विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति ..
उपनिषत् (खण्डः -७)
ध्यानाभिमानिवरुणाद विज्ञानाभिमानिचन्द्रस्य श्रेष्ठतावर्णनम्
विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीन् श्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिद्ध्यति यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद् भूय इति विज्ञानाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥७॥
भाष्यम्
. ……………..तथा तस्मान्निशाकरः ॥ विज्ञानदेवता चासौ तन्नामा च विवेचनात् ।सत्यस्य …………….. ||
पदार्थकौमुदी
"विज्ञानं वाव ध्यानाद् भूयः" इत्येतद्व्याचष्टे - तथेति ।। सत्यस्य विवेचनात् तन्नामेत्यन्वयः ।। सप्तमः खण्डः ।।
खण्डार्थः
विज्ञानं विज्ञानाभिमानी सोम एव ध्यानाद् भूयः । तत्सामर्थ्यमाह - विज्ञानेनेति | विज्ञानाभिमानिदेवताप्रसादेनैवर्वेदं विजानाति पुरुषः । यजुर्वेदादिकं परलोकान्तं च विज्ञानेनैव विजानाति || १ |
विज्ञानवतो ज्ञानवतश्च सामान्यविशेषज्ञानवतो लोकान् प्राप्नोतीत्यर्थः ॥ २ ॥
॥ इति सप्तमः खण्डः ॥