आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म ..
उपनिषत् (खण्डः - १४ )
यशः प्रार्थना
आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवानि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्वेतमदत्कमदत्कं श्वेतं लिन्दु माऽभिगां लिन्दु माऽभिगाम् ॥ १ ॥ ॥ १४ ॥
भाष्यम्
'आकाशोऽतिप्रकाशत्वान्नामरूपे ऋते स्थितः । ब्रह्माख्यो भगवान् विष्णुस्तद्वेश्म प्राप्नुयामहम् || यशोऽहं सर्ववर्णानां मत्तोऽन्येषां (१) यशो भवेत् । सोऽहं मम यशोदातृ यशसां यश उत्तमम्॥ विष्ण्वाख्यं परमं ब्रह्म श्वेतं श्वसनगं यतः ।
अदत्कमद्यमानं कं स्वानन्दानुभवात्मकम् । लिन्दु तद्रतिदं यस्मात् तदहं प्राप्नुयां सदा । खण्डः १४ ॥
पदार्थकौमुदी
पूर्वोक्तपुण्डरीकगताकाशनामक ब्रह्मोपास्तिमेव प्रकारान्तरेणाऽह- (२) आकाशो हवा इत्यादिना खण्डेन 11 तत्राप्रतिपत्ति- विप्रतिपत्तिनिरासाय खण्डं प्रमाणेनैव व्याचष्टे - आकाश इत्यादिना ॥ अतिप्रेत्याङोऽर्थः । ते इत्यस्यार्थः – नामरूप इति || अन्तरेत्यस्यार्थः ऋत इति ।। तद् ब्रह्मेत्येतन्न चतुर्मुखपरमित्याह - ब्रह्माख्य इति ॥ “प्रजापतेः सभाम्" इत्यादि व्याचष्टे - तद्वेश्मेति ॥ अनेन प्रजापतिशब्दो विष्णुपर इत्युक्तं भवति । “यशोऽहं भवानि ब्राह्मणानाम्” इत्यादि व्याचष्टे - यशोऽहमिति । सर्ववर्णानां मध्येऽहं यशो यशस्वी भवानीत्यर्थः । " सहाहं यशसां यशः" इत्येतद् व्याचष्टे- मत्तोऽन्येषामिति ॥ अनेन सोऽहं यशसां यशस्विनामन्येषां यशः यशःप्रद इति व्याख्यातं भवति ।
‘‘यशसां यशः” इत्पेतत् प्रकारान्तरेण व्याकुर्वन् “यशोऽहमनु- प्रापत्सि”इत्येतद्व्याचष्टे- सोऽहमिति ॥ अनेन "स हाहम् " इत्यत्रत्यस्य स इत्यस्याऽवृत्तिरित्युक्तं भवति । एवं च सोऽहं यशसां यशः उत्तमयशोरूपं यद्ब्रह्म तदनुग्रहेण यशः प्रापत्सि प्राप्नुयामिति योजनोक्ता भवति । श्वेतमित्यादि व्याचष्टे - श्वेतमित्यादिना || अतः श्वेतमित्यर्थः । " अदत्कम्" इत्येतदनूद्य तेनाद्यमानं कं कीदृशमित्यपेक्षायां तद् दर्शयति अदत्कमित्यादिना ।। लिन्दुमित्येतदप्रतीतेर्व्याचष्टे – लिन्द्विति ॥ तत्परं ब्रह्म यस्माद् रतिदं तस्मालिन्द्वित्युच्यते । रो ल इति भावः । आभिगामित्येतत्तात्पर्यमाह - तदहमिति । सदेत्याङोऽर्थः ।। खण्डः १४ ॥
खण्डार्थः
आकाशः आसमन्तात् काशनादाकाशननामा हृत्पुण्डरीकस्थो विष्णुर्नामरूपयोः नामरूपात्मकप्रपञ्चयोर्निर्वहिता कर्ता, वैनामेति निपातसमुदायोऽयमर्थः प्रसिद्ध इत्याह । ते नामरूपे “अनामा सोऽप्रसिद्धत्वादरूपो भूतवर्जनात् ' इत्युक्तदिशा अन्तरा विना यदस्ति तद्ब्रह्म तदमृतं नित्यमुक्तं स आत्मा आदानादिकर्ता । तात्पर्यद्योतनाय पृथग् योगकरणम् । उपासनाकरणकाले कर्तव्यमभिसन्धिमाह - प्रजापते- रिति ।। प्रजापतेः विष्णोः सभां समितिं वेश्म गृहं प्रपद्ये प्राप्नुयाम् । ब्राह्मणानां मध्ये यशस्वी भवामीत्यर्थः । एवं यशो राज्ञामित्यादि योज्यम् । स इत्येतद्वक्ष्यमाणमत्रापि सम्बद्ध्यते । यशसां यशस्विनां यशः यशःप्रदः सोऽहं यद् यशसां य़शः उत्तमयशोरूपं श्वेतं श्वसनगं कं स्वानन्दानुभवात्मकम् अत्तीत्यदत्कं परब्रह्म तदनुग्रहेण यशः प्रापत्स प्राप्तवानस्मि । “स हाहम्" इत्यस्योत्तरवाक्येऽन्वयः । सोऽहं हेत्यास्वादने । यन्मम यशोदातृ तदेवादत्कं श्वेतं, लिन्दुं रतिदम् आ सदा अभिगां प्राप्नुयामिति वेदपुरुषस्य ब्रह्मणो वाक्यम् । पुनरुक्तिः पूर्ववत् ।। चतुर्दशः खण्डः ॥ १४ ॥