अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेति उदानस्तृप्यति
उपनिषत् (खण्डः - २३)
'उदानाय स्वाहा' इत्याहुतेः फलवर्णनम्
अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेति उदानस्तृप्यति ॥ १ ॥
उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यति आकाशस्तृप्यति आकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्चाधितिष्ठतः तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २३ ॥
भाष्यम्
उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः ॥ स एवाऽकाशनामा च लक्ष्म्याविष्टो विशेषतः ।पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च ॥ वायुपत्नी समुद्दिष्टा तत्तद्वाराधिपाश्च ते । अधितिष्ठन्ति ते सर्वे नारायणमनामयम् ॥ यद्विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपत: (१) । एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियौ ॥
वैश्वानरोपासकानां नानावर्गनिरूपणम्
सूर्यप्रसादात्तुं नराः पूर्वद्वारेण केशवम् । प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा ॥ द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु । अग्निप्रसादाद् ऋषय उत्तरेणेन्द्रसंश्रयात् । शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेण हरिं सुराः ॥ वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः ।
पदार्थकौमुदी
उदानाहुतितृप्यतयोक्तयोरुदानवाय्वोर्भेदशङ्कायां तावदाह- उदान इति ॥ आकाशस्यापि भेदशङ्कामपाकरोति - स एवेति । अन्यथा “ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशः" इत्युक्त- विरोधोऽनुवादायोगश्चेति भावः । ननु वायोरेवाऽकाशनामकत्वे "वायुश्चाऽकाशश्च" इति पृथगुक्तिरनुपपन्नेत्यत आह- लक्ष्म्याविष्ट इति ।। रूपान्तरस्यापि लक्ष्म्याविष्टत्वाद् “विशेषतः” इत्युक्तम् । एवं च केवलो वायुर्वायुशब्देनोच्यत इति न पृथगुक्तिरनुपपन्नेति भावः । "वायुश्चाऽकाशश्च" इति वाक्यविचारप्रसङ्गात् ।
“द्यौश्वाऽदित्यश्च” “दिशश्च चन्द्रमाश्च" "पृथिवी चाग्निश्च " “विद्युच्च पर्जन्यश्च'' इत्युक्तानां द्युदिक्पृथिवीविद्युच्छब्दानामभिधेय- माह - पृथिवीति ॥ तुशब्दोऽवधारणे । वायुपयेव । नन्वेवं “आदित्ये तृप्यति द्यौस्तृप्यति” इत्यादिनाऽऽदित्यादितृप्तौ कथं द्वयादीनां तृप्त्यु- क्तिः । अन्यतृप्तावन्यतृप्तेः कारणविशेषमन्तरेणासम्भवादित्यत आह - तत्तदिति ॥ ते पृथिव्यादिनामकाश्च । तत्र पृथिवीनामिका श्रीः पश्चिमद्वारपा, वायुपत्नी तु पूर्वदक्षिणोत्तरद्वारपेति विवेकः । नन्वादि - त्यादीनां पृथिव्यादीनां च द्वारपत्वं नात्र श्रुतावुक्तमित्यत आह- अधितिष्ठिन्तीति ।। तस्मादधितिष्ठन्तीत्युक्तिरिति शेषः । अनामयम् आमयोपलक्षितदोषशून्यमिति नारायणशब्दव्याख्यानम् । ननु श्रुतौ यत् किं चेति श्रवणात् कथं नारायणमित्युक्तमित्यतो यत्- किंशब्दावपि भग- वत्परतया व्याचष्टे– यदिति । चशब्दो विशेषणसमुच्चायक इति भावः । " तत्तृप्यति' ' इति वाक्यपञ्चकं व्याचष्टे - एतेष्विति ॥ कथमन्यतृप्ताव - न्यतृप्तिरित्यत आह- एषामिति ।।
" तस्यानुतृप्तिं तृप्यति प्रजया पशुभिः" इत्यादिवाक्यंपञ्चकेनो- पासकस्यैहिकमेव फलमुच्यते । न केवलमेतावत् । मौक्तं चास्ति । “प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् वेद" इत्युक्तेरिति भावेन तत्र विशेषमाह - सूर्येति ॥ अनेन नराः पूर्वद्वारपोपासका इत्यादिविशेषो ज्ञायते । हृदयस्थपूर्वद्वारपोपासनेन श्वेतद्वीपादिलोके पूर्वद्वारेण केशवं प्राप्नुवन्तीत्यादि ज्ञेयम् । किं सूर्यादिप्रसादेनैव ह यान्ति ? नेत्याह- वैश्वानरेति ॥
खण्डार्थः
आकाशो वायुः अधितिष्ठतः ऊर्ध्वद्वारपत्वेन ॥
।। इति त्रयोविंशः खण्डः ॥