जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुवाक्य आस

अथ चतुर्थाध्यायस्य प्रथमः खण्डः

उपनिषत्

जानश्रुतेरुपाख्यानम्

॥ हरिः ॐ ॥ जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुवाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे सर्वत एव मेऽत्स्यन्तीति ॥१॥

अथ ह हंसा निशायामतिपेतुस्तद्धैवं हंसो हंसमभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ३ ॥

यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥

रैक्वमुनेरन्वेषणम्

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संिजहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ५ ॥

यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स सर्वं मयैतदुक्त इति ॥ ६ ॥

स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येया तं स होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छेति ॥ ७ ॥

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा३ इति ह प्रति जज्ञे स ह क्षत्ताऽन्विष्याविदमिति प्रत्येयाय ॥ ८ ॥ १ ॥

भाष्यम्

॥ हरिः ॐ ॥ भल्लाक्ष मन्दाक्ष । यथा कृते जिते त्रेतादिजयफलं च तस्यैव भवति(१)। एवमन्येषां पुण्यफलं प्राधान्येन तस्यैव भवति अरे अङ्ग, इष्ट । सयुग्वा रैक्वो ज्ञातव्यः | अहं रा ३ इति प्लुतिः पामकषणभावेन || १॥

पदार्थकौमुदी

अपरं ब्रह्म वायुं च परं ब्रह्म सुखाधिकम् । वासुदेवादिरूपं च वामनं चानिशं भजे ॥ १ ॥

पूर्वं मधुगायत्र्यादिविद्याः परब्रह्मविषया निरूपिताः । अत्र पुनः परापरब्रह्मविद्यामेव वक्तुमयमध्यायः प्रवर्तते । तत्रादौ परापरब्रह्मविषयां संवर्गविद्यां वक्तुम् आख्यायिकामाह - जानश्रुतिरित्यादिना खण्ड- द्वयेन ।। अत्र भद्रं सारासाराभिज्ञम् अक्षम् इन्द्रियं यस्यासौ भद्राक्ष इति कश्चित् । तदसत् । श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । भल्लाक्षेत्यस्यैवायमर्थ इत्यङ्गीकारे निन्दाप्रकरणविरोधात् ।भल्लाक्षेति मन्ददृष्टित्वं सूचय- नाह'' इति त्वद्भाष्यविरोधाच्चेति भावेन तदनूद्य व्याचष्टे - भल्लाक्षेति । जानश्रुतेर्ज्योतिरतिक्रम्य गमने तव प्राप्तं दाहं न जानासीति भावेन मन्दाक्ष इति सम्बोधित इति भावः । तथाचोक्तं गीतामाहात्म्ये-

"प्रकाशमानं पुरतस्तेजःपुञ्जं न पश्यथ । जानश्रुतेर्महीभर्तुः पुण्यकीर्तेरिति स्फुटम् ॥इति ।यथा कृतायइत्यादिकमेवं व्याचक्षते । द्यूते प्रवृत्तानां ये दीर्घदन्तादिमया अक्षास्तेषु चतसृषु दिक्षु चत्वारोऽङ्का भवन्ति । एकाङ्को द्वयङ्कस्त्र्यङ्कश्चतुरङ्कः इति । ते चैकाधिकत्वसामान्यात् कलिद्वापरादिनामानः । तथाच द्यूते कृताय चतुरङ्काय विजितायाधरेयास्त्रिद्वयेकाङ्कास्त्रेतादिनामानः संयन्त्यन्त- र्भवन्तीति तदसत् । कृतशब्दस्य प्रसिद्धकृतयुगार्थत्वग्रहणे बाधकाभावेन द्यूताभिनिवेशेनैवं श्रुतिव्याख्यानायोगात् । परित्यज्यान्यानि निदर्शनानि द्यूतदृष्टान्तग्रहणायोगाच्च । नचाक्षेषु शौण्डा राजानोऽतोऽक्षगतचतु- रङ्कनिदर्शनेनैव जानश्रुतिबोधनाय हंसो हंसं सम्बोधितवानिति वाच्यम् । जानश्रुतेः परमधार्मिकत्वेनाक्षासक्तत्वाभावात् । हंसाश्च देवा वा ऋषयो वा जानश्रुतिकृतान्नदानेन तुष्टाः समागता इति त्वयाऽपि व्याख्यातत्वेन तेषामज्ञानासम्भवाच्चेति भावेन स्वयं तद्वाक्यं व्याचष्टे - यथेति ॥ कृते (१) कृतयुगधर्मे प्राप्तफले सति अनेन चतुर्थी सप्तम्यर्थेत्युक्तं भवति ।अधरेयास्त्रेतादयःइति पदार्थमभिप्रेत्योक्तम्- त्रेतादिजयफलमिति ।। तस्यैव जितकृतधर्मस्यैव । प्रधानजयेऽप्रधानजयस्य सिद्धत्वादिति भावः । ‘“एवमेनं सर्वं तदभिसमेति" इति दाष्टन्तिकवाक्यं प्रजानां किमपि साधुकर्म नास्तीति प्रतीतिं निवारयन् व्याचष्टे एवमिति ॥

स्वाम्यधिकरणन्यायादिति भावः । " अङ्गारे ह स युग्वानमिव रैक्वमात्थ इतिइत्यत्रानन्वयशङ्कां वारयितुमङ्गार इत्येतद्व्याकुर्वन्नपेक्षितं पूरयति अरे इति ॥अङ्गइत्यनुवादेन " इष्ट" इति व्याख्यानम् ।स युग्वा’” इत्यध्याहारः । तथाच कुतोऽसौ ज्ञातव्य इत्याकाङ्क्षायां यतःस युग्वानमिव रैक्वमात्थइति हंसेनोक्तमिति न तस्यासङ्गतिरिति भावः । "अहं ह्यरा३" इति प्लुतिरनादर इति व्याख्यानमसत् । अनहङ्कारेण मुनिना वृथा विनयोपागततदनादरकरणायोगादिति भावेन तदभि -प्रायमाहअहं हीति ।पामानं कषमाणमिति प्रकृतत्वादिति भावः ।।

खण्डार्थः

जनश्रुतस्य पुत्रो जानश्रुतिः । हेत्यैति । पुत्रायणगोत्रापत्यं पौत्रायणः। श्रद्धया देयं यस्यासौ श्रद्धादेयः बहु ( ) प्रभूतं दातुं शीलमस्येति बहुदायी, बहुपाक्यो अहन्यहनि अन्नार्थिभ्यो बहुपक्तव्यवान्, प्रतिष्ठानपुरे राजाऽऽस |

अस्ति गोदावरीतीरे प्रतिष्ठानं पुरं महत् । तत्र जानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् ॥इति वचनात् । स जानश्रुतिः सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु चाऽवसन्त्ये- ष्वित्यावसथास्तान् मापयाञ्चक्रे कारयामास । जनाः सर्वत एल्य मे ममान्नं तेष्वावसथेषु वसन्तोऽत्स्यन्ति भोक्ष्यन्तीति बुद्धया ॥ १ ॥

तत्रैवं सति तस्मिन् राज्ञि अत्युच्चसौधभवनमधिरुह्य स्थिते सत्यथ हंसाः देवहंसाः निशायाम् अन्तरिक्षमार्गेणातिपेतुः विनिर्गताः ।ततोऽन्तरिक्षमार्गेण यूथानां पक्षसंहिताः । मृणालचञ्चवो देवि देवहंसा विनिर्गताः ।। " इति वचनात् । अत्राऽह- ‘“त्वरया गच्छतां तेषामन्योन्यं मर्मभाषिणाम् । भल्लाक्षप्रमुखाः द्वित्राः पुरस्तान्निर्ययुर्जवात् ॥इति वक्तव्यम् । तत्तदा हंसो हंसम् अभ्युवाद | ‘“पाश्चात्यहंसाः ऊचुस्तान् पुरतो गच्छतो जवात्" इत्यर्थः । होहोयीति सम्बोध्य भल्लाक्ष भल्लाक्ष मन्दाक्ष मन्दाक्ष । कुतो मन्दाक्षत्वमित्यत आहजानश्रुतेरिति । जानश्रुतेः पौत्रायणस्य ज्योतिः प्रकाशमानं तेजःपुञ्जं दीपाध्वररूपं दिवा सममाततम् । तदपि त्वं न पश्यसीति भावः । यथोक्तम्यस्य दीपाध्वरे धूमैः श्यामलाः कल्पशाखिनःइति तज्ज्योतिस्त्वामतिक्रम्य गच्छन्तं मा प्रसाङ्क्षीः मा प्रसाङ्क्षीत् । सम्बद्धं मा भूत् । मा प्रधाङ्क्षीः मा प्रधाङ्क्षीत् । मा दहतु । तज्ज्योतिरतिक्रम्य गमने त्वां सम्बध्य दहेदिति भावः । इत्यभ्युवादेति सम्बन्धः ॥ २ ॥

तं हंसं प्रति परोऽग्रगामी हंसः उच्चैः प्रत्युवाच । यथोक्तम् ।हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः" इति । अरे हंसैतद्वचनं कमेनमुद्दिश्या- त्थ । सन्तं निर्दुष्टं सयुग्वानं सशकटं रैक्वमिवेति । अननुरूपमस्मिन्नुक्तमेवं वक्तुं रैक्व एव योग्य इति भावः । एवमुक्त इतर आह - य इति । नु इदानीं यस्त्वयोक्तः सयुग्वा रैक्वः स कथम् ? किंमाहात्म्यवानिति ।। ३ ।।

पृष्टोऽपर आहयथेति । यथा कृताय विजिताय कृतयुगे विजि सत्यधरेयास्त्रेतादयः संयन्ति । त्रेतादिजयफलं च तस्यैव भवति । एवमेनं रैक्कं यत्किञ्च प्रजाः साधु कुर्वन्ति सर्वं तदभिसमेति ( ९ ) प्राधान्येन । सर्वविघ्ननिवारके महामुनौ तस्मिन् राष्ट्रे वसति सति सर्वाभिः प्रजाभिः निर्विघ्नेन (२)साधुकर्मकरणेन प्राधान्यात् तत्फलं भवति । स्वाम्यधिकरण- न्यायादिति भावः । प्राधान्यमेवाऽह - यस्तद्वेदेति । यः कोऽप्यधिकारी यज्ज्ञातव्यं वेद तत्सर्वं स रैक्वो वेदेत्यर्थः । उपसंहरतिस इति ॥ स रैक्वो मयैतदेतेन प्रकारेणोक्त इति ॥ ४ ॥

एवं पुरोहंसेनोक्ते सति तदु तत्सर्वं जानश्रुतिः पौत्रायणः उपशुश्राव ह । ततः स श्रुतहंसकृतानादरः सञ्जिहान एव शयनीयादुत्तिष्ठन्नेव क्षत्तारं सारथिमुवाच | यथोक्तम् । " ततः सारथिमाहूय भूपालो विस्मयाश्रयः ।

सन्दिदेश महात्मा स रैक्व आनीयतामिति ।। " । अरे अष्ट । " सयुग्वा रैक्वो ज्ञातव्यःइति शेषः । कुतोऽसौ ज्ञातव्यः ? यतः " सयुग्वानमिव रैक्वमात्थ " इति हंसेनोक्तम् । समग्रहंसवाक्योप - लक्षणमेतत् ।। ५ ।।

यस्त्वयोक्तः सयुग्वा रैक्वः स कथमिति क्षत्रा पृष्टः पौत्रायणो हंसोक्तं तल्लक्षणमाहयथेति ॥ ६ ॥

स ह क्षत्ताऽन्विष्य तत्रैवेतस्ततो विचार्य नाविदमिति प्रत्येयाय । तं होवाच पौत्रायणः । अरे यत्र प्रदेशे ब्राह्मणस्य ब्राह्मणानामन्वेषणा शास्त्रविचारणा प्रवर्तते तत्तत्रैनमुच्छावगच्छेति ॥ ७ ॥

एवमुक्तः स क्षत्ता पुनस्ततो निर्गत्य वाराणस्यादिसमस्ततीर्थाटनं कृत्वा कुत्रापि तमनुपलम्भमानः काश्मीरनगरमासाद्य तत्र राजद्वारि शकटस्याधस्तात् । पामानं कषमाणं कण्डूयमानं रैक्वमवलोक्य राज्ञा निरूपितैश्चिह्नैरयमेव रैक्व इति निश्चित्योप समीपे गत्वा प्रणम्योपविवेश । तथाचोक्तं गीतामाहात्म्ये - " तत्रोपविश्य तं रैक्वं प्रत्यभ्युवाद क्षत्ता । हे भगवंस्त्वमेव किं स युग्वा रैक्वः" इति । एवमुक्तो रैक्वो अहं ह्यरा३ इति प्रतिजज्ञे । प्लुतिः पामकषणभावेन । किमर्थमत्र विश्रान्तः ? किञ्च कर्तुं चिकीर्षसीत्युक्तो वयं पूर्णमनोरथाः । परं केनापि वटुना परिचर्याविधायिना भवितव्यमित्युक्तवानिति ग्राह्यम् । स ह क्षत्ता रैक्वमन्विष्याविदमिति राजानं प्रत्येयाय । यथावृत्तं च न्यवेदयत्॥ ८ इति प्रथम खण्डः ।।