त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः ..

उपनिषत् (खण्डः- ८)

उद्गीथनामकभगवद्विषये कथा

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः चैकितायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे ये कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥

तथेति ह समुपविविशुः स ह प्रवाहणो जैबिलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच का साम्नो गतिरिति ॥ २ ॥

शिलक कृतप्रश्नानां दाल्भ्याभिहितोत्तराणि

स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाचापां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति॥ ३ ॥

न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसंस्तावं हि सामेति । तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यं उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥४॥

दाल्भ्यकृतप्रश्नानां शिलकाभिहितोत्तराणि

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि सामेति ।

प्रवाहणस्याऽशयः

 तं ह प्रवाहणो जैबिलिरुवाचान्तवद्वै किल ते शालावत्य साम यत्स्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ ५ ॥ ८ ॥

अष्टमः खण्डः

भाष्यम्

अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः ।प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ।।

अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् । (1) व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः । क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ।।' इति निवृत्ते । अग्नेर्वागात्मकत्वात् । (२) उदकात्मकत्वात् स्वरस्य । 'आदित्य एव प्राणोऽन्नं वै प्रजापतिः ।।' इति श्रुतेः । 'आप एवेन्द्रो द्यौर्वाव रुद्रः' इत्यादेश्च ।

कथायाः उद्देशः

'विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् । ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥' इति ब्रह्मतर्फे । (३) स्वर्गाभिमानिरुद्धं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेद् विपतिष्यति ।ब्रह्मैव हि पृथिव्यात्मा

पदार्थकौमुदी

उद्गीथख्यो भगवान् सर्वोत्तम इत्युक्तम् । तन्मीमांसारूपाख्यायिकया

समर्थयते -त्रय इत्यादिखण्डद्वयेन ॥ अत्रका साम्नो गतिः " इत्यादिना सामस्वरप्राणान्नाब्द्युलोकाः क्रमेणोत्तरोत्तराः कथिताः ।

ते प्रसिद्धा एवेति प्रतीतिनिरासाय प्रमाणेनैव तत्स्वरूपमाह रिति ।। अग्निरिति- उच्छ्वासनिश्वासरूपप्राणावराभिमानी । मुख्यप्राणव्यावृत्त्यर्थ- मरेत्युक्तम् । प्रसिद्धगमनार्थत्वप्रतीतिनिरासाय गतिशब्दार्थमाह क्रमेण मोक्ष इति ॥ " अग्निः सामाभिमानी'' इत्यत्र युक्तिमप्याह - अनेरिति ॥ अग्नेर्वागिन्द्रियाभिमानित्वात् साम्नश्च वागधीनाभि- व्यक्तित्वादग्निः सामाभिमानीत्यर्थः । अग्नेर्वेदवागभिमानित्वात् साम्नश्च तद्विशेषत्वात् तस्याप्यभिमानीति वाऽर्थः । " वरुणस्तु स्वरात्मकः " इत्यत्रापि युक्तिमाह स्वरस्येति ॥ स्वरस्य वर्णव्यञ्जकध्वने- रुदकात्मकत्वात् ताल्वादिस्थोदकजन्यत्वाद् वरुणस्य चोदकाभि- मानित्वाद् वरुणः स्वरात्मक इत्यर्थः ।प्राणः सूर्योऽन्नं दक्षःइत्यत्र श्रुतिमप्याह आदित्य एवेति ॥ प्रजापतिर्दक्षः । " शक्रस्त्व- वभिमानवान्” “द्वयात्मकश्च शिवः" इत्यत्रापि श्रुतिमाह आप एवेति ॥

ननु ‘‘न दैवं केशवात् परम् ' ' इति लोके पामरोऽपि जानाति । अतः कथं "न स्वर्ग लोकमतिनयेत्" इति "न प्रतिष्ठां लोकमतिनयेत्इति च रुद्रब्रह्मणोरेव सर्वोत्तमत्वं दाल्भ्यशिलकाभ्यामुक्तमित्यत आह - विशेषेति ॥स्वर्गं वयं लोकं सामाभिसंस्थापयामःइत्यत्र स्वर्ग- शब्दस्य प्रसिद्धस्वर्गपरत्वमिन्द्रपरत्वं वा । साम्नः स्वर्गाभिदं च निराकर्तुं तद् व्याचष्टेस्वर्गेति ।। तदुपपादकंस्वर्गसंस्तावं हि साम ' इति वाक्यं स्वर्गलोकस्य सामवेदत्वमुच्यत इति प्रतीतिं निवारयन् व्याचष्टे - तत्स्तावकमिति । हि यस्मात् साम सामवेदस्तस्य स्वर्गलोकाभि- मानिरुद्रस्य स्तावकं तस्मात् तं प्रत्यभिसंस्थापयाम इत्यर्थः । ननु ‘“स्वर्गो वै लोकः सामवेदः" इति श्रुतेः स्वर्गलोकस्य सामवेदाभेद एव श्रुत्यर्थः किं

न स्यादिति चेत् । न । बाधितार्थत्वप्रसङ्गेन तस्या अपि स्वर्गाभिमानी रुद्रः सामवेदप्रतिपाद्य इत्यर्थोपपत्तेः ।यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेत् इति" इति वाक्ये, यस्तु ते मूर्धा विपतिष्यतीति ब्रूयात् तर्हि विपतेदिति योजना न युक्ता । विपतेदित्यस्यैव विधिप्रत्ययान्तस्य शापरूपत्वेन विपतिष्यतीत्यस्य शापरूपत्वा- सम्भवादिति भावेनान्वयमुखेन तद्योजयति- मूर्धा त इति ॥

किञ्च, यदि स्वर्गलोकशब्दस्य प्रसिद्ध एवार्थः स्यात् तदा " अमुष्य लोकस्य का गतिरित्ययं लोक इति होवाच" इति पृथिव्याः स्वर्गा - श्रयत्वोक्तिरनुपपन्ना स्यात् । नचयागो होमादिभिरमुं लोकं पुष्यति । इतः प्रदानं हि देवा उपजीवन्ति' इति श्रुतेः प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेत्यतः स्वर्गलोकस्याप्ययं लोको गतिरेवेति वाच्यम् । अयं लोक इत्युक्तस्य तत्स्थयागलक्षकत्वापातात् । धरण्याः सर्वभूताश्रयत्वप्रतीता- वपि स्वर्गलोकाश्रयत्वाप्रतीतेश्च । नच पृथिव्या अधस्तनत्वात् स्वर्गस्योपरितनत्वादाश्रयाश्रयिभावोक्तिरुपपन्नेति वाच्यम् । तथा सतिअस्य लोकस्य का गतिरित्याकाश इति होवाच" इत्यस्यानुपपत्तेः । नह्यूर्ध्वलोके अधस्तलोक आश्रितः । ननु भवत्पक्षेऽपि कथमुपपत्तिः ? नहि स्वर्गाभिमानिरुद्रात् पृथिवीलोकस्य तदभिमानिधराया वोत्तमत्वम् । नवा आकाशस्य तदभिमानिगणेशस्य वा रुद्रोत्तमत्वमित्यतः प्रमाणेनैव पृथिव्याकाशशब्दार्थमाह-- ब्रह्मैवेति || अष्टमः खण्डः ।।

खण्डार्थः

त्रय उद्गीथे उद्गीथाख्यभगवद्विषये कुशला बभूवुर्ह । के ते ? शिलको नामतः शलावत्यां भवः शालावत्यः । चिकितायनस्यापत्यं चैकितायनः ।दाल्भ्यो दल्भगोत्रापत्यं दाल्भ्यो, नामत इति वा । प्रवाहणो नामतः । जिबिलस्यापत्यं जैबिलिरिति त्रय इति सम्बन्धः । ते त्रयोऽन्योन्यमूचुर्ह । किमिति ? वयमुद्गीथविषये कुशला वै निपुणाः स्मः । अतो हन्त यद्यनुमतिर्भवतां तर्हि उद्गीथे कथां वीतरागकथारूपवादकथां वदाम इति ॥ १ ॥

तथाऽस्त्वित्युक्त्वा ते ह समुपविविशुरुपविष्टवन्तः । तेषां मध्ये स प्रवाहणो जैबिलिः शिलकचेकितानौ प्रति उवाच ह । किमिति ? भगवन्तौ पूजार्हावग्रे वदताम् । अहं ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति अनेनास्य क्षत्रियत्वमवगम्यते । एवमुक्तः स शिलकः शालावत्य- वैकितायनं दाल्भ्यमुवाच । हन्त यद्यनुमतिस्तव तर्हि त्वा त्वामहं पृच्छामीति (१) । एवमुक्तो दाल्भ्यः पृच्छेति होवाच ।। २

प्रश्नोत्तरक्रमं दर्शयतिका साम्न इति ॥ साम्नः शुभाशुभानां दाहादौ साम्यात् सामनामकस्य सामाभिमानिनोऽग्नेः का गतिः ? किं मोक्षे गम्यमिति पृष्टे स्वरः स्वो विष्णू रमत्यस्मिन्निति स्वरनामकः स्वराभिमानी वरुण इति होवाच । एवमुत्तरत्रापि । प्राणः सूर्यः, उदयेन जगत्प्रणेतृत्त्वात् प्राणावराभिमानित्वाच्च । अन्नं दक्षः । रुद्रेणाद्यत्वादन्नाभिमानित्वाच्च । आप इन्द्रः । आपालनादबभिमानित्वाच्च ।

असौ लोको रुद्रः । असौ मुख्यप्राणे स्थितत्वात् प्रकाशरूपत्वाद् द्युलोकाभिमानित्वाच्च । अमुष्य लोकस्य रुद्रस्य का गतिरिति पृष्टे स्वर्गं स्वनामक विष्णुरते वा मुक्तौ गच्छतीति स्वर्गनामकं लोकं प्रकाशरूपं स्वर्गलोकाभिमानिनं रुद्रं नातिनयेद् अतिक्रम्यान्यमुत्तमत्वेन न जानीयादिति होवाच । हरेः सर्वोत्तमत्वं जानन्नपि ऋषिर्विशेषज्ञानसम्प्राप्त्यै रुद्रस्य सर्वोत्तमत्वमाह । कस्मान्न स्वर्गं लोकमतिनयेदित्यत आह- स्वर्गमिति ।। वयं स्वर्गलोकं स्वर्गाभिमानिनं रुद्रं प्रति सामाभि- संस्थापयामः सामरुद्र प्रतिपादकमिति जानीम इति यावत् । तदपि कुतः ? हि यस्मात् साम स्वर्गसंस्तावं स्वर्गाभिमानिरुद्रस्तावकमिति तस्मात् स्वर्गं लोकं प्रति सामाभिसंस्थापयाम इति सम्बन्धः ।

एवमुक्तः शिलकः शालावत्यस्तं दाल्भ्यं प्रत्युवाच ह । हे दाल्भ्य ! ते तव साम सामप्रतिपाद्यतया ज्ञातं वस्तु अप्रतिष्ठितं वै किल अपर्यवसितमेव खलु । सर्वोत्तमं न भवतीति यावत् । अतो यस्तु यः कश्चिदेतर्हि इदानीं ते तव ‘“न स्वर्गं लोकमनतिनयेत्इति वदतो मूर्धा ते विपतेदिति ब्रूयाच्चेत् तर्हि ते मूर्धा विपतिष्यति । विस्पष्टं पतिष्यति । अहं तु त्वत्स्नेहात् तथा न वदिष्यामीति भावः। इत्युवाचेति द्वितीयेतिशब्दसमन्वयः ।। ३-४॥

एवमुक्तो दाल्भ्यो यदि मदीयं सामाप्रतिष्ठितं हन्त तर्हि अहमेतत्साम भगवतः पूजार्ह्राद् वेदानीत्युवाच । एवमुक्तः शिलको विद्धीति होवाच । दाल्भ्यः पृच्छतिअमुष्येति । अमुष्य लोकस्य रुद्रस्य का गतिरिति पृष्टे अयं लोकः सर्वदेवान्तरत्वादयमिति नामकः प्रकाशरूपत्वाल्लोकनामकः पृथिव्यभिमानी ब्रह्मैवेति होवाच शिलकः । अस्य लोकस्य पृथिव्याभिमानिनो ब्रह्मणः का गतिरिति दाल्भ्येन पृष्टे न प्रतिष्ठां लोकं सर्वाधार पृथिव्यभिमानिनं ब्रह्माणमतिक्रम्यान्यमुत्तमत्वेन न जानीयादिति होवाच शिलकः शालावत्यः । प्रतिष्ठां वयमित्यादि पूर्ववत् ।

तं शिलकं शालावत्यं प्रवाहणो जैबिलिरुवाच । हे शालावत्य ते साम त्वया सामप्रतिपाद्यत्वेन ज्ञातं वस्तु अन्तवद् वै उत्तमवस्त्वन्तरोपेतमेव खत्वित्यर्थः । यस्त्वेतर्हीत्यादि पूर्ववत् । वेदानीति शिलकेनोक्ते विद्धीति होत्राच प्रवाहणः

।। ५ ॥

।। इति अष्टमखण्ड: ।।