य एष स्वप्ने महीयमानश्चरत्येष आत्मेति ..

उपनिषत् ( खण्ड: - १० )

तत्त्वज्ञानप्राप्तौ योग्यताऽऽवश्यकीति कथनम्

य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥

न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीति ॥ २ ॥

स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति स होवाच तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥

न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ४ ॥ १० ॥

भाष्यम्

तद्योग्यान्येव वाक्यानि ब्रह्माऽप्याह पुनः पुनः । गरीयसी योग्यतेति ज्ञापयन् पूर्ववत् पुनः ।।

सन्दिग्धान्येव वाक्यानि प्रोवाचेन्द्राय चात्मभूः । स्वप्नं प्रदर्शयन् यस्तु पूज्यते सर्वदैवतैः ।।

स एव विष्णुरित्याह तत्राप्याह पुरन्दरः । दर्शयन्नासुरीं बुद्धिं स्वप्नदृश्यविवक्षया । प्रन्तीवैनमदन्तीव तथा न स्यात् परो हरिः ।। खण्डः १० ॥

पदार्थकौमुदी

नन्वयोग्यस्य विरोचनस्यापगतत्वादिन्द्रस्य च योग्यत्वात् तं प्रत्यपिय एष स्वप्ने महीयमानश्चरति ' ' इति किमर्थं सम्मुग्धतया ब्रह्मोपदेश इत्यत आह - तद्योग्यान्येवेति || मोहयोग्यान्येव । दोषदर्शने योग्यतैव गरीयसी ।य एष स्वप्ने महीयमानः '' इत्युपदेशाभिप्रायमाहस्वप्न- मिति ।।सहाप्राप्यैव देवान्' ' इत्यादिवाक्यतात्पर्यमाह - तत्रापीति ॥ स्वप्नदृश्यविवक्षया स्वप्ने प्रतीयमानजीवशरीरविवक्षयेत्यर्थः ॥ दशमः खण्डः ।। १० ।

खण्डार्थः

एषः कण्ठदेशस्थः स्वप्ने जीवस्य स्वप्नावस्थायां महीयमानः इन्द्रियदेवैः प्राणादिभिः पूज्यमान एव चरति । चारयत्यवगमयति स्वसृष्टान् गज- तुरगादीन् जीवेन स्वयं चावगच्छति । एषः एवंविधमाहात्म्यः आत्मा मदुक्तः " एतदमृतम्'' इत्यादि पूर्ववत् । एवं ब्रह्मोपदेशेन स्वप्नावस्थाप्रेरकं ब्रह्माभिप्रेतमात्मानं सम्यग् ज्ञात्वा आपाततः प्रतीयमानं स्वाप्न- शरीरावच्छिन्नस्यापहतपाप्मत्वादिगुणकात्मत्वं न युक्तमित्युपपादयति सहाप्राप्येत्यादिना ।। तदिदं शरीरं स्वाप्नपदार्थद्रष्टृजीवशरीरं बाह्यं यदपि यद्यपि सः स्वने प्रतीयमानो वासनामयदेहोऽनन्धादिर्भवति । यतोऽतोनैवैषोऽस्यइत्यादीति हेतुहेतुमद्भावेन योज्यम् ॥ १ ॥

नेन प्रतिविम्बस्य ब्रह्मतापक्षे यो दोषोऽभिहितः सोऽत्र यद्यपि नास्तीत्युक्तं भवति । अस्य द्रष्टृजीवशरीरस्य दोषेण हस्तादिच्छेदरूपेण । तथाऽपि दोषान्तरमस्तीत्याह न्तीति ॥ अस्याऽदौ तथाऽपीति ग्राह्यम् । एनं स्वप्ने प्रतीयमानदेहावच्छिन्नमेव । अन्ये चोराः । तु विशेषेण ।एवशब्द इवार्थे । घ्नन्तीव विच्छादयन्तीव विशेषेण च्छादयन्ति गर्तादौ । " विच्छाययन्ति" इति पाठे विगतच्छायं कुर्वन्तीत्यर्थः । अप्रियवेत्ता दुःखजनकविषयभोक्ता । अपि दोषान्तरमपि । अत्र सर्वत्र बाह्यवैल- क्ष्यण्यादिवशब्दः । इति भयं ददर्शेत्यन्वयः ।। २ ।।

अतो न स्वप्ने प्रतीयमानवासनामयदेहावच्छिन्नस्यापहतपाप्मत्वादि- गुणकात्मत्वं ब्रह्माभिप्रेतम् । किन्तु स्वाप्नानेकपदार्थनिर्मातुः प्राणादि- पूज्यस्य तैजसस्यैवेति निश्चित्येममर्थं ब्रह्मणे निवेद्य तन्मुखेनाप्या- पातप्रतीतोऽर्थो न मदभिप्रेत इति दृढीकर्तुं सुप्त्यवस्थाप्रेरकत्वरूप- माहात्म्यान्तरं श्रोतुं चेन्द्रः पुनरागत इत्याह स समित्पाणिरित्या - दिना ॥ शिष्टं समानम् । अत्र यद्यपीन्द्रेण ब्रह्मसमीप एव स्थित्वाऽऽपातप्रतीतार्थदूषणादिकं कर्तुं शक्यम् । तथाऽपि किञ्चिद् दूरं गत्वा तत्र दोषदर्शनेन पुनरागत इत्यादिकथनमिन्द्रेण कथञ्चिदेवेदं ज्ञातमित्यसुरमोहनायेति भाष्ये स्पष्टम् ।। ३-४ ।।

॥ इति दशमः खण्डः ।।