यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति ..

उपनिषत् (खण्डः-१८)

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ।। १ ।। १८ ।।

भाष्यम्

विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः ।

पदार्थकौमुदी

ननु सत्यो न 'विष्णुः तदुपर्यपि विज्ञानमतिश्रद्धानिष्ठाकृति- सुखभूमाहङ्कारात्मनामुक्तत्वादित्यतस्तान्यपि प्रकरणानि विष्णुपरतयैव योजयन् विज्ञानमतिशब्दयोरर्थभेदमाह - विशिष्टेति ॥