अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति

उपनिषत् (खण्ड: - २२)

'समानाय स्वाहा' इत्याहुतेः फलवर्णनम्

अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतः तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २२ ॥

भाष्यम्

.................................समानो मन एव च । इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः ॥

पदार्थकौमुदी

समानाहुतितृप्यतयोक्तानां समानमनःपर्जन्यानां भेदेअथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यः " इति प्रागुक्तविरोधोऽ–नुवादानुपपत्तिश्चेत्यत आह- समान इति ।। मन एवेत्येवशब्दश्च - शब्दार्थः । इन्द्र इत्यनेन सम्बध्यते । इन्द्र इति पर्जन्यशब्दव्याख्यानम् | “ पर्जन्यो मघवांश्चैव पुरुहूतः पुरन्दरः" इत्यभिधानात् । अतिनीचस्य द्वारपत्वोक्त्याऽविशेषादतिशयालाभाच्चेति (?) भावः ।

खण्डार्थः

पर्जन्यः इन्द्रः । विद्युद् वायुपत्नी । अधितिष्ठतः उत्तरद्वारपत्वेन ॥

|| इति द्वाविंशः खण्डः ।।