॥यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ..
अथ पञ्चमाध्यायस्य प्रथमः खण्डः
उपनिषत्
इन्द्रियाभिमानिनां मुख्यप्राणाधीनत्वनिरूपणम्
॥ ॐ ॥यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥
यो ह वै सम्पदं वेद सर्वं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥
यो ह वा आयतनं वेदायतनं ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥
भाष्यम्
'यः श्रेष्ठं ज्येष्ठमखिलदेवानां (१) वायुमञ्जसा । वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः ॥ समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात्। एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः॥ सम्पद्वेत्तुः सम्पदः स्युर्गृहं चाऽयतनं विदः ।
पदार्थकौमुदी
देवोत्तमाय प्राणाय पञ्चरूपाय विष्णवे । वैश्वानराय देवाय नमो भगवते सदा ||
एवं परापरब्रह्मविद्याः पूर्वाध्याये निरूपिताः । अत्र पुनस्तद्विषयमेव विद्यान्तरं निरूपयिष्यन् मुमुक्षोरपरब्रह्मवायुप्रसादस्य सर्वथाऽपेक्षितत्वा- दादौ तद्विषयां विद्यामाह - यो हवा इत्यादिखण्डद्वयेन । “यो ह वै " इत्यादिवाक्ये प्राणस्य तत्तुश्वोक्तं ज्येष्ठत्वादिकं किमपेक्षयेति न ज्ञायत इत्यतस्तत् प्रमाणेनैव व्याचष्टे इति ॥ श्रेष्ठं ज्येष्ठं गुणतः वयसा निर्धारणे षष्ठ्यौ । योग्यतया स्वसमानानां ज्ञानोत्तरशुभाननुष्ठानादिना हसितानन्दानां वेत्तुर्मनुष्यत्वविवक्षायामिदम् । देवत्वविवक्षायामिन्द्र- कामादिवत् किञ्चित् साम्यं बोध्यम् । अनेन श्रुतौ " स्वानाम्” इति वक्ष्यमाणमत्र सम्बध्यत इत्युक्तं भवति । “यो ह वै वसिष्ठं वेद" इति वाक्यं वेत्तुर्वसिष्ठत्वप्रतीतिनिरासाय व्याचष्टे - समीप इति ॥ वसिष्ठ इत्यस्यार्थः – वसतां श्रेष्ठ इति ।। दूरे वसतां श्रेष्ठ्यं न शोभावहमिति " समीपे " इत्युक्तम् । “यो ह वै प्रतिष्ठां वेद" इति वाक्यमेकस्यैव युगपद् विरुद्धं लोकद्वयावस्थानं कथमुच्यत इत्यतो व्याचष्टे - एकेति ॥ इदं विपरीतं फलम् इत्याशङ्कानिरासाय विशेषवाची तुशब्दः । तमेव व्यनक्ति - इच्छत इति ॥ यथेच्छायामपीष्टस्थानेऽस्माकं स्थितिर्न भवति न तथा तस्येत्यर्थः । “यो ह वै सम्पदं वेद" इति वाक्यं व्याचष्टे - सम्पत्तुरिति ॥ “यो ह वा आयतनं वेद ” इति वाक्योक्तं स्वकीयाश्रयत्वं फलमुपलक्षणमिति भावेनाऽह - गृहं चेति । गृहमिष्टं प्रासादादि । चशब्दाच्छ्रुत्युक्तसमुच्चयः ।