अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन ..

उपनिषत् (खण्डः - ९ )

मधुनामकानिरुद्धोपासनाफलम्

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन नबै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति।१ ।।

त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ।। ३ ।।स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता॥ ४ ॥ ९ ॥

भाष्यम्

चतुर्थस्य तु सोमाद्या मरुतः ..... Il

पदार्थकौमुदी

अथ यच्चतुर्थममृतम्’”इत्यादेः " उद्यन्ति ' इत्यन्तस्य तात्पर्य - माह - चतुर्थस्य त्विति ।। द्रष्टार इत्यादिकमनुवर्तते । " सोमाद्या: " इत्यनेन "सोमेन मुखेन' इत्येतदुक्तार्थम् || नवमः खण्डः ।।

खण्डार्थः

चतुर्थममृतम् अनिरुद्धाख्यम् ।

।। इति नवमः खण्डः ।।