अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः ..
उपनिषत् (खण्डः - ४)
मधु नामकानिरुद्धोपासना
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥
तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥
भाष्यम्
इतिहासपुराणानां सोमाद्या अभिमानिनः । अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः ||
अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा । मनस्त्वात् प्राणरूपत्वादथर्वाङ्गिरसस्ततः ।।
पदार्थकौमुदी
चतुर्थवाक्यं व्याख्याति- इतिहासपुराणानामिति ॥ अनेन “अथर्वाङ्गिरसः” इति पदं इतिहासपुराणोपलक्षकमिति सूचितं भवति । “अथर्वाङ्गिरसां च सोमाद्या एव" इति सम्बन्धः । “अभि- मानिनः” इति हेतुगर्भम् । यतोऽभिमानिनोऽतोऽथर्वाङ्गिरोनामकः अपीति ॥ अपिशब्दः इतिहासपुराणनामकत्वसमुच्चयार्थः । योगेनापि अथर्वाङ्गिरोनामकत्वं तेषामाह - अधरमिति । यतस्तेऽधरं वृष्टिं वर्तयेयुस्ततोऽथर्वाणः । तथाऽङ्गानां रसाः नियामकाः यतस्ततोऽङ्गि- रसः । अथर्वाणश्चाङ्गिरसश्चेत्यथर्वाङ्गिरसोऽथर्वाङ्गिरोनामका इत्यर्थः । धकारस्य थकारो निर्वचनत्वात् । अङ्गेत्यत्राकारस्येकारोऽतिशयार्थः । अङ्गरसत्वं तेषां कथमित्यत उक्तम् मनस्त्वादिति ।। सोमस्य मनस्त्वात् मनोभिमानित्वात् । इतरेषां मरुतां प्राणरूपत्वात् प्राणा- पानादिरूपत्वात् । इन्द्रियाभिमानित्वाद् वेत्यर्थः । “अङ्गानां रसाः” इति पूर्वेण सम्बन्ध: || चतुर्थः खण्डः ।।
खण्डार्थः
अथर्वाङ्गिरसः अथर्वणा आङ्गिरसा च दृष्टाः मन्त्रा अथर्वाङ्गिरसः । इतिहासपुराणोपलक्षणमेतत् । तदभिमानिनो अधरं वृष्टिप्रवर्तकत्वेना- ङ्गानां रसत्वेन चाथर्वाङ्गिरोनामकाः सोमाद्याः देवाः । " इतिहास - पुराणम्’”इति द्वन्द्वैकवद्भावश्च । अथर्वाङ्गिरसामप्युपलक्षणमेतत् । “ता अमृताः” इत्यत्रेतिहासपुराणस्यार्थत एकप्रकारत्वेनामृतत्वं द्रष्टव्यम् । यदेतदादित्यस्य परः परम् अतिशयेन कृष्णं रूपं तत्तत्र तद्वै । इतिहासपुराणाथर्वाङ्गिरोमन्त्राभिव्यक्तम् अनिरुद्धाख्यं सुनीलं मध्व- तिष्ठत् । शिष्टं पूर्ववत् ।।
।। इति चतुर्थः खण्डः ।।