सर्वं खल्विदं ब्रह्म
उपनिषत् (खण्डः - १४ )
हर्युपासना
सर्वं खल्विदं ब्रह्म । तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥
भाष्यम्
'इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः । तच्च ब्रह्म जलान् साक्षाद् योऽसौ विष्णुर्जलेऽनिति ( ९ ) ॥ आनीदवातमिति यं वेदवागवदत् स्फुटम् । अप्रकेते तु सलिले ब्रह्मा नारायणो हि ( २ ), सः ॥ इति शान्त उपासीत यस्माज्ज्ञानमयः पुमान् । क्रतुस्तु निश्चितं ज्ञानं(३) तद्वशः पुरुषोऽमृतौ ॥ तस्माद् विनिश्चितं ज्ञानं कुर्याद् विष्णौ महगुणे (९) । महाज्ञानात्मकत्वात्तु प्रोक्तो विष्णुर्मनोमयः ।। यस्माद् बलशरीरोऽसावतः प्राणशरीरकः ।
आसमन्तात् प्रकाशात् स आकाशात्मा प्रकीर्तितः ॥ सर्वगन्धादिरूपश्च भोक्ता चैषां सदैव हि । इति निश्चयकृद् याति तमेव पुरुषोत्तमम् ॥' इति सद्गुणे ।
पदार्थकौमुदी
हृद्गतस्यैवोपास्त्यन्तराणि दर्शयन् " तद् यदिदमस्मिन्नन्तः पुरुषे ज्योति : " इति हृद्गतेन बहिष्ठस्यैक्यमुक्तम् । तद्धृद्गतस्याणुत्वेन बहिष्ठस्य व्याप्तत्वेन नोपपन्नमित्याशङ्कामपि हृद्गतस्य व्याप्तत्वोपपादनेन परिहरति - सर्वं खल्वित्यादिना ॥ तत्र सर्वं समस्तम् इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह- तज्जलानि - तीति । तस्माद् ब्रह्मणो जातमतस्तज्जं, तथा तस्मिन्नेव ब्रह्मणि लीयतेऽतस्तल्लं, तथा तस्मिन्नेव काले निति प्राणिति चेष्टतेऽतोऽनित्येवं ब्रह्मात्मतया त्रिषु कालेषु विशिष्टम् । तदूव्यतिरेकेणासदतस्तदेवेद- मित्यादिपरकीयं व्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेत्याशयेन खण्डं प्रमाणेनैव व्याचष्टे इदं ब्रह्मेत्यादिना ॥ ब्रह्मं सर्वान्तस्थत्वेनाति- सामीप्यादिदमित्युच्यत इत्यर्थः । सर्वमित्युच्यते । तदित्यनू व्याख्यानम् | चोऽवधारणे । तेन तद्ब्रह्मैव जलान् न जगदिति परोक्त- व्यावृत्तिः ।
ननु जगदपि ब्रह्मगं परम्परया जलानित्यत उक्तम् - साक्षादिति ॥ अव्यवधानेनेत्यर्थः । नात्र ब्रह्मशब्देनामुख्यार्थविवक्षेति दर्शयन् जलान् शब्दं निर्वक्ति - योऽसाविति । यो विष्णुरसौ जलेsनिति चेष्टते यतोऽतो जलानित्युच्यत इत्यर्थः । विष्णुर्जलेऽनितीति कुत इत्यतस्तत्र श्रुतिं प्रमाणयन्नाह - आनीदवातमिति ।। तुशब्द एवार्थे । यं “ आनीद- वातम्’” इति वेदवाक् स्फुटं निरवकाशतयाऽवदत् स ब्रह्मैव । कथमित्य तोऽन्यस्मिन्नेतद्वाक्यतात्पर्यासम्भवादित्याशयेनोक्तम् – अप्रकेतेऽपरि- मिते सलिल इति ॥ नह्यगाधे चेतनप्रकृत्यात्मनि प्रलयजलेऽन्यस्य सुखेनावस्थानं सम्भवतीति ।
अयं मन्त्रार्थः । प्रलयकाले तदेकं सर्वोत्तमम् अवातं वातप्रेरणया विनैव स्वधया सुखेनैव, नतु सुखप्राप्त्याद्यर्थम् आनी अष्ट । तस्मादन्यत् परः परं किश्चन नास । तमश्चेतनप्रकृत्यात्मकमग्रे प्रलये आसीत् । यत्तमोऽप्रकेतमपरिमितं सलिलं भूत्वाऽऽसीत् तेनेदं सर्वं गूहं गूहितमासीदिति । तत्रैव प्रमाणान्तरमप्याह – नारायणोऽपीति । स विष्णुर्नारायणशब्दवाच्योऽपि इत्यर्थः । नारायणशब्दवाच्यश्च " आपो नाराः" इत्यादिना प्रलयार्णवशाय्येव प्रसिद्ध इति भावः ।
हृद्गतस्यैवोपास्त्यन्तरविधायकं “ अथ खलु क्रतुमयः पुरुषः " इत्यादिवाक्यं तदप्रतीतेर्व्याचष्टे – यस्मादित्यादिना ॥ अनेन खलुशब्दो हेत्वर्थं इत्युक्तं भवति । अस्य तस्मादित्युत्तरेणान्वयः । हेतुहेतुमद्भावोप- पादनाय क्रतुमयत्वं विशदयितुं " यथा क्रतुः " इत्यादिवाक्यम् । तस्य कर्मविशेषार्थत्वप्रतीतिनिवारणाय क्रतुशब्दार्थं दर्शयंस्तात्पर्यमाह- क्रतुस्त्विति ॥ तुशब्द एवार्थे । निश्चितं ज्ञानमेव, नान्यदिति । मृतौ मुक्तौ । तादर्थ्ये सप्तमी । स्वयोग्यज्ञानाधीनमुक्तिमानिति यावत् । स क्रतुं कुर्वीत" इत्यस्य तात्पर्यमाह - तस्मादिति ॥ विष्णाविति शेषो- क्तिः । तथाच पुरुषोऽधिकारी यस्मात् क्रतुमयः स्वयोग्यज्ञानानुसारि- फलवान् तस्माद् विष्णौ क्रतुं स्वयोग्यतानुसारेण निश्चयज्ञानरूपोपासनां कुर्वीत । अन्यथा स्वयोग्यफलालाभादित्युक्तं भवति । " महागुणे " इत्यनेन ‘‘मनोमयः” इत्यादेरुत्तरग्रन्थस्योपासनाविषयविष्णुविशेषगुण- प्रतिपादकत्वेन सङ्गतिरुक्तेति ज्ञातव्यम् । “ मनोमयः" इत्यादिकम- प्रतीतेर्मनोविकारित्वादिप्रतीतेश्व व्याचष्टे - महाज्ञानेत्यादिना ॥ मयटः प्राचुर्यार्थत्वं स्वरूपार्थत्वं चेत्याशयेन “महाज्ञानात्मकत्वात्’’इत्युक्तम् । तुशब्दोऽवधारणार्थः । नतु मनोविकारित्वादिति । "आ" इत्यनुवादेन ‘“समन्तात्’’इति व्याख्यानम् । अवशिष्टस्य तात्पर्यम् – सर्वगन्धादि - रूपचेति ॥ पुनरुक्तस्य " सर्वकर्मा सर्वकाम: "इत्यादेस्तात्पयम्- भोक्तेति ।। “एतमितः प्रेत्य" इत्यादैस्तात्पर्यमपेक्षितं पूरयन्नाह - इतीति ॥ ‘“तमेव याति” इति श्रुतौ शेषोक्तिः ।