अथ होवाच जनं शार्कराक्ष्यं ..

उपनिषत् ( खण्ड: - १५ )

वैश्वानरस्य शरीरमध्यभाग आकाशनामक इति निरूपणम्

अथ होवाच जनं शार्कराक्ष्यं शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुलं आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥

अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्दोहस्त्वेष आत्मन इति होवाच सन्दोहस्त व्यशीर्यद्यन्मां नागमिष्य इति ॥ २ ॥ १५ ॥

भाष्यम्

................बहुत्वाद् बहुलः स्मृतः । आकाशनामा चाs दीप्तेर्मध्यदेहो रमापतेः ॥

पदार्थकौमुदी

जनं शार्कराक्ष्यम्इति खण्डतात्पर्यमाह - बहुत्वादिति ।।

खण्डार्थः

आकाशमाकाशस्तमादीप्तेराकाशनामकमेव । बहुत्वाद् बहुलः । प्रजया च धनेन च । बहुलः प्रभूतोऽसि ॥ १ ॥

सन्दोहो मध्यदेहः || |

॥ इति पञ्चदशः खण्डः ॥