पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि ..

उपनिषत् (खण्डः - १५ )

मनुष्यस्यास्वातन्त्र्यविषये मरणावस्थानिदर्शनम्

पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ १ ॥

अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥

स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽतत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १५ ॥

भाष्यम्

यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान् । इत्युक्त आह ज्ञाने हि दृष्टैवास्यास्वतन्त्रता ॥ १५ ॥

पदार्थकौमुदी

(घ) ननु विद्वान् केन क्रमेण ब्रह्माऽप्नोतीति जिज्ञासायां तत्क्रमप्रदर्शनार्थं " पुरुषं सोम्योपतापिनम् इत्याद्युच्यत इति व्याख्यानमसत् ।अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यते " इति प्रागेवोक्तत्वात् । पूर्ववदत्रापि तस्य " वाङ् मनसि सम्पद्यते " इत्यादि ‘‘तेजः परस्यां देवतायाम्’”इत्यन्तेनैव पूर्तेःतस्य यावन्न वाङ्- मनसि सम्पद्यते’” इत्यादिना ज्ञाने जीवस्य पराधीनत्वोक्तिवैयर्थ्याच्च । 'यदा प्राणान् ददातीशस्तदा चेतनकोऽखिलम् । जानाति ग्रस्तकरणस्तेन वेत्ति न किञ्चन ।। " इति स्मृतिविरोधाचेति भावेन प्रश्नाभिप्रायमाह - यथेति ॥ अवगतं वृक्षशरीरे भगवदधीनत्वं, जीवस्य मानुषशरीर एव तज्ज्ञापयत्वित्यर्थः । तेन न सिद्धार्थत्वं प्रश्नस्य । तदुत्तरत्वेन ‘“पुरुषं सोम्य' इति खण्डतात्पर्यमाहज्ञाने हीति ॥ ज्ञानस्य वागादिव्यापारान्वयव्यतिरेकानुविधायित्वोक्तेरित्यर्थः । पञ्च-दशः खण्डः ।।

खण्डार्थः

हे सोम्योपतापिनं रोगिणं पुरुषं ज्ञातयः पर्युपासते परित उपविशन्ति । किं कुर्वतः । हे देवदत्त त्वं मां जानासि मां जानासीति वदन्तः । एवमेभिरुक्ते स कदा जानाति कदा च न जानातीत्यत आह- तस्येति ।। तस्य म्रियमाणस्य पुरुषस्य वाग् वागभिमानिन्युमा मनसि मनोभिमानिरुद्रे यावन्न सम्पद्यते ग्रस्तव्यापारा न भवति । मनश्च प्राणे न सम्पद्यते । प्राणस्तेजसि न सम्पद्यते । तेजः परस्यां देवतायां न सम्पद्यते । तावज्जानाति ।। १ ।।

अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां सम्पद्यते । अथ तदा न जानाति । एवं मानुषशरीर एव जीवस्य मरणकाले ज्ञात्यादिस्वरूपज्ञानेऽस्वातन्त्र्यं दृष्टमिति भावः ॥ २ ।।

इति पित्रोपदिष्टेन पुत्रेणैवं सर्वप्रेरकं महानुभावं भगवन्तं योऽत्यन्त-भेदेन जानाति यश्च स एवाहमस्मीति । तयोः कीदृशं फलं भवतीति (१) जिज्ञासाया भूय एवेत्युक्तः पिता तथेति होवाच ॥ ३ ॥

|| इति पञ्चदशः खण्डः ॥ १५ ॥