यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति ..

उपनिषत् (खण्डः-२१)

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ।। १ ।। २१ ।।

उपनिषत् (खण्डः-२२)

यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ।। १ ।। २२ ॥

भाष्यम्

स एव सर्वकर्ता च सुपूर्णानन्दरूपकः ।

पदार्थकौमुदी

सुखशब्देन सुखमात्रग्रहणप्रतीतिनिरासायोक्तम् - सुपूर्णेति ।