अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा ..

उपनिषत् ( खण्ड: - ९)

आदित्ये सप्तरूपिभगवदुपासना

अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् तस्य यत्पुरोदयात् स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात् ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २ ॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३॥

अथ यत्सङ्गववेलायां स आदिस्तदस्य वयांस्यन्वायत्तानि तस्मात् तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्त्यादिभाजीनो ह्येतस्य साम्नः ॥ ४ ॥

अथ यत्सम्प्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात् ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥

अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्मात् ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ ६ ॥

अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात् तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ ८ ॥ खण्डः ९ ॥

भाष्यम्

आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम् । सप्तरूपं साम चासौ सर्वदा समरूपतः ।। सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः । दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम् || तस्मिन्निमानि भूतानि सर्वाण्येवाऽश्रितानि हि ।उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः ॥ पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये । आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः ॥ तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः । मध्यन्दिने स आधारो देवानां च ततः परम् ॥ अनिरुद्धः स आधारो गर्भस्थानां सदैव हि । ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः ।।

अथास्तमितवेलायां स सङ्घर्षण ईरित: (१) । आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम् (२) । प्राप्नोति परमं स्थानं मुक्तः संसारसागरात् ।। ' इति च ।

हिङ्कारनामानमाश्रितत्वाद्धिङ्कुर्वन्ति । ( २ ) प्रस्तावाश्रयात् प्रस्तुति- कामाः प्रारम्भकामाः प्रशंसाकामाश्च । प्रारम्भावतारत्वात् प्रशंसा- देवतात्वा तस्य । सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणा- मनाधारेणैव गमनम् । नारायणनामार्थत्वेन सर्वगुणपूर्योपासनात् (४) सर्वोत्तमा देवाः । इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने (५) नारायणो- पासनमेव भवति । सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य । अनिरुद्धा- श्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति । वर्धन्ते च तत्रैव । अन्यद्धि भुक्तं जीर्यत एव । ' धाता गर्भं दधातु ते ' इति च श्रुतिः । धाता हि भगवाननिरुद्धः । विष्णुस्त्वष्टा प्रजापतिर्धाता इति च चतुर्मूर्तयो (१) ह्युच्यन्ते ।

योनिक्ऌप्तिर्वासुदेवाद् रूपं सङ्कर्षणाद् भवेत् । आसेककर्म प्रद्युम्नादनिरुद्धाच्च धारणम् ॥' इति च । 'व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद् द्वितीयकः । प्रजापतिः प्रजापातान्निषेकः पातनं ततः ।। प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः । अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाऽश्विनौ ।' इति च । 'कश्वभ्रे नृसिंहस्य सदाऽवस्थितिकारणात् । द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात् । मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः (२) सदा । पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः ॥ अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि । अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति ॥ ' इति च । 'न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा । तथाऽपि तत् प्रियं नाम नारायण इति स्म ह ॥ विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु । विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदा तथा ।।' इति च । 'नाम्नो नारायणाख्यस्य गुणैः पूर्ति हि देवताः । विज्ञायार्थमुपास्यैव सर्वाधिक्यमथाऽपिरे ( ३ ) ' इति च ।। ९ ।।

पदार्थकौमुदी

आदित्ये सप्तविधसामनामकभगवदुपास्तिमाह अथ खल्वित्या- दिना ।। अत्र प्रसिद्धादित्यस्यैव सप्तविधत्वेनोपास्तिरुच्यत इत्यसत् । तस्य सर्वदा समत्व सर्वभूताश्रयत्वाद्यनुपपत्तेरिति भावेन खण्डं प्रमाणेन भगव - त्परतया व्याचष्टेआदित्यस्थमिति । अनेन प्रथमवाक्यं व्याख्यातम् । सप्तरूपाणां वैचित्र्यशङ्कानिरासाय सामशब्दनिर्वचनपरं "सर्वदा समस्तेन साम’” इति वाक्यं व्याचष्टेसाम चेति ॥ प्रकारान्तरेण सामशब्द- निर्वचनपरं " मां प्रति मां प्रतीति सर्वेण समस्तेन साम" इति वाक्यं व्याचष्टेसर्वेषामिति । अनेन सर्वेणेति तृतीया षष्ठ्यर्थेत्युक्तं भवति । दृष्टिप्रकारदौर्लभ्यव्यावर्तनायैवशब्दः । दृष्टिविषयत्वसाम्यादित्यर्थः ।

नन्वादित्यस्थविष्णोरप्रत्यक्षत्वात् कथं तत्र सर्वदृष्टिसाम्यमित्यत आहदृष्टीति ।। तर्हि मण्डल एव सामशब्दवृत्तिः स्यान्न विष्णावित्यत आह - विष्णुरिति । दृष्टिसाम्यकारणत्वमेव विष्णौ सामशब्दप्रवृत्ति- निमित्तमिति भावः । यद्वा, दृष्टिसाम्यमेव सामशब्दप्रवृत्तिनिमित्तम् । तत्कारणे च तन्निमित्तकः शब्दो मुख्यः । राजनि जयिशब्दवदिति तात्पर्यम् । ‘“तस्मिन्निमानि सर्वाणि " इति वाक्यं व्याचष्टेतस्मि - निति ॥ आश्रितान्येवेति सम्बन्धः ।

" तस्य यत् पुरोदयात् स हिङ्कारः" इति वाक्यं व्याचष्टेउदया- दिति ॥ असावादित्यस्थः प्रद्युम्ननामको विष्णुरुदयात् पूर्वमेव भवेत् । तत्र तिष्ठतीत्यर्थः । ‘‘तदस्य पशवोऽन्वायत्ता:इत्येतद् व्याचष्टे - पश्वाधार इति ।। असावात्मा प्रद्युम्ननामकस्तदोदयपूर्वकाले पश्वाधार इत्यर्थः ।अथ यत्प्रथमोदिते स प्रस्तावः " इत्येतद् व्याचष्टे - वासुदेव इति ॥

तथाशब्द उपमायाम् । उदये तिष्ठतीति शेषः ।तदस्य मनुष्या अन्वायत्ताःइत्यस्यार्थमाह- आश्रयश्चेति । न केवलं तिष्ठति किन्त्वा- श्रयश्चेति चशब्दः । तत्र तदा ।अथ यत्सङ्गववेलायां स आदिःइत्यस्यार्थमाह वराह इति ।। तिष्ठतीति शेषः । सर्वरूपाणां सर्वत्र सत्त्वेन कथमेतदित्यतः सन्निधानविशेषाभिप्रायेणेति भावेन तुशब्दः ।

तदस्य वयांस्यन्वायत्तानिइति वाक्यं व्याचष्टे सः ॥ तत्रेति सः वराहात्मा विष्णुः ।अथ यत् सम्प्रति मध्यन्दिने स उद्गीथः " इत्यस्यार्थमाह - तथेति ॥ मध्यन्दिने तिष्ठतीति शेषः ।तदस्य देवा अन्वायत्ताःइत्यस्यार्थमाह स आधार इति ।।अथ यदूर्ध्वं मध्यन्दिनात् प्रागपराह्णात् स प्रतिहारःइति वाक्यं व्याचष्टे इति ॥ ततो मध्यन्दिनात् परमपराह्नपर्यन्तमित्यर्थः । अनिरुद्धस्तिष्ठति ।तदस्य गर्भा अन्वायत्ताःइत्यस्यार्थमाह स इति ॥ " अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवः' इति वाक्यं व्याचष्टेतत इति ॥ ततोऽपराह्णात् परमस्तमयपर्यन्तमित्यर्थः । नृसिंहाख्यो विष्णुस्तिष्ठति । " तदस्याऽरण्या अन्वायत्ताः" इत्येतद् व्याचष्टे स इति ।। " अथ यत्प्रथमास्तमिते तन्निधनम्" इत्येतद् व्याचष्टे अथेति । " तदस्य पितरोऽन्वायत्ताःइति वाक्यं व्याचष्टे आश्रय

इति ।।एवं खल्वमुमादित्यं सप्तविधं सामोपास्तेइत्युपासनामात्रोक्तेः स्वयं फलमाहसप्तात्मकमिति ॥

" तस्मात् ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नःइति वाक्यं हेतुहेतुमद्भावाप्रतीतेस्तं व्यञ्जयन् व्याचष्टेहिङ्कारेति । अनेन हिङ्कार- भाजिन इत्यस्य हिङ्कारनामकरूपाश्रिता इत्यर्थः । हिशब्दो यस्मादित्यर्थः । तस्मादिति पूर्वेण सम्बन्ध इत्युक्तं भवति । " तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नःइत्यत्रापि पूर्ववद्धेतुहेतु - मद्भावाप्रतीतिं प्रस्तुतिकामाः प्रशंसाकामा इत्यनयोः पुनरुक्तिं चापाकुर्वंस्तद् व्याचष्टे - प्रस्तावेति ॥ प्रस्तुतिकामा इत्यनुवादेन प्रारम्भ- कामा इति व्याख्यानम् । ननु प्रस्तावनामकवासुदेवाश्रयत्वेऽपि मनुष्याणां प्रारम्भकामत्वं प्रशंसाकामत्वं च कुत इत्यत आह प्रारम्भेति ॥ प्रारम्भावतारत्वात् प्रथमावतारत्वादित्यर्थः । तस्य प्रस्तावनामकवासु- देवस्य ।तस्मात् तान्यन्तरिक्षेऽनारम्बणान्यादायाऽत्मानं परिपत- न्त्यादिभाजिनो ह्येतस्य साम्नः" इति वाक्यं हेतुहेतुमद्भावं स्फोरयन् व्याचष्टेसर्वाधारत्वादिति ॥ सर्वपक्ष्याधारत्वादित्यर्थः । अनाधारेण भूम्याद्याधारं विनेत्यनेनानारम्बणानीत्यस्यानाधाराणीत्यर्थ उक्तो भवति ।तस्मात् ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः" इत्यत्रोद्गीथाख्यनारायणाश्रितत्वं देवानामुत्तमत्वे हेतुरुच्यते । तदयुक्तम् । ङ्काराद्याश्रितपश्वादीनामप्युत्तमत्वापत्तेरित्यतस्तद्वाक्यं तात्पर्यतो व्याचष्टे - नारायणेति । कोऽसौ नारायणनामार्थों यद्युक्तत्वे- नोपासनमित्यत उक्तम् सर्वगुणपूर्त्येति ॥ उपासनादुद्गीथाख्य- नारायणस्य । अत्र भजनमुपासनमेव विवक्षितमिति भावेनैवं व्याख्यातम् ।ते सत्तमाः प्राजापत्यानाम् इत्यस्यार्थः - सर्वोत्तमा देवा इति ॥ ननु मध्वादिविद्यासु वासुदेवादिमूर्तीनां सर्वगुणपूर्योपासनादपि देवानां स्वपदप्राप्त्यादिलक्षणसत्तमत्त्व श्रवणात् कथं नारायणस्योपासनात् सत्तमा इत्युक्तमित्यत आहइतरेति । सर्वगुणपूर्त्येतरमूर्त्तुपासने कथं नाराय- णोपासनं तदित्यत आह - सर्वेति । अरशब्दस्य दोषवाचकत्वान्नञश्च विरुद्धार्थत्वाद् अरविरुद्धा गुणा नारास्तेषामयनमाश्रयो नारायणः । विशेषानुक्त्या श्रुत्यन्तरबलाच्च सर्वगुणपूर्णत्वं नारायणशब्दार्थ इति भावः ।

ननु नञ्समासेनलोपो नञःइति नलोपेतस्मान्नुडचिइति नुडागमे अनरायण इति स्यादिति चेन्न ।नभ्राट् इत्यादिष्वस्य वक्तव्यत्वात् । अत एव नगनाकादिशब्दप्रयोगः । यद्वा, नायं नञ्समासः येन नलोपः स्यात् । किन्तुअमानोनाः प्रतिषेधेइति गणपरिपठित- नसमासोऽयमित्यदोषः ।पूर्वपदात् सञ्ज्ञायामगः" इति णत्वम् । ल्युटष्टित्करणसामर्थ्यादयनशब्दोऽत्राधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वेनो- पपत्तिः ।

" तस्मात् ते प्रतिहता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः " इति वाक्यं हेतुहेतुमद्भावं व्यञ्जयन् व्याचष्टेअनिरुद्धेति ॥ कुतः कुत्र प्रतिहृता इत्यतस्तद्दर्शनायोक्तम् - पितुरिति । अन्यत्र मातृशरीरे । प्रति- हृता अपीति शेषपूरणेन विनाशकाभावादेवाविनाशो नत्वनिरुद्धाश्रय- त्वादित्याशङ्का परास्ता । नावपद्यन्त इत्यस्यार्थः नविनश्यतीति ॥ न केवलमेतावत् । किन्त्वित्यत उक्तम् - वर्धन्ते चेति ।

ननु पितुः शरीरान्मातृशरीरे प्रतिहता अपि गर्भा मातृशक्त्यैव न विनश्यन्ति वर्धन्ते च तत्रैवेति किं न स्यात्किमप्रामाणिकानिरुद्ध- गर्भाश्रयत्वकथनेनेति चेत् । न । तथा सति मातृशरीरप्रविष्टान्नादेरपि मातृशक्त्यैव परिरक्षणादिसम्भवे प्रत्यहं भोजनाद्युद्योगप्रयासानुभवा- योगात् । न चैबमस्तीत्याह - अन्यदिति ॥ अन्यदन्नादिकं भुक्तं मातृ- शरीरप्रविष्टम् । हिशब्देन सर्वानुभवं प्रमाणयति । नन्वथाप्यप्रामाणिकं गर्भाणामनिरुद्धाश्रयत्वं किमर्थमङ्गीकार्यमित्यतस्तत्र श्रुतिं पठति धातेति ।। श्रुतिश्चेति चशब्दान्वयः । तेन पूर्वोदाहृतप्रमाणसमुच्चयः । नन्वियं श्रुतिर्धातृशब्दोक्तचतुर्मुखस्यैव गर्भधारकत्वं ब्रवीति नानिरुद्ध- स्येत्यत आहधाता हीति । हि यस्मात् तस्मादुदाहृतश्रुतिरुक्तार्थे प्रमाणम् । कामपुत्रानिरुद्धव्यावृत्त्यर्थंभगवान् इत्युक्तम् । देव कु इत्यत आह विष्णुरिति ॥विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु तेइति श्रुतौ विष्णुस्त्वष्टा प्रजापतिर्धातेतिशब्दैः क्रमेण वासुदेवादिचतुर्मूर्तय उच्यन्ते हि यस्मात् तस्माद्धाता भगवानननिरुद्ध इत्यर्थः ।

नन्वस्यां श्रुतौ विष्ण्वादिशब्दैश्चतुर्मूर्तय उच्यन्त इति कुतः ? तत्त- नामकाश्चत्वारो देवा एवेति किं न स्यादित्यतः श्रुत्यर्थनिश्चायकं प्रमाण- माह - योनिक्ऌप्तिरिति ॥ योने: क्लृप्तिः पुत्रोत्पत्तिसामर्थ्यमित्यर्थः । योनिशुद्धिरिति वा । रूपं गर्भस्थपुत्रस्याङ्गमित्यर्थः । आसेककर्म गर्भात् प्रजापातनाख्यं कर्म । धारणं गर्भाणाम् । ननु वासुदेवादिमूर्तीनां योनि- क्लृप्त्यादिकारित्वेऽपिविष्णुर्योनिं इत्यत्र ता एवोच्यन्त इति कुतः ? वासुदेवादिमूर्तीनामिव विष्ण्वादिनामकदेवानामपि योनिक्लस्यादि- कारित्वोपपत्तेः । नहि विष्ण्वादिशब्दा एव वासुदेवादिमूर्तिवाचका इत्यत्र प्रमाणमस्तीत्यतस्तत्रापि प्रमाणमाह व्याप्तेरिति ॥विष्ऌ व्याप्तौइति धातुः । त्वेषाद् दीप्तत्वात् । द्वितीयकः सङ्कर्षणः । प्रजानां पातात् प्रजापतिरित्युच्यते । किं तत्पातनमित्यत आह- निषेक इति ॥ यद्वा, प्रजापतेः कथं प्रजापातनकर्तृत्वमुच्यते ? “आसिञ्चतु प्रजापति: इति निषेककर्तृत्वश्रवणादित्यत आह- निषेक इति ॥ ततो मातृदेहतो बहि:- पातनमेव निषेक इत्युच्यते । श्रुतावित्यर्थः । उक्तनिमित्तेन प्रजापति - शब्दाभिधेयः क इत्यत आह प्रजापतिरिति । गर्भधारणाख्य- कर्मतोऽनिरुद्धो धातेति प्रोक्त इत्यन्वयः । ननुगर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ" इत्युत्तरत्राश्विप्रभृतिदेवानां श्रूयमाणत्वात् कथं भगवत्परत्वमस्येत्यतोऽश्विनावित्यनेनापि भगवन्मूर्ती एव विवक्षिते इत्याहकृष्णरामाविति ॥

तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्ति उपद्रवभाजिनो ह्येत- स्य साम्नःइति वाक्यं हेतुहेतुमद्भावं दर्शयन् व्याचष्टे - कक्षश्व इति ॥ यतस्तेषां मृगाणां नृसिंहः सदा स्वाश्रयोऽतो भीता मृगाः कक्षश्वभ्राभ्यां द्रवन्तीत्यन्वयः ।। मृगाणां भीतत्वे श्रुत्युक्तं पुरुषदर्शनं कारणम् । ननु मृगाणां नृसिंहाश्रयत्वे नृसिंहं प्रत्येव द्रवणं स्यात् । नतु कक्षश्वभ्रोद्देशेनेत्यत उक्तम्कक्षश्वभ्र इति ॥ कक्षमरण्यं श्वभ्रं विवरं द्वन्द्वैकवद्भावः । ननु कक्षश्वभ्रयोर्नृसिंहस्य सदावस्थितत्वेऽपि मृगाणां कक्षश्वभ्रे प्रति द्रवणं कथम् ? नहि स्वरक्षको नृसिंहः कक्षश्वभ्रयोरस्तीति ते जानन्तीत्यत उक्तम्- तदज्ञानेऽपीति । यद्यपि कक्ष्यश्वभ्रे एव रक्षके इति ते जानन्ति । नतु तत्स्थो नृसिंह इति । तथाऽपि कक्षश्वभ्रयोरचेतनत्वेन रक्षकत्वा- योगान्नृसिंह एव रक्षक इति भावः ।

तस्मात् तान् निदधति निधनभाजिनो ह्येतस्य साम्नः" इत्येतद् व्याचष्टेपितॄणामिति ।। अत इति सावधारणम् ।पिण्डादीन् इति श्रुतौ शेषोक्तिः । ननु पितॄन् प्रति पिण्डादिदानं तेषां सङ्कर्षणाश्रयत्वे कथं ज्ञापकमित्यत आह- अन्यथेति । तत् पिण्डादिकम् । इतरमूर्तीनामित्यत्र भगवद्रूपाणामन्येषामपि सर्वगुणपूर्त्याद्यस्तीत्युक्तं तत् प्रमाणेन द्रढयति - न रूपाणामिति ।। अपिवेतिशब्दौ परस्परसमुच्चये । गुणनामभ्यां रूपाणां विशेषाभावः किं नेत्याह तथाऽपीति ॥ नारायण इति नाम विशेषतस्तत्प्रियमित्यन्वयः । नन्त्रितरनामस्वेकैकनाम्नो नारायणनाम- साम्याभावेऽपि समस्तानां नाम्नां तत्साम्यं स्यादित्यतः पक्षान्तरमाह समस्तानामिति । अथवा स्यादेव समस्तानां नाम्नां नारायणनामसाम्यं यदा तस्य नारायणनाम्नोऽर्थभूता गुणैः पूर्तिरेव समस्तनानामर्थं इति विज्ञायेतेत्यर्थः । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात् सर्वोत्तमा देवा इत्युक्तमर्थं प्रमाणेन द्रढयतिनाम्न इति ॥

खण्डार्थः

अथ खल्वमुमादित्यनामकमादित्यस्थं सप्तविधं सप्तरूपं साम सामनामकं विष्णुमुपासीत । सामशब्दं विष्णौ निर्वक्ति सर्वदे ॥ यस्मादसावादित्यस्थो विष्णुः सर्वदा समस्तेन सामेत्युच्यते । प्रकारान्तरेण सामशब्दं निर्वक्तिमां प्रतीति । यस्मादादित्यस्थो विष्णुः सर्वेण ।। सर्वस्य मां प्रति मां प्रतीति समस्तेन कारणेन सामेत्युच्यते ॥ १ ॥

तदुपास्तिप्रकारमाह तस्मिन्निति ॥ तस्मिन्नादित्यस्थे सप्तरूपे विष्णाविमानि सर्वाणि भूतानि पशुमनुष्यादीन्यन्वायत्तानि आश्रितानीति विद्याद् उपासीत । कथमादित्यस्थस्य साप्तविध्यम् ? कथं वा तस्य सर्वभूताश्रयत्वमित्यतस्तद्विशदमाह - तस्येति ॥ हिङ्कारः प्रद्युम्नः । सः यत्तस्याऽदित्यस्योदयात् पुरा य आदित्योदयात् पूर्वकालस्तत्र स्थित इत्यर्थः । कानि तत्राऽश्रितानीत्यत आह - तदस्येति । अस्य सूर्यस्थस्य सामनामकभगवतस्तदुदयात् पूर्वकालस्थितं हिङ्कारनामकं प्रद्युम्नाख्यं रूपं पशवोऽन्वायत्ता आश्रिताः । पशूनां तदाश्रितत्वे ज्ञापकमाह तस्मा-दिति ।। हि यस्मात् ते पशव एतस्याऽदित्यस्थस्य साम्नः सामनामकस्य भगवतो यो हिङ्काराख्योऽवतारस्तद्भाजिनस्तदाश्रिताः तस्माद्धिङ्कार- नामानमाश्रितत्वादेव ते पशवो हिङ्कुर्वन्ति । अन्यथा तन्न स्यादित्यर्थः ॥ २ ॥

अथशब्दो विच्छेदज्ञापनार्थः । प्रस्तावो वासुदेवः । सः यत् प्रथमोदिते तिष्ठति य आदित्योदयप्रथमकाले स्थित इत्यर्थः । तदाश्रितान्याह - तदस्येति ।। अस्य सूर्यस्थभगवतस्तत्प्रस्तावनामकं वासुदेवरूपं मनुष्या अन्वायत्ताः । तेषां तदाश्रितत्वे ज्ञापकमाह - तस्मादिति ।। हि यस्मात् ते मनुष्या एतस्य सूर्यस्थस्य साम्नः सामनामकस्य भगवतः यः प्रस्तावाख्योऽवतारः तद्भाजिनस्तदाश्रिताः तस्मात् प्रस्तावाश्रितत्वादेव ते मनुष्याः प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च । अन्यथा तन्न स्यादित्यर्थः ।। ३ ।।

अथाऽदिरादिनामा वराहः सः यत्सङ्गववेलायां तिष्ठति तदाश्रिता- न्याहतदस्येति ।। अस्य तद्रूपं वयांसि पक्षिणोऽन्वायत्तानि । तत्र ज्ञापकमाह तस्मादिति । हि यस्मात् तानि वयस्येतस्य साम्नः सामनामकस्य भगवतो य आदिस्तद्भाजीनि तदाश्रितानि तस्मादेव बराहस्य सर्वपक्ष्याधारत्वादेव । तानि तदाश्रितानि वयांसि अन्तरिक्षेऽना- रम्बणान्यनाधाराण्यात्मानं स्वात्मानमादाय परिपतन्ति || अन्यथा तन्न स्यादित्यर्थः ॥ ४ ॥

अथोद्गीथो नारायणः सः यत्सम्प्रति मध्यन्दिने तिष्ठति तदाश्रिता- न्याह तदस्येति ।। अस्य भगवतस्तद्रूपं देवा अन्वायत्ताः । तत्र ज्ञापकमाहतस्मादिति । हि यस्मात् ते देवा एतस्य साम्नः साम- नामकस्य भगवतो य उद्गीथो नारायणाख्यावतारस्तद्भाजिनस्तदा- श्रितास्तदुपासका इति यावत् । तस्मादेव नारायणशब्दार्थत्वेन सर्वगुण- पूर्योपासनादेव ते देवाः प्राजापत्यानां मध्ये सत्तमाः सर्वोत्तमाः । अन्यथा तन्न स्यादित्यर्थः ।। ५ ॥

अथ प्रतिहारोऽनिरुद्धः । सः यन्मध्यन्दिनादूर्ध्वम् अपराह्णात् प्राक् तत्कालस्थितं यदित्यर्थः । तदाश्रितान्याह - तदस्येति । अस्य भगवत- स्तदनिरुद्धाख्यं रूपं गर्भा गर्भस्थाः प्राणिनोऽन्वायत्ताः । तत्र ज्ञापकमाह- तस्मादिति ।। हि यस्मादेते गर्भा एतस्य साम्नो भगवतः यः प्रतिहारा- ख्योऽवतारस्तद्भाजिनस्तदाश्रितास्तस्माद् गर्भाणामनिरुद्धाश्रयत्वादेव ते गर्भाः परि(प्रति) हृताः पितुः शरीरादन्यमातृशरीरे प्रति (परि) हृता अपि नावपद्यन्ते न विनश्यन्ति । न केवलमेतावत् वर्धन्ते च तत्रैव । अन्यथा तन्न स्यादित्यर्थः ।। ६ ।।

अथोपद्रवो नृसिंहः । सः यदपराह्णादूर्ध्वमस्तमयात् प्राक् तत्कालस्थितं यदित्यर्थः । तदाश्रितान्याह तदस्येति । अस्य भगवतस्तन्नृसिंहाख्यं रूपम् आरण्या अरण्ये स्थितमृगा अन्वायत्ताः । तत्र ज्ञापकमाह- तस्मादिति ।। हि यस्मात् ते आरण्या एतस्य साम्नः सामनामकस्य भगवतो य उपद्रवाख्योऽवतारः कक्षश्वभ्रयोर्मृगरक्षणार्थं सदा स्थितस्त- द्भाजिनस्तदाश्रितास्तस्मादेव स्वाज्ञानेऽपि रक्षकस्य नृसिंहस्य कक्ष - श्वभ्रयोः स्थितत्वादेव ते आरण्याः पुरुषं दृष्ट्वा भीताः सन्तः कक्षमरण्यं श्वभ्रं विवरं स्वरक्षकमिति भावेन कक्षश्वभ्राभ्यामुपद्रवन्ति। अन्यथा तन्न स्यादित्यर्थः।।७ ।।

अथ निधनं सङ्कर्षणाख्यं रूपं तत् । यत्प्रथमास्तमिते तिष्ठति । तदाश्रित्यान्याहतदस्येति । अस्य भगवतस्तत्सङ्कर्षणाख्यं रूपं पितरोऽन्वायत्ता: । तत्र ज्ञापकमाह - तस्मादिति ।। हि यस्मात् ते पितर एतस्य साम्नो भगवतो यन्निधनं निधननामकं सङ्कर्षणाख्यं रूपं तद्भाजिनस्तदाश्रितास्तस्मादेव पितॄणां सङ्कर्षणाश्रयत्वादेव तान्पितॄन् प्रति निदधति ।पिण्डादीनज्ञका अपि इति शेषः । उपासकस्य फल- माह - एवमिति ॥ योऽधिकारी अमुमादित्यस्थमादित्यनामकं सप्तविधं सामनामकं भगवन्तमेव पश्वाद्याश्रयत्वेनोपास्ते स संसारसागरान्मुक्तः सन् परमं स्थानं प्राप्नोतीति वाक्यशेषः ।। ८ ।।

इति नवमः खण्डः