानि कारणानि । एषामित्युक्तभूतान्ये- वाऽह– अण्डजमिति । अण्डजं पक्ष्यादि, जीवजं जरायुजं मनुष्यादि, भुवमुद्भिद्य जायत इत्युद्भिज्जं वृक्षादि इत्येषामित्यन्वयः ॥ १ ॥
भूतसहिततेजोबन्नाख्यदेवतात्रयसृष्ट्यनन्तरं भगवद्व्यापारमाह- सेयमिति ॥ सेयं सदाख्यादेवतैक्षत । हन्तेत्यास्वादने । अहमिमाः पुरा सृष्टाः । तिस्रो देवताः तेजोबन्ननामकलक्ष्मीप्राणरुद्ररूपाः । अनेन जीवेन जीवनामकेनानिरुद्धाख्येनाऽत्मना स्वात्मानाऽन्तर्यामिरूपेणानुप्रविश्य नामरूपे व्याकरणवाणीत्यैक्षत || २ ||
विचारान्तरमाह— तासामिति । तासां देवतानां मध्ये एकैकां त्रिवृतं त्रिवृतमन्योन्यप्रविष्टां करवाणीति चैक्षत । इति मत्वा सेयं देवतेमास्तिस्रो देवताः अनेन जीवेनाऽत्मनाऽनुप्रविश्य ताभ्यः इन्द्रादीनां नामरूपे ब्याकरोत् व्याकृतवती । तासां देवतानां मध्ये एकैकां त्रिवृतं त्रिवृत- मन्योन्यप्रविष्टां चाकरोत् । एवं ताः अन्योन्यप्रविष्टाः कृत्वाऽग्निसोम- सूर्यादिषु पुनर्विदध इति वक्तव्यम् ।। नन्वन्योन्यप्रविष्टानां तेजोवन्नाख्यदेवतानां पुनरग्र्यादिषु प्रवेशे एकैकत्र कार्यत्रयेण भाव्यम् । तत्कथमित्यतस्तद्वक्तुं प्रतिजानीते - यथा त्विति ।। हे सोम्य इमास्तिस्रो देवताः एकैकाऽप्ययादौ त्रिवृत्त्रिवृद् यथैव भवति येन प्रकारेण भवति तन्मे विजानीहीति होवाच || ३ ||
॥ इति तृतीयः खण्डः ॥