अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या ..
ऋग्वेदादिस्तु ते देवा अग्याद्याः संव्यचारयन्
न चाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम्
यशस्तेजइन्द्रियवीर्यात्राद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते
न चाचेतनस्यैश्वर्यादिरूपत्वं युज्यते
उपनिषत्त्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम्
'यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या ..
उपनिषत् ( खण्ड: - ५)
मधुनामकनारायणोपासना
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥५॥
भाष्यम्
गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह । सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते । ब्रह्मेति सर्ववेदानां नामानन्तत्वतः स्मृतम् ॥
पदार्थकौमुदी
पञ्चमं वाक्यं व्याख्याति - गुह्येति । श्रुतौ पार्थक्येन प्रयोगेऽपि गुह्यादेशा इत्येकमेव पदमिति भावेन गुह्यादेश इत्युक्तम् । ये ब्रह्मदे योग्यास्ते ब्रह्मणा सह गुह्यादेशा गुह्यादेशशब्दवाच्या इत्यर्थः । केन निमित्तेन तच्छब्दवाच्यत्वं तेषामित्यपेक्षायामाह - सर्वेति ॥ अनेन गुह्यं गोप्यम् आदिशन्तीति निरुक्त्या सर्वगुह्योपदेष्टृत्वं निमित्तमुक्तं भवति । तदुपपादयति – सर्वेषामिति ॥ ते ऋजवो हि यस्मात् सर्वेषां गुरवः तस्मात् सर्वगुह्योपदेष्टार इति सम्बन्धः । “ब्रह्मैव पुष्पम्” इत्येतत् शब्दाधिकारात् । प्रणवाख्यं पुष्पमित्यपव्याख्यानमिति सूचयन् सम्यग्व्याचष्टे – ब्रह्मेति ॥ ब्रह्मशब्दप्रवृत्तिनिमित्तवत्वे न तन्नामकत्वं युक्तमित्याशयेनाऽह - अनन्तत्वत इति ॥ " अनन्ता वै वेदाः" इति श्रुतेरनन्तसङ्ख्याकत्वतः । वृद्ध्यर्थकवृहधातोरानन्त्यमप्यर्थ एवेति भावः ।