ओमित्येतदक्षरमुद्गीथमुपासीत
उपनिषत् (खण्डः-१)
उद्गीथोपासना
ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
देवतातारतम्यनिरूपणम्
एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग्रसो वाच ऋग्रसः । ऋचः साम रसः । साम्न उद्गीथो रसः । स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥ २ ॥
ऋक् साम-उद्गीथपदानाम् अर्थकथनम्
कतमा कतमकर्, कतमत् कतमत् साम, कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवकर्, प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ ३ ॥
विष्णुः सरस्वतीचतुर्मुखब्रह्मभ्यामुत्तमः
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च ऋक् च साम च । तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य काममापयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ५ ॥
ओङ्कारार्थपूर्णो हरिः
तद्वा एतदनुज्ञाक्षरम् । यदि्ध किञ्चानुजानात्योमित्येव तदा हैष उ एव समृदि्धर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ६ ॥
तेनेयं त्रयी विद्या वर्तते । ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै । महिम्ना रसेन तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥ ७ ॥
नाना तु विद्या चाविद्या च । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति । इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति । अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीत । तस्येतरैः प्राणैरुपव्याख्यानं भवति ॥ ८ ॥
।। खण्डः १ ॥
भाष्यम्
उपोद्घातभाष्यम्
हयग्रीवमुखोद्गीर्णगीर्भिर्देवी (1) रमा पतिम् । अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ।।
ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद् गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत ।
उक्तं च महासंहितायाम् –
' हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ।।' इति ।।
‘ॐ नामानमुपासीत तदर्थगुणपूर्वकम् ।
ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ।
आनन्दादोजसश्चैव भरणादोमुदाहृतः ।। ' इति समन्वये ।
'ओतमस्मिन् जगत् सर्वमत्युच्च श्वाखिलैर्गुणैः ।
इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ||
उच्चत्वाद् गीयमानत्वात् स्थानादुद्गीथ उच्यते ।
विष्णुः ओङ्कारवाचकः
ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥
विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता ।
अकारेणाधिकं प्रोक्तमुकारेणोचमुच्यते ॥
तथा मितं सर्ववेदैर्मकारेणाभिधीयते ।
अधिकच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥ १ ॥
पदार्थकौमुदी
पदार्थकौमुदी
“यो हवा अविदितार्षछन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति वाऽध्यापयति वा स्थाणुं वच्छेति गर्ते वा पद्यते प्रवामीयते" इति श्रुतेर्देवतादिज्ञान एव विद्या फलतीति ज्ञायते । तत्र ब्राह्मणपदोप- लक्षितार्थज्ञानं व्याख्यानादेव भविष्यति । प्रायश्छन्दोबद्धत्वं नास्त्येव ।। क्वचित् तदुपनिबद्धत्वे त्वक्षरपरिगणनेन तज्ज्ञानं सुकरमेव । अतः ऋषिदेवते ज्ञापयन्नाह भगवान् भाष्यकारः हयग्रीवेति ॥ विस्तृताया अप्यस्या उपनिषदो भगवत्परत्वं नानुपपन्नमिति भावेन " विस्तृत - गुणम्’” इत्युक्तम् । एतदुपनिषत्प्रतिपाद्यमूर्तिविशेषमाह - भोगीत || अनेनास्या हयग्रीवो मुख्यऋषिः । रमा त्ववान्तर ऋषिः । शेषशायी देवतेत्युक्तं भवति । एतेनाद्वैतज्ञानं संसारहेतूपमर्देन वक्तव्यमित्युपनिष- दारभ्यत इति परोक्तमसदित्युक्तं भवति । यथा चैतत् तथाऽग्रे वक्ष्यते । “देव सवितः प्रसुव" "यज्ञं प्रसुव' " " यज्ञपतिं भगाय'" इत्यादि- पूर्वाध्यायद्वयेऽन्तःकरणशुद्धिद्वारा ब्रह्मविद्याधिकारार्थं कर्मस्वरूपं निरूपितम् । इदानीं कर्मणा शुद्धान्तःकरणस्य सुविरक्तस्य ब्रह्मस्वरूपं निरूपयति - ओमित्येतदक्षरमित्यादिकया समग्रोपनिषदा ॥ ननु तदप्यध्यायद्वयं कुतो न व्याख्यातमिति चेत् । न । तस्य कर्मकाण्डत्वे- नाब्रह्मविद्यात्वात् । परैरव्याख्यातत्वेन विप्रतिपत्त्यभावाच्च । तत्रोद्गीथ- लक्षणसामैकदेशप्रतिपाद्यस्य सर्ववेदार्थप्रणवप्रतिपाद्यस्य च भगवत उपास्तिमादावाह - ओमित्येतदक्षरमित्यादिना ||
परव्याख्यानिरासः
तत्रेदं वाक्यं परेणैवं व्याख्यातम् । ओमित्येतदक्षरं वर्णात्मकमुद्गीथ- भक्त्यवयवत्वाद् उद्गीथवाच्यमुपासीतेति । तदसत् ।। प्रणवस्य जडत्वेन तदुपासनवैयर्थ्यस्य वक्ष्यमाणत्वात् । नच परमात्मप्रतीकत्वेन तदुपासनं विधीयत इति वाच्यम् । परमात्मप्रधानके वेदान्ते आदौ तदुपास्तिमन- भिधाय तत्प्रतीकोपास्तिविधानायोगात् । नचैतान्युपासनानि सत्त्वशुद्धि- करत्वेन वस्तुतत्वावभासकत्वादद्वैतज्ञानोपकारकाणीति पूर्वमुपन्यस्यत इति वाच्यम् । तथा सति कर्मकलापस्यापि सत्त्वशुद्धिसम्पादकत्वेन तत्परपूर्वाध्यायद्वयस्यापि व्याख्येयत्वापातात् । नच तत्र साक्षादद्वैता - प्रतिपादनात् तदव्याख्यातमिति वाच्यम् । तर्ह्येतस्यापि त्वन्मते साक्षाद- द्वैताप्रतिपादकत्वेनाव्याख्येयत्वापातादिति भावेन तद्वाक्यं भगवत्परतयैव व्याचष्टे - ओमितिनामकमिति ॥ अक्षरशब्दव्याख्यानं करिष्यति । सन्निकृष्टतरवस्तुवाचको ह्येतच्छब्दः । अतो भगवान् सर्वसन्निहितत्वा- देतदित्युच्यत इत्यर्थः । उक्तं चान्यत्रएतत्सन्निहितत्वाच्चेति । उच्चत्वादि- त्युच्छब्दार्थः । गीतत्वादिति गीत्यस्यार्थः । सर्वस्थानत्वादिति थशब्दार्थः । भगवन्तमिति विशेष्याध्याहारः ।
ननु " हयग्रीवमुखोद्गीर्णगीर्भिः" इत्यनेनास्यां हयग्रीवादिर्न ऋष्यादित्वेन ज्ञातुं शक्यते । हयग्रीवमुखोद्गीर्णगिरां बह्वीनां सत्त्वादि- यमेव सेत्यनिश्चयादित्यतस्तत्र प्रमाणमाह उक्तं चेति ॥ न केवलमस्माभिरेवोक्तं किन्तु महासंहितायां चेति चशब्दार्थः । किं तत्रोक्तमित्यतः “अग्न आयाहि वीतये" इत्यादिसामवेदसंहितायां “महन्मेऽवोचो भर्गो मेऽवोचः" इत्यादिब्राह्मणस्याऽरण्यकेऽपि “देव सवितः प्रसुव" इत्यादिपूर्वाध्यायद्वयस्य च व्यावृत्त्यर्थम् " ओमित्येत- न्मुखैः’”इत्युक्तम् । अत एवैतदारभ्यैव व्याख्यानं क्रियते । अत्रोंनामकस्य भगवत एवोपास्यत्वमुच्यत इति व्याख्येयं नत्वोङ्कारस्य । तथा सति प्रमाणविरोधादिति भावेन प्रमाणमाह ॐ नामानमिति ॥ अश्व- कर्णादिनामकत्वमिव न सञ्ज्ञामात्रेणेत्याह - तदर्थेति । अत एव श्रुतौ तस्योपव्याख्यानमित्यादिनोङ्कारो व्याख्यायते । के ते ओंनामार्थभूता गुणायैर्युक्ता भवानुपास्य इत्यत आह - ओतत्वादिति । ओतत्वाद् गतत्वात् प्रविष्टत्वाद्वा गुणपूर्णत्वादिति यावत् । गत्याद्यर्थस्यावतेः खलु रूपमेतत् । ‘‘अवतेष्टिलोपश्च'' इति सूत्रात् । अवतेर्मन्प्रत्ययः प्रत्ययस्य टिलोपश्चेति सूत्रार्थः । ओमिति पुनः कस्य वक्तेति प्रश्नपूर्वक - मवतिनामाऽयं धातुर्गतिकर्मा प्रवेशनकर्मा चेत्यन्यत्राप्येवमेव निरुक्तत्वा- च्च । तथा च यद्यसौ कर्मणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणोऽपेक्षयामुपपदाद्यभावेऽपि योग्यतया श्रुत्यन्तरबलाद्वा गुणैर्गुणान् वा ओतत्वं वक्तीत्यनन्तानवद्यगुणपूर्णतैव ॐकारार्थ इति भावः । अवनाज्ज्ञानाद् रक्षणाद्वेति व्याख्यानान्तरम् । अवतेर्गत्यर्थत्वेन ज्ञानार्थत्वात् । रक्षणार्थत्वाच्च । मानादधिकोञ्चत्वकारणादित्येकं व्याख्यानम् । गुणसङ्ख्यानादधिकोच्चत्वहेतोरित्यर्थः । तत्राकारार्थः- अधिकेति । उकारार्थः उच्चेति || मकारार्थः मानादिति ॥ आकाङ्क्षाक्रमेण व्याख्यानाय क्रमोल्लङ्घनम् ।
यद्वा, अवनाद् रक्षणादिति ओ इत्यस्यार्थः । अवतेः क्विपि उपधावकारयोरूकारः । मकारार्थ:- मानादिति ॥ ज्ञानादित्यर्थः । अवनान्मानादित्येकं व्याख्यानमिति श्रुतेरर्थं इत्याहुः । अधिकोच्चत्व- कारणादित्यपरम् । अधिकोच्चत्वकारणादित्यकारोकारयोरर्थः । यद्वा, अधिकेत्यकारस्य उच्चत्वेत्युकारस्य, कारणेति मकारस्यार्थ उक्तः । "मा निर्माणे " इति धातोः । मानं ज्ञानमित्यन्यत्रोत्पादनस्यापि मानशब्दार्थ- त्वोक्तेश्च । प्रणवावयवाकारादेः प्रकारान्तरेणार्थमाह - आनन्दादिति ॥ आनन्दादित्यकारस्यार्थः । " आनन्दत्वाद इत्युक्तः” इति वचनात् । ओजस इत्युकारार्थः । भरणादिति मकारार्थः । धातूनामनेकार्थत्वात् । चशब्दो ब्याख्यानान्तरसमुच्चयार्थः । एवशब्देनाकारवाच्येन तत्पदार्थेनो- कारवाच्यस्य त्वम्पदार्थस्याभेदो मकारेणोच्यत इति परव्याख्यानं व्यावर्तयति । अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च । ॐकारस्या- र्थान्तराभिधानाय स्वकृतसमग्रवाक्यव्याख्यानदाढर्याय च स्पष्टं प्रमाणमाह – ओतमिति ॥ ओतं प्रविष्टम् । समस्तोङ्कारार्थकथनमेतत् । व्यस्तस्य तस्यार्थमाह – अत्युच्च श्वेति || आधिक्यार्थकाकारास्यार्थः अतीति । उकारस्यार्थः - उत्व इति । गुणसङ्ख्यानार्थकमकारार्थः अखिलैर्गुणैरिति ॥
ननु " ओमिति नामकं भगवन्तमुपासीत " इति व्याख्यानमयुक्तम् । तथा सति ‘“ओमिति ह्युद्गायति'" इत्युत्तरवाक्यासङ्गतेः । तत्रोमित्यारभ्य हि यस्मादुद्गायति तस्मादुद्गीथ ओङ्कार इत्योङ्कारस्योद्गीथवाच्यत्वे हेतुरुच्यते । तच्च मत्पक्ष एव सङ्गतं न त्वत्पक्ष इति चेत् । न । भगवत ॐ नामकत्वसमर्थनार्थत्वेनास्मत्पक्षेऽपि सङ्गतत्वादिति भावेन तद् वाक्यं व्याचष्टे – ओमित्येनमिति । हि यस्मादेनमुद्दिश्योद्गाता स्फुटमी- मित्युच्चार्य सङ्गायति । तस्मादोंनामकत्वं भगवतः सिद्धम् । अन्यथा तद्वाचकशब्दस्यैवोच्चार्यत्वेनातथाभूतोङ्कारोच्चारणस्यासङ्गतत्वादिति भावः। ‘‘तस्योपव्याख्यानम् ' ' इत्येतद् व्याचष्टे – विष्णोरिति ॥ अस्य विष्णोर्यद् ओमिति नाम तस्य व्याख्यानमधिकोचतेत्यर्थः । तेन तस्याक्षरस्योद्गीथस्य विष्णोरुप समीपे वर्तमानं यदोमिति नाम तस्य व्याख्यानं क्रियत इत्यर्थ उक्तो भवति । कथमयमोङ्कारार्थ इत्यत आह - अकारेणेति ॥ स्तर्हि मकारार्थ इत्यत आह तथेति ॥ अधिको- चत्वेनेत्यर्थः । नेदं शब्दार्थान्तर्गतम् । सति चैवं त्र्यक्षरात्मकोङ्कारस्य कोऽर्थः सम्पन्न इत्यत आह - अधिकेति ॥ १ ॥