श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो ..

अथ षष्ठाध्यायस्य प्रथमः खण्डः

उपनिषत्

श्वेतकेतुवृत्तान्तः

ॐ श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥

श्वेतकेतोरहङ्कारपरिहारः

स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तं ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥ २ ॥

येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥

भगवति विज्ञाते सर्व विज्ञातप्रायमिति निरूपणम्

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् ॥ ५ ॥

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६ ॥

न वै नूनं भगवंस्तस्य एतदवेदिषुर्यद्ह्येेतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवांस्त्वेव मे तद्ब्रवीत्विति यथा सोम्येति होवाच ॥ ७ ॥ १ ॥

भाष्यम्

अधीत्यब्दद्वादशत्व् द्वादशाब्द इतीरितः । श्वेतकेतुर्भारते तु नोत्पत्तिद्वादशत्वतः ।।' इति वाक्यनिर्णये ।

पदार्थकौमुदी

|| || तस्मै नमो भगवते चिदचित्परमाय ते ॥ पुरुषोत्तमाय देवाय पूर्णानन्दैकरूपिणे ॥ १ ॥

पूर्वं जीवजडात्मकात् प्रपञ्चात् परमार्थत एवात्यन्तभिन्नं निखिलगुणोदारं सर्वोत्तमं भगवन्तं जानतां मोक्षतदितरफलका उपास्तय उक्ताः । तत्र जीवेश्वरभेदविषये यः सन्दिग्धो विपर्यस्तो वा तं प्रति स भेदो युक्तिभिः साध्यतेऽनेन पष्ठप्रपाठकेन । तत्र तावच्छ्रेतकेतुं निमित्तीकृत्य जीवानां भगवता भेदं बोधयन् भेदबोधनस्याभेदप्रसक्तिं विनाऽयोगात् तत्पूर्वकं भेदं समर्थयते - श्वेतकेतुरित्यादिना ॥

ननु चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य एयायेत्यनुपपन्नम् ।सर्वान् वेदान् श्वेतकेतुरधीत्य द्वादशाब्दकः । पितुः समीपमेयाय" इत्यादौ भारतबाक्येऽध्ययनं समाप्य पुनरागतस्यापि श्वेतकेतोरुत्पत्त्यपेक्षयैव द्वादशाब्दत्वप्रतीतेरित्यतस्तदभिप्रायं प्रमाणेनैवाञ्छ- अधीत्यब्देति ॥ अध्ययनं समाप्य पुनरागतोऽपि श्वेतकेतुरधीत्यब्दानां द्वादशत्वाद् द्वादशाब्द इतीरितः । नोत्पत्त्यपेक्षयाऽब्दानां द्वादशत्वात् । अत एव द्वादशवर्ष उपेत्य चतुर्विंशतिवर्ष इत्युक्तम् ।

Load More