अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति ..

उपनिषत् ( खण्डः - ११ )

गार्हपत्याग्निना पृथिव्यादिस्थभगवदुपदेशः

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ ११ ॥

उपनिषत् (खण्डः- १२)

अन्वाहार्यपचनाग्निना जलादिस्थभगवदुपदेशः

अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥१२॥

उपनिषत् (खण्डः-१३)

आहवनीयाग्निना प्राणादिस्थभगवदुपदेशः

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ १३ ॥

भाष्यम्

'पृथुत्वात् पृथिवी विष्णुरग्निश्चाप्यङ्गनेतृतः । अन्नमत्तृत्वतो नित्यमादित्यश्वादिरूपतः ॥ आप आपालनाच्चैव देशनाद्दिश एव च । अनन्यराजो नक्षत्रमानन्दत्वाच्च चन्द्रमाः ॥ प्राणोऽसौ बलरूपत्वादाकाशः पूर्तिहेतुतः । द्यौः प्रकाशस्वरूपत्वाद्वेदनाद् विद्युदेव च ॥ यः सोमसूर्यविद्युत्सु (१) तत्तन्नामा हरिः परः । अहेयत्वादहनामा गार्हपत्यादिसंस्थितः ।।' इति तत्त्वसंहितायाम् ।

'सोऽहमस्मि' इति वाक्यस्य जीवब्रह्मैक्यपरत्वनिरासः

जीवैक्यपक्षे आदित्ये पुरुषश्चन्द्रमसि विद्युतीति भेदव्यपदेशो न युज्यते । 'पृथिव्यग्निरन्नमादित्यः ' ' आदित्ये पुरुषः' इत्यादिना आदित्यादिशब्दवाच्यौ प्रथमार्थः सप्तम्यर्थश्च द्वौ प्रतीयेते । अतो नैक्यमुच्यते । स एवाहमस्मीत्यन्तर्यामिणोः सर्वविशेषाभाव- ज्ञापनार्थम् (१) । पूर्वं सोऽहमस्मीत्यभेदे तात्पर्याधिक्यज्ञापनाय । 'अहमस्म्यादिकाः शब्दा अन्तर्यामिणि मुख्यतः ॥ तत्सम्बन्धाज्जीवगाश्च तस्माद् वेदगता हरौ । अस्माच्छब्दोदितोऽन्तःस्थ आत्मा व्याप्तो जनार्दनः । अग्रयो द्विविधं विष्णुमवोचनुपकोसले ||' इति सामसंहितायाम् । नास्यापरपुरुषाः क्षीयन्ते भृत्यवानेव भवति । लोकी भगवल्लोकी भवति ॥ १३ ॥

पदार्थकौमुदी

एवमग्निभिः सम्भूयोक्तां परापरब्रह्मविद्यां निरूप्येदान पृथक्- पृथुगुक्तां परब्रह्मविद्यामेव निरूपयति - अथेत्यादिना खण्डत्रयेण ॥ तत्र " पृथिव्यग्निरन्नमादित्यः इति ममैताश्चतस्रस्तनवः " तत् " य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि गार्हपत्योऽग्निः यश्च गार्हपत्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मि। एवम्आपो दिशश्चन्द्रमा नक्षत्राणि " इत्यादिकं व्याख्येयमिति व्याख्यानमसत् । ब्रह्मेत्यस्यानुवृत्तिसम्भवे ‘‘ममैतास्तनवःइत्यश्रुतकल्पनायोगात् । अन्यथोपनिषदोऽब्रह्म-विद्यात्वापातात् । नच पृथिव्यादीनां जडानां वा गार्हपत्यादितनुत्वे किञ्चिन्मानम् । अस्ति च तेषां ब्रह्मत्वे सम्यङ् मानमित्याशयेनाऽगमेनैव तद्व्याचष्टेपृथुत्वादिति । विस्तीर्णत्वात् । विष्णुरिति सर्वत्रानुवर्तते । चापिशब्दावितरेतरसमुच्चये । अङ्गं शरीरमप्रधानं जगद्वा । आदिरूपतः कारणरूपत्वादादौ विद्यमानस्वरूपत्वाद्वेत्यर्थः । आदिशब्दाद् भवार्थे त्यप् । आपश्च आपालनादेव । दिशश्च देशनादेव । नतु तत्तदभेदेनेत्ये- वार्थः । न विद्यते स्वस्मादन्यो राजेत्यनन्यराजो यतस्ततः । चन्द्रमाश्च | पूर्तिहेतुतो व्याप्तिहेतुतः । वेदनादेव । " य एष आदित्ये " " य एष चन्द्रमसि " " य एष विद्युति" इति वाक्यत्रयं गार्हपत्यादेरादित्यादे- वैक्यमत्रोच्यत इति व्याख्याननिरासाय व्याचष्टे - य इति । " स एव " इति शेषः । किमेवमन्तर्याम्यैक्यपरत्वग्रहेण ? गार्हपत्यादेर्जीवस्याऽदि- त्यादिजीवैक्यमेवोच्यत इति किं न स्यादित्यत आह वैक्ये | जीवैक्यपक्षे गार्हपत्यादिजीवानाम् आदित्यादिजीवानां चैक्यपक्षे । यद्युक्तरीत्या जीवैक्यमत्र विवक्षितं स्यात् तर्हि " य एष आदित्यः पुरुष:’” इत्यादिप्रथमानिर्देशः स्यात् । नत्वादित्य इत्यादिसप्तमीनिर्देशः । तेनाऽदित्यादिस्थपुरुषैक्यलाभेऽपि नाऽदित्याद्यैक्यं लभ्यते । आदित्या- दिशब्दानां च तत्तन्मण्डलपरत्वाङ्गीकारे वृथा मुख्यार्थत्याग इति भावः ।

(१) यद्वा "आदित्ये पुरुष : " इत्याद्युक्तब्रह्मणो जीवैक्यपक्षे । यच्चोक्तंपृथिव्यग्निरन्नमादित्यः” “आपो दिशो नक्षत्राणि चन्द्रमा: " इत्यादावुक्ता एवाऽदित्यचन्द्रविद्युतो " य एष आदित्येइत्यादिनोत्तर- वाक्ये कथ्यन्त इति तदसदिति भावेनाऽह - पृथिवीति ।। सप्तम्यर्थ एकः प्रथमार्थश्चैक इति द्वौ प्रतीयेते । तस्मान्न पूर्ववाक्योक्त एवात्रोक्त इति (१) 'यद्वा' इति वाक्यं कचिन्न दृश्यते ।भावः । यद्वा तर्हिपृथिव्यग्निरन्नमादित्यःइत्यादिकं ( १ ) ब्रह्मपर- मित्ययुक्तम् । तत्राऽदित्यचन्द्रमोविद्युच्छब्दानां श्रवणात् । तेषां चोत्तरवाक्ये जीवपरत्वात् । नचैकस्मिन्नेव प्रकरणे ज्ञापकं विनैकेनैव शब्देन भिन्नार्थग्रहणं युक्तमित्यत आह पृथिवीति ।। यत एवं भिन्न- विभक्तिनिर्दिष्टत्वं ज्ञापकमस्ति अतोऽत्र प्रकरणे पूर्वोत्तरादित्यशब्देन नैकं वस्तूच्यत इत्यर्थः । किञ्च विशिष्टजीवैक्यं त्वत्पक्षेऽपि नास्ति । लक्षणया चैतन्यैक्याङ्गीकारस्त्वगतिका गतिरिति भावेनोपसंहरतिअत इति । एवं बाधकसद्भावात् " सोऽहमस्मि " इति वाक्येन न जीवैक्य- मुच्यत इत्यर्थः ।

किञ्च, चैतन्यैक्यमपि ‘“सोऽहमस्मि' ' इति पूर्ववाक्येनैव बोधितमितिस एवाहमस्मि'' इति त्र्यर्थम् । नहि यद् येनाभिन्नं तत् तेन भिन्नमिति सम्भवतीति भावेन स्वपक्षे तं दोषमुद्धरति स एवेति ॥ सत्यपि धर्मविदुरयोरैक्येऽस्त्येव विशेषः परस्परगताशेषाननुसन्धानरूपः । तत्रसोऽहमस्मि'' इति गार्हपत्याद्यन्तर्यामिणः सूर्याद्यन्तर्याम्यैक्योक्तौ धर्म- विदुरादिसाधारण्यशङ्कायां तन्निरासाय " स एवाहमस्मि" इति साव- धारणोक्त्योक्तसर्वंविशेषविनिर्मुक्तमेवैक्यं बोध्यत इत्यर्थः । तर्हि "स एवाहमस्मि" इति सावधारणैक्योक्त्यैव सर्वविशेषविनिर्मुक्ताभेदसिद्धेःसोऽहमस्मि'' इति पूर्वं व्यर्थमित्यत आहपूर्वमिति । अन्तर्याम्य- भेदेऽन्तर्यामिण्यहमादिशब्दप्रवृत्तिं स्मारयति - अहमिति । प्रसिद्धि - विरोध इत्यत आह - तत्सम्बन्धादिति । समाकर्षाधिकरणन्यायेनेति भावः । तस्माद् वेदगता अहमस्म्यादिकाः शब्दाः हरावन्तर्यामिरूप एव वर्तन्ते । मुख्यासम्भव एवामुख्यस्य ग्राह्यत्वादिति भावः ।

एतेन " प्राणो ब्रह्म कम्' इति विद्यां पृथिव्यग्निरन्नमादित्यः " इत्यादिविद्यां चोक्त्वोत्तरखण्डेऽग्निभिःउपकोसलैषा सोम्य तेऽस्म- द्विद्या चात्मविद्या च' इत्युक्तत्वेनाऽद्या ब्रह्मविद्या द्वितीयाऽग्नि- विद्यैवेति युक्तमित्यपि निरस्तम् । अस्मद्विद्येत्यस्यान्तर्यामिविद्येत्य- र्थोपपत्तेः । एवं तर्ह्यात्मविद्येति पृथगुक्तिविरोधः । अन्तर्यामिणोऽ- प्यात्मत्वादित्यत आह- अस्मच्छन्दोदित इति ॥ जनार्दन इति द्वि- विधम् । उपकोसल इति तादर्थ्ये सप्तमी । किञ्चपृथिव्यग्निःइत्यादिविद्यामुक्त्वाअपहते पापकृत्याम्" इत्यादिना तज्ज्ञानान्मोक्षः श्रूयते । नह्यविज्ञानान्मोक्ष उपपद्यते । नन्वपहतपापकृत्यत्वादीनां मुख्यानां संसारिण्यसम्भवेऽपि " नास्यापरपुरुषाः क्षीयन्ते" इत्युक्तं भृत्यवत्त्वं सम्भवत्येवेत्यतस्तदपि मुक्तज्ञापकतयैवानूद्य व्याचष्टे नास्येति || ‘“द्वौ नञौइति न्यायसाम्येन " भृत्यवानेव’”इत्युक्तम् । नतु कदाचिदभृत्यः । संसारिणस्तु कदाचिदभृत्यत्वदर्शनान्न नियम इति भावः । स्वर्गादिलोकित्वं संसारिणोऽपीत्यतस्तदपि मुक्तज्ञापकतया व्याचष्टेलोकीति ।। मुख्यासम्भव एवामुख्याश्रयणमिति भावः ।।

खण्डार्थः

अथ सम्भूयोपदेशानन्तरमेनमुपकोसलं गार्हपत्योऽनुशशास । किमिति ? पृथिव्यग्निरन्नमादित्य इति । "कं ब्रह्म'' इत्यतोऽनुवृत्तस्य ब्रह्मेत्यस्य सर्वत्रान्वयः । पृथुत्वादिना पृथिव्यादिनामकं ब्रह्मेत्यर्थः । एवं व्याप्तात्मविद्यामुक्त्वा स्वान्तर्यामिविद्यामाह - य इति ।। आदित्ये य एष पुरुष: पूर्णषड्गुणो भगवान् दृश्यते दिव्यदृष्ट्या सोऽहमहेयत्वादहनामा गार्हपत्यस्थोऽस्मि । आदित्यस्थस्य मदन्तर्यामिणश्च न विदुरधर्मादि- वदभेदः। किन्तु न कोऽपि विशेष इति भावेनाऽह - स एवेति ॥ १ ॥

उपासकस्य फलमाहस इति ॥ योऽधिकारी एतं व्याप्तमन्तर्यामिणं च विष्णुं विद्वानुपास्ते स पापकृत्यामपहते । लोकी भगवल्लोकीभवति । अत एव सर्वमायुरेति । ज्योक् सर्वज्ञः सन् जीवति । अस्योपासकस्यापरपुरुषाः भृत्याः न क्षीयन्ते । भृत्यवानेव भवति । भृत्याशासनमेवाऽहउपेति । यः एतमेवं विद्वानुपास्ते तं वयं सर्वे अस्मिंश्वामुष्मिंश्च लोके उपभुञ्जामः उपजीवाम इति । एवमुत्तरखण्ड- द्वयमपि व्याख्येयम् ।।

इति एकादश - द्वादश- त्रयोदशखण्डाः ॥ ११ ॥ १२ ॥ १३ ॥