तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासते ..

उपनिषत् (खण्ड: - १० )

ज्ञानिनां देवयानेन ब्रह्मप्राप्तिः

तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्ण आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षडुुदङ्ग् एति मासां स्तान् ॥ १ ॥

मासेभ्यः संवत्सरं संवत्सरादादित्यं आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान् ब्रह्म गमयति एष देवयानः पन्था इति ॥ २ ॥

काम्यकर्मिणां पितृयाणेन स्वर्गप्राप्तिः

अथ य इमे ग्रम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमात् रात्रिं रात्रे परपक्षपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥

तस्मिन् यावत् सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशं आकाशाद्वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते । ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूरचरणाः अभ्याशो ह एते कपूयां योनिमापद्येरञ्च्छ्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥

अथैतयोः पथोर्नैकतरेण च न तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेषश्लोकः ॥ ८ ॥

स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥

अथ ह य एतानेवं पञ्चाग्नीन् वेद न स ह तैरप्याचरन् पाप्मना लिप्यते शुद्धः पूतः पुण्यश्लोको भवति य एवं वेद य एवं वेद ॥ १० ॥ १० ॥

भाष्यम्

'अभ्र धूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः । अभ्रादिमानिरूपं तु ज्ञानप्राप्यं (१) यतो भवेत् ।।' इति च ॥

परम् अस्य जन्यमिति पर्जन्यः । 'पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः । स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे ।। ' इति च ॥ ३-१० ॥

पदार्थकौमुदी

" धूमो भूत्वाऽभ्रं भवति' इत्यादिसामानाधिकरण्यश्रुतेः कर्मिणो धूमादिदेवतैक्यं तत्पदप्राप्तिर्वा कथ्यत इत्याशङ्कां प्रमाणेनैव वारयति - अभ्रेति || अभ्रादिसंस्थितिः । अभ्रादिषु प्रविश्य तद्वतौ गतिः तत्स्थितौ स्थितिरित्यादिरूपतत्स्वाभाव्यापत्तिरेव नत्वैक्यं तत्पदप्राप्तिर्वेत्यर्थः । तथा चोक्तम्तत्स्वाभाव्यापत्तिरुपपत्तेरिति ॥ ( ब्र.सू. ३-१-२३) कुत एवम् ? मुख्ये बाधकाभावात् । अन्यस्यान्यभावायोगेनैक्यायोगेऽपि तत्पदप्राप्त्युपपत्तेरित्यत आह- अभ्रेति ॥ रूपशब्दो धर्मवचनः । तथाचाभ्रादिमानित्वं तत्पदप्राप्तिरिति यावत् । तद्योग्यैरेव ज्ञानप्राप्यं कर्मिणस्तु न ज्ञानमिति भावः ।

पर्जन्यो जनको यस्मात् ' ' इत्युक्तम् । तत्र जनकत्वं कथं पर्जन्यशब्दार्थ इत्यतस्तं स्वयं निर्वक्ति - परमिति ॥ परमुत्तमम् । चतु- र्मुखाख्यं वस्तु अस्य सकाशाज्जन्यमिति पर्जन्यः । तथाच जनकः परस्येति लब्धार्थोक्तिः । अन्येषां शब्दानां प्रमाण एव स्पष्टार्थत्वाद् वाजसनेयक- पञ्चाग्रिविद्याभाष्ये (९) कृतव्युत्पादनत्वाच्च न व्युत्पादनं कृतम् । " तस्याऽदित्य एव समित्" इत्यादौ श्रुता आदित्यादिपञ्चविंशतिशब्दा असौलोकादिपञ्चशब्दाश्च योगेनैव भगवत्परतया व्याख्याताः । तत्र रूढार्थपरित्यागेन योगार्थाङ्गीकारः कुत इत्यतो रूढार्थोऽपि भगवानेवेत्याहपञ्चेति । स्वर्गादौ संस्थितः । शब्दोऽवधारणे । हरिरेव तन्नामा आदित्यादिनामा ॥ खं १० ॥

खण्डार्थः

इदानीं प्रथमतृतीयप्रश्नयोरुत्तरमाह तदिति ॥ तत्तस्मात् काम्यकर्मणो गमनागमनहेतुत्वात् तत्र विरक्ता ये इत्थं पञ्चाग्निविद्योक्तरीत्या भगवन्तं विदुः । ये चेमेऽरण्ये मनोहरप्रदेशे श्रद्धाप इत्युपासते । श्रद्धातपःप्रभृतिनिवृत्तकर्मानुतिष्ठन्ति । ये ज्ञानप्रधानाः ये च कर्मप्रधाना इति यावत् । तेऽर्चिषमभिसम्भवन्ति प्राप्नुवन्तीत्यादि देवयानः पन्था इत्यन्तं व्याख्यातं चतुर्थे ॥ १ ॥ २ ॥

एवं देवयानं ससाधनं निरूप्य पितृयाणं संसाधनं निरूपयति- अथेति ॥ काम्यकर्मिणो ग्रामे इष्टापूर्ते । यजनखाते दत्तं दानं, इतिशब्दः प्रभृत्यर्थः । पितृश्राद्धादिकमुपासते आतिष्ठन्ति ते धूमं धूमदेवतालोक- मभिसम्भवन्ति प्राप्नुवन्ति । धूमाद् रात्रिं रात्र्यभिमानिदेवताम् । रात्रेरपरपक्षं कृष्णपक्षाभिमानिदेवताम् अपरपक्षाद् यान् षण्मासान् दक्षिणा, दक्षिणतः एत्याऽदित्यस्तान्मासान दक्षिणायनदेवतालोकं प्राप्नुवन्ति । ततः संवत्सरागमनं निषेधति - नैत इति ॥ ३ ॥

तर्हि ततः क्व गच्छन्तीत्यत आह- मासेभ्य इति ॥ मासेभ्यो दक्षिणायनसञ्ज्ञकेभ्यः पितृलोकं, पितृलोकादाकाशं विनायकलोकम्, आकाशाच्चन्द्रमसं प्राप्नुवन्ति । (१) काम्यकर्मिगम्यं चन्द्रमसमेव विशिनष्टि - एष इति । एषः चन्द्रः सोमो राजा सोमलताभिमानीत्यर्थः । तदेव देवानामन्नम् अतस्तं चन्द्रं देवा भक्षयन्ति । लताभि- मानित्वेनेयमुक्तिः । अन्नविवक्षया तदिति नपुंसकप्रयोगः ॥ ४ ॥

वेत्थ यथाऽसौ लोको न सम्पूर्यते " इति प्रश्नस्योत्तरमाह- तस्मिन्निति ।। तस्मिंश्चन्द्रलोके कर्मिणो यावत्सम्पातमुषित्वाऽथ कर्मक्षये एतमेवाध्वानं पुनरावर्तन्ते । इदानींवेत्थ यथा पुनरावर्तन्तेइत्यस्योत्तरं वदनेतमेवेत्युक्तं विवृणोति - यथेति । यथा येन मार्गेण स्वयमितं चन्द्रलोकं प्रति प्राप्तं तेनैवाध्वना पुनरावर्तन्त इत्यर्थः । गतेनैव मार्गेणाऽगमनेऽतिक्लेशेन  न स्वर्ग इति वैराग्यं स्यादित्यतो मार्गान्तरं निरूपयति- आकाशमित्यादिना || चन्द्रलोकादागच्छन् आकाशमाप्नोति । आकाशाद् वायुमाप्नोति वायुस्थो भूत्वा धूमस्थो भवतीत्यर्थः(३) ॥

प्रवर्षति वर्षान्तर्गतो भवति । ते कर्मिणः इह लोके केचिद् व्रीहियवाः, केचिदोषधिवनस्पतयः, केचित् तिलमाषाः । इतिशब्दोऽन्योपलक्षणार्थः । जायन्तेऽन्याधिष्ठिते ब्रीह्यादिशरीरे प्रविशन्ति । नतु तदभिमानिनः । तथाचोक्तम्– “अन्याधिष्ठिते पूर्ववदभिलापात् ' ' ( ब्र.सू. ३-१-२५) इति । अतो व्रीह्यादिभावानन्तरं खलु दुर्निष्प्रपतनं नितरां दुष्टपतनं भवति वै । तदेव विशदमाहय इति ।। यो यः पुरुषो ह्यन्नमत्ति यच्च रेतः सिञ्चति तद्भूय एव भवति । तमेवानुप्रविशति ।। ६ ।।

तत्ततस्तत्र कर्मिषु ये रमणीयचरणाः साधुयज्ञादिमन्तस्ते इह भूमौ रमणीयां योनिमापद्येरन् । आपद्येरन्निति यत् तच्चाभ्याशः कालसामीप्ये- नेत्यर्थः ।स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात् पूर्वमेव तु । मातुः शरीर- माप्नोति" इति वचनात् । " रमणीयां योनिम्" इत्युक्तं विशदमाह- ब्राह्मणयोनिमित्यादिना ॥ अथेत्यादिकं समानम् । कपूयचरणाः असाधुयज्ञादिमन्तः ॥ ७ ॥

नन्वस्तु ये विद्यामार्गाः कर्ममार्गा वा तेषामुक्तरीत्या ब्रह्मचन्द्रप्राप्तिः । येषां तदुभयमपि नास्ति तेषां का गतिरित्यत आह- अथेति । एतयो रुक्तयोः पथोर्विद्याकर्ममार्गयोर्मध्ये यान्येकतरेणापि पथा न गच्छन्ति तानीमानि क्षुद्रमिश्राणि अल्पानि सुखदुःखमिश्राणि असकृदावर्तीनि सदागत्यादिमन्ति जायस्व म्रियस्व पुनः पुनर्जायन्ते म्रियन्ते च । इत्येतत्स्वर्गापवर्गयोरन्यत् तृतीयं स्थानमित्यर्थः । ततश्च यथाऽसौ लोको न सम्पूर्यते" इति प्रश्नोत्तरं जातमित्याह-- तेनेति ॥ केषाञ्चित् तत्र गमनाभावात् गतानामपि पुनरावृत्तेरसौ लोको न सम्पूर्यत इत्यर्थः । यदर्थं गत्यादिनिरूपणं तदाह - तस्मादिति ॥ यस्मादेवं ज्ञानमार्गादन्यत्र गतागतादिक्लेशस्तस्मात् तत्र जुगुप्सेत विरक्तो भवेदित्यर्थः । पञ्चाग्निविद्यावेत्तुः पातकिसंसर्गदोषाभावं फलं वक्तुं तत्संसर्गस्य दोषत्वे श्लोकं प्रमाणयति - तदिति । तत्तत्राभिप्रेते पातकसंसर्गस्य तत्सदृशदोषित्वे एषः वक्ष्यमाणः इलोको भवति । तमेव पठति - स्तेन इति ।। इत्येते चत्वारः पतन्ति । पञ्चमश्च तैः सहाऽचरन् (२) पतति ॥८- ९ ॥

किं तत इत्यत आह- अथेति । य एतानेवं पञ्चाग्नीन् वेद स तैश्चतुर्भिः पातकिभिः सहाऽचरन्नपि पाप्मना न लिप्यते । न केवलमेतावत् । य एवं वेद शुद्धः पूतः अन्तर्बहिश्च शुद्धः, स्वयं शुद्धः पावयत्यन्यानिति पूत इति वा । निवृत्तपुण्यसाध्यो लोकः प्राप्यो यस्यासौ पुण्यलोको भवति । तथाचोक्तम्- द्विपर्जन्यधरा पुंस्त्रीसंस्थितं पञ्चरूपिणम् । नारायणं वासुदेवं तथा सङ्कर्षणं प्रभुम् ।। प्रद्युम्नं चानिरुद्धं च क्रमाद् ध्यायंस्तु सर्वदा । पञ्चाग्निविन्नाम भवेत् स याति परमं पदम् । नास्य संसर्गदोषोऽस्ति कदाचन भविष्यति ।। " इति ।। १० ।

।। इति दशमः खण्डः ॥ १० ॥