अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः

उपनिषत् ( खण्ड: - ११ )

प्रलये भगवत उदयास्ताभावसमर्थनम्

अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥

न वै तत्र न निम्लोचो नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणा ॥ इति ॥ २ ॥

भाष्यम्

'अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः । आदानाद् वाऽपि देवानामूर्ध्वं गच्छति मण्डलात् ॥ प्राप्य वैकुण्ठलोकं च (१) नोदेत्यस्तं न चैति सः । एकलः प्रलये स्थाता देवता नात्र संशयः ॥ तेन सत्येन न व्यृद्धिमाप्नुयां (२) ब्रह्मणा कचित् । इत्युवाच पुरा ब्रह्मा देवेभ्यः स चतुर्मुखः || एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत् ( २ ) वैकुण्ठधामसंस्थस्य मुक्तस्यानुदयास्तकम् ॥

पदार्थकौमुदी

एवं प्रतिदिनं पूर्वाद्युदयं कुर्वन्नादित्यनामा हरिर्मधुतयोपास्य इत्यु- क्तम् । इदानीं प्रलयेऽपि किमेवमुदयादिकं करोतीत्यपेक्षायां नेत्याह अथ तत इति । प्रसिद्धादित्यपरतानिरासाय खण्डं प्रमाणेनैव व्याचष्टे- अथेति । श्रुतौ कर्तृवाचिपदाभावादादित्यपदानुवृत्तिमभिप्रेत्य भगवति तभिर्वक्ति आदिमूलत इति ॥ आदिकारणत्वादित्यर्थः ।तत ऊर्ध्वः’” इत्यस्य तात्पर्यार्थः - मण्डलादूर्ध्वं गच्छतीति । उदेत्येत्य- स्यार्थः - वैकुण्ठलोकं प्राप्येति । अनेन उद् ऊर्ध्वं वैकुण्ठम् एत्य प्राप्येत्यर्थ उक्तो भवति । " मध्ये " इत्यस्यार्थः - प्रलय इति ।। प्रलय- काल इत्यर्थः । तस्य स्थितिसृष्टिकालमध्यत्वादिति भावः ।

देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणा ' ' इत्यत्र ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विराध्ये यमप्राप्तिर्ब्राह्मणो मा भूदिति व्याख्यानमयुक्तम् । अप्रामाणिकत्वात् प्रमाणविरोधाचेति भावेन तद्- व्याचष्टे - देवता इत्यादिना || देवा इत्यस्यार्थः - देवता इति ॥कदाचन’’इत्यस्य तात्पर्यम् - न संशय इति । तेन सत्येन सत्यवचनेन सत्येन ब्रह्मणेति वा । विराधिषीत्यस्यार्थः - व्यृद्धिं समृद्धिराहित्यं प्राप्नुयामिति(?) || " विराधिषि' इत्यत्र कर्तुरप्रतीतेस्तं दर्शयितुमाह- इत्युवाचेति ॥

"न ह वा अस्मा उदेति न निम्लोचति । सकृदिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद" इति वाक्यम् अन्वयं दर्शयन्नेव मुक्तपरतया व्याचष्टेएतामित्यादिना ॥सकृत्" इत्यस्यार्थः - नित्यमिति ॥ अनुदयास्तकं यथा भवति तथेति क्रियाविशेषणम् । अनेन " न ह वा अस्मा उदेति" इत्याद्युक्तार्थम् ।

Load More