मघवन् मर्त्यं वाव इदं शरीरमात्तं मृत्युना ..

उपनिषत् (खण्डः - १२)

सति शरीराभिमाने दुःखमवर्जनीयम्

मघवन् मर्त्यं वाव इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥

भाष्यम्

उक्तो ब्रह्माऽब्रवीच्छक्रं ज्ञापयंस्तत्त्वमञ्जसा । योऽयं शरीरसम्बन्धी जीव इत्यवधार्यताम् ॥ भूतैष्यद्वर्तमानेषु यस्य नो देहसङ्गतिः । (१) सोऽशरीरः परो विष्णुरमृतो नित्यपूर्तिमान् ॥ अधिष्ठाय तथाsपीमं देहमास्ते स ईश्वरः । जरामृत्युपरीतोऽयं जीवात्मा देहसङ्गतेः ॥ परेणेयं सुखं प्रोक्तं प्रियमित्येव पण्डितैः । परेणेयमभद्रं यदप्रियं तदुदीरितम् ॥ न जीवस्य तयोर्हानिः कदाचिद् विद्यते कचित् ( २ ) | अशरीरं परं ब्रह्म नैव ते स्पृशतः कचित् ॥

पदार्थकौमुदी

‘“मघवन्मर्त्यं वाव'' इत्याद्युपदेशस्य पूर्वोपदेशसाधारण्यं परिहरन् तात्पर्यमाह– (१) इत्युक्तमिति ॥ अञ्जसा सम्मुग्धोक्तिं विना स्पष्ट- वचनेन ।मघवन्मर्त्यं बाव'" इत्यत्रेदं शरीरमित्येतद् व्याचष्टे- योऽयमिति ॥ योऽयं जीवः सः शरीरसम्बन्धीत्यवधार्यताम् । अनेनेदं श्रुतिजातं शरीरं शरीरसम्बन्धीति व्याख्यातं भवति । " अशरीरस्य " इत्युक्तमशरीरत्वं कथं परमात्मलक्षणम् ? मुक्तेऽतिव्याप्तेरित्यत आह- भूतेति ।। स्वत इति शेषः । तेन रमाव्यावृत्तिः । विष्णुर्व्याप्त इत्यात्म- शब्दव्याख्यानम्। ‘‘अमृतस्य'" इत्युक्तममृतत्वमपि मुक्ते गतमत आह- अमृत इति ॥ कालत्रयेऽपि स्वत एवाऽविर्भूतमूर्तिमानित्यर्थः । तदस्याs- त्मनोऽधिष्ठानमित्येतद् व्याचष्टे - अधिष्ठायेति । तथाऽपि अशरीरा- दित्वेऽपीत्यर्थः । यद्यपि पूर्वं शरीरशब्दस्तत्सम्बन्धिलक्षक इत्युक्तम् । तथाऽप्यत्र शरीरमेव तदिति परामृश्यत इति भावेनोक्तम् - देहमिति ॥ शरीराधिष्ठातृत्वोक्त्या जीववज्वरादिपरीतत्वं स्यादित्याशङ्कां परिहरति- ईश्वर इति ॥ यतोऽतो जरादिदोषरहित इति शेषः । तर्हि जरादिपरीतः क इत्याशङ्कायां मर्त्यमित्युक्तमर्त्यत्वोपपादनाय प्राप्तस्य "आत्तं मृत्युना " इति वाक्यस्योपलक्षणत्वाभिप्रायेण तात्पर्यमाह - जरेति ॥ अयं जीवात्मेत्यनेनेदमित्येतदत्राप्यन्वितमिति सूचयति । देहसङ्गतेर्देहाभि- मानादित्यनेन शरीरपदोक्तं शरीरसम्बन्धित्वमत्र हेतुतया विवक्षित - मित्युक्तं भवति ।

प्रियाप्रियात्तत्त्वानात्तत्त्वाभ्यां जीवपरमात्मवैलक्षण्यं वक्तुम् "आत्तो वैइत्यादि प्रवृत्तम् । तद्व्याख्यातुं तावत् प्रियाप्रियशब्दार्थावाह- परेणेति ॥ परेणान्येनेयं प्राप्यं परमात्माधीनमिति यावत् । अत्र प्रिय- शब्देन रूढ्या सुखमात्रग्रहणे प्रियापहतिराहित्यं परमात्मन्यप्यस्तीति न जीवस्यायं विशेषः स्यात् । अतो योगाश्रयणेन परेणेयमित्युक्तमिति ज्ञातव्यम् | अकारलोपश्छान्दस इति भावः । अशब्दः प्रतिषेधार्थकोऽ- भद्रवाची प्रियमित्यस्य च परनिपातः इति भावेनोक्तम्- परेणेयम- भद्रमिति ॥ अप्रियापहतिशून्यत्वं स्वातन्त्र्येण जीवे न सम्भवतीति दर्शयितुमत्रापि योगाश्रयणमित्यवधेयम् । इदानीं 'न हवैइति वाक्या- माह - नेति ॥ मुक्तेष्वप्युक्तं प्रियमस्त्येवेति भावः । " अशरीरं वाव" इति वाक्यं व्याचष्टे - अशरीरमिति । ते प्रियाप्रिये । वावेत्यस्यार्थः - एवेति ॥

Load More