यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च ..
॥ अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते पञ्चमाध्याये प्रथमः खण्डः ।।
उपनिषत्
( इन्द्रियाभिमानिनां मुख्यप्राणाधीनत्वनिरूपणम् )
|| ॐ || यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ हरिः ॐ । संवर्गविद्यायामग्र्यादिसर्वभक्षकतया यज्ञविद्यायां सर्वसिद्धिकर्तृत्वेन वायुः प्रकृतः । मुमुक्षोस्तत्प्रसादस्य सर्वथाऽपेक्षितत्वात् तद्विषयां प्राणविद्यामाह - यो हवा इति ॥ प्रसिद्धो योऽधिकारी ज्येष्ठं वयसोत्तमं श्रेष्ठं गुणत उत्तमं वेद स मुक्तौ स्वजातीयानां मध्ये ज्येष्ठश्च श्रेष्ठश्च भवति ह वै । को वा ज्येष्ठश्च श्रेष्ठश्चेत्यत आह- प्राणो वा इति ॥ १ ॥
उपनिषत्
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग् वाव वसिष्ठः ॥२॥
छान्दोग्योपनिषत्खण्डार्थः
यो हवै वसिष्ठं वसतामुत्तमं वाक् वागिन्द्रियमानी वह्निः । वसिष्ठः समीपे वसतामुत्तमः ॥२॥
उपनिषत्
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रतिष्ठां स्थितिहेत्विन्द्रियदैवतम् । प्रतितिष्ठति यत्र स्थातुमिच्छति तत्र सुखं तिष्ठतीत्यर्थः । चक्षुश्चक्षुर्मानी सूर्यः |
॥ ३ ॥
उपनिषत्
यो ह वै सम्पदं वेद सर्वं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
सम्पदं सम्पद्धेत्विन्द्रियमानिनम् । सम्पद्यन्ते दैवाश्च मानुषाश्च कामा इत्यन्वयः । श्रोत्रं श्रोत्रमानीन्द्रः ॥ ४ ॥
उपनिषत्
यो ह वा आयतनं वेदाऽयतनं ह स्वानां भवति मनो ह वा आयतनम् ॥५॥
छान्दोग्योपनिषत्खण्डार्थः
आयतनं गृहप्रासादाद्यायतनहेत्विन्द्रियमानिनं मनः मनोभिमानी रुद्रः ॥५॥
उपनिषत्
अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
वायोः संहर्तृत्वोपयुक्तमतिबलिष्ठत्वं मीमांसया साधयति-- अथ हेति । प्राणाः वागादीन्द्रियमानिन: अहंश्रेयसि अहं श्रेयानहं श्रेयानित्येवं स्वस्वत्रैष्ठ्यविषये व्यूदिरे विवादं कृतवन्तः । अहं श्रेयसीत्युक्तं व्यनक्ति अहमिति ।। इति व्यूदिरे इत्यन्वयः ॥ ६ ॥
उपनिषत्
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन् को नः श्रेष्ठ इति तान् होवाच यस्मिन् व उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ।। ७ ।।
छान्दोग्योपनिषत्खण्डार्थः
ते एवं विवदमानाः प्राणाः वागाद्यभिमानिनो वह्नयाद्याः पितरं प्रजापतिं ब्रह्माणमेत्य प्राप्य हे भगवन् ! नोऽस्माकं मध्ये कः श्रेष्ठ इत्यूचुरित्यन्वयः । वो युष्माकं मध्ये यस्मिन्नुत्क्रान्त इदं मदीयं शरीरं पापिष्ठतरमिव हेयमिव शवतुल्यं दृश्येत त्रः युष्माकं मध्ये सश्रेष्ठ इति तान् प्राणानुवाच ह ब्रह्मेति योजना ।। ७ ।।
उपनिषत्
साह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽकला अवदन्तः प्राणन्तः प्राणेन पश्यन्त-चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ।। ८ ।।
छान्दोग्योपनिषत्खण्डार्थः
एवं प्रजापतिनोक्ता देवाः ब्रह्मदेहादुत्क्रान्ताः । तथाऽपि देहो न पापिष्ठ आसीत् मुख्यवायोरुत्क्रान्तौ तथाऽऽसीदित्याह् वागादयो देवा इति ज्ञेयम् । उच्चक्राम विरि देहान्निर्ययौ । प्रोष्य प्रवासं कृत्वा, पर्येत्य आगत्य, मदृते जीवितुं कथमशकत शक्ता अभवन् भवन्त इति देहस्थानन्यान् देवानुवाचेति योजना ।। ८ ।।
उपनिषत्
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा अन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिराः अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमग्रेऽपि । एवमुक्तास्ते वाचं प्रत्यूचुः यथेत्यादि ।। अकलाः मूकाः । प्राणेन प्राणेन प्राणन्तः श्वसन्तः । एवमजीविष्मेत्यूचुरित्यर्थः । एवमग्रेऽपि ज्ञेयम् ।। ९ ।। १०॥
उपनिषत्
मनो होच्चक्राम तत् संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥। ११ ॥
छान्दोग्योपनिषत्खण्डार्थः
अमनसः प्राणेतरमनोभिमान्यनधिष्ठितमनस्काः ।। ११ ।।
उपनिषत्
अथ ह प्राणः उच्चिक्रमिषन् स यथा सुहयः पट्वीशशङ्कून् सङ्खिदेदेवमितरान् प्राणान् समाखिदत् तं ह अभिसमेत्योेचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥
छान्दोग्योपनिषत्खण्डार्थः
पद्वीशशत्रून् हयबन्धनरज्ज्वाश्रयाणीन् समखिदत् उद्वबर्ह । तं प्राणं सर्वे वागादयो देवाः अभिसमेत्य हे भगवन् ! एधि भव, आस्स्वेति यावत् । मोत्क्रमीः, नो अस्माकं मध्ये त्वं श्रेष्ठोऽसीत्यूचुः ॥ १२ ॥
उपनिषत्
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति ॥ १३ ॥
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥
छान्दोग्योपनिषत्खण्डार्थः
श्रेष्ठोऽसीत्युक्तं गुणत आधिक्यं विविच्याsह-अथ हैनमिति || वसिष्ठत्वादयो वागादीनां ये गुणाः ते सर्वे प्राणे मुख्याः । वागादिष्वस्मासु त्वौपचारिकास्त्वदधीना इति वागादयः प्राणं विज्ञापितवन्त इति वागुवाचेत्यादिवाक्यचतुष्टयस्यार्थः । अहं वसिष्ठाऽस्मीति यत् तद्वसिष्ठ स्त्वमसीत्यादियोजना ।। १३ ।। १४ ।।
उपनिषत्
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
वसिष्ठत्वादिकं प्राणाधीनमित्यत्र ज्ञापकमाह न वै वाच इत्या- दिना ।। वागादीन्द्रियाभिमानिनो न वागादयोऽभवन् । स्वातन्त्र्येण स्वब्यापारदक्षा न भवन्तीत्याचक्षते प्राज्ञाः । तर्हि किमधीनाः सन्तः स्वस्वव्यापारदक्षा इत्यत आह प्राण इति ।। वागादीन्द्रियजातं प्राणा इत्येवाऽचक्षते । कुतः ? हि यस्मात् सर्वाणि एतानि वागादीनि प्राण एव भवति, प्राणोऽधिष्ठाता तेषामत इति ।। १५ ।। इति प्रथमः खण्डः ।।
अथ द्वितीयः खण्डः
उपनिषत्
( अस्माभिरद्यमानं सर्वं मुख्यप्राणस्यान्नसमर्पणमेव )
स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
त्वं नः श्रेष्ठोऽसीत्युक्त्या श्रेष्ठश्वेदहं तर्हि ममान्नं सर्वैः कल्प्यतामित्याह- स हेति । स प्राणः किमन्नं मे भविष्यतीत्युवाच । श्वपक्षिपर्यन्तं प्राणिजातं यत्किञ्चिदिदं योग्यमन्नमत्ति तत्तेऽन्न- मित्यूचुरित्यर्थः । प्राणैरम्यादिभिर्दत्तमन्नं पूर्वमपि तदीयमेवेत्याह - तद्रा (१) एतत् सर्वप्राणिभिरद्यमानम् अनस्य प्राणस्यान्नं वै कुतः ? इत्यतस्तस्य सर्वेन्द्रियाधिष्ठातृत्वादित्याह् - अनो ह वै नाम प्रत्यक्षमिति || अक्षेषु इन्द्रियेषु प्रति प्रतिस्थितः । शब्दस्वाभाव्यान्नपुंसकता । फलमाह - न ह वा इति । एवंविदि सर्वं प्राणस्यान्नमिति ज्ञानिनि किञ्चनानन्नं न भवति हवै । सर्वमस्यान्नं भवतीत्यर्थः ॥ १ ।।
उपनिषत्
( भोजनपूर्वोत्तरयोरापोदानं प्राणदेवस्य वस्त्रसमर्पणम् )
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
किं मे वासो वसनं भविष्यतीति स प्राणः पुनरुवाच । आपः प्राणिभिः पीयमाना आपस्ते वास इति प्राणा ऊचुरित्यर्थः । तत्र वृद्धाचारं प्रमाण- १. अत्र 'तद्वेति' इति प्रतीको धर्तव्य इति भाति ।यति - तस्मादिति । प्राणस्यान्नमानिनो वस्त्ररूपत्वादेवैतदन्नम् अशिष्यन्तो भोक्ष्यमाणाः पुरस्तादुपरिष्टाच्चाद्भिः परिदधति आच्छादयन्ति पूर्वोत्तरापोऽशनं कुर्वन्ति । वासो वसनं लम्भुको लब्धा भवति । अनग्नो भवति प्राण इति बुद्ध्याऽद्भिः परिदधतीत्यर्थः । यद्वा, प्राणस्य वस्त्रबुद्ध्या भोजनोभयतोऽपः पिबन् इहामुत्र च वासो लम्भुको भवत्यनग्नो भवतीति ज्ञानपूर्वकमनुतिष्ठतः फलवाक्यमिदम् ॥ २ ॥
उपनिषत्
( प्राणतत्त्वज्ञानस्य मोक्षसाधनत्वनिरूपणम् )
तद्वैतत् सत्यकाम जाबालो गोश्रुतये वैय्याघ्रपद्यायोक्त्वोवाच यद्यप्येतच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
इयं प्राणविद्यापरम्परा गता चेत्याह - तद्वैतदिति । तदेतत् तामेतां प्राणविद्यां सत्यकामो जावालो नाम्ना गोश्रुतये वैयाघ्रपद्याय व्याघ्रपात्पुत्रायोक्त्वा फलं चोवाच तत्फलमाह यद्यपीति ॥ प्राणविद्यायां योग्यां यदि कर्मवशात् स्थाणुतां प्राप्याऽस्ते तादृशाय शुष्काय स्थाणवेऽपि यदि एतद् एतां प्राणविद्यां ब्रूयाद् अस्मिन् स्थाणौ शाखाः जायेरन्। पलाशानि पर्णानि प्ररोहेयुरित्युवाचेत्यन्वयः ॥ ३ ।।
उपनिषत्
( मन्थहोमेन महत्त्वप्राप्तिकथनम् )
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय
स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्राणोपास्त्यङ्गभूतं महत्त्वप्रापकं होमं द्रव्यमन्त्रहोमप्रकारादिपूर्वमाह - अथ यदीत्यादिना || महत् महत्त्वं जिगमिषेत् प्राप्तुमिच्छेत् । सर्वौषधस्य सर्वधान्यस्य मन्थं वितुषीकरणेनाऽलोडितं पिष्टं दधिमधुनोः दधिमधुभ्याम् उपमथ्य सम्पिष्य, आज्यस्य हुत्वा आज्याहुतिं ज्येष्ठाय श्रेष्ठाय स्वाहेति कृत्वा, आज्यस्य सम्पातं सम्पातनं धारां मन्थे अवनयेत् ॥ ४ ॥
उपनिषत्
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमनयेदायतनाय स्वाहेत्यग्नावाज्यास्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं वसिष्ठायेत्यादिवाक्यचतुष्टयस्याप्यर्थो ध्येयः ॥ ५ ॥
उपनिषत्
अथ प्रतिसृप्याजलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठं श्रैष्ठं राज्यमाधिपत्यं गमयत्यहमेवेदं सर्वमसानीति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेत्यर्थान्तरे । मन्थं प्रतिसृष्य प्राप्याञ्जलौ निधाय जपति जपेत् । मन्त्रमाह – अमोनामेति । मन्थमानिनं प्राणं प्रत्युच्यते । हे अम अमित त्वं अमोनामाऽसि अमितोऽसि । कुतः ? हि यतः इदं सर्वं ते तव त्वत्स्वामिकम्। अतः स हि मन्थदेवः प्राणो ज्येष्ठः श्रेष्ठो राजा अधिपतिः । स मन्थदेवः मा मां समानेभ्यः ज्येष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं च गम- यतु । अहमेवेदं सर्वं स्वयोग्यपूर्णः असानि भवानीति जपतीत्यन्वयः ॥ ६ ॥
उपनिषत्
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं मन्थं जप्त्वा मन्त्रपूर्वं तद्भक्षणमाह- अथेति । अनन्तरम् एतया ऋचा आचामति, ‘चमु अदने ' अत्तीत्यर्थः । ' तत्सवितु:' इति मन्त्रेण, पच्छः पादशः । त्रिरवदाय भक्षयित्वा चरमपादेन सर्वं भक्षयेदित्याह तत्सवितुरिति । तत्सवितुः जगत्प्रसवितुः देवस्य विष्णोः सकाशाद् वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे प्राप्नुवाम । भगस्य समग्रैश्वर्यादि- सर्वगुणस्वरूपस्य विष्णोः भृत्यरूपं तुरं वायुं सर्वधातुषूत्तमं च धीमहि ध्यायेमेति मन्त्रार्थः ॥ ७ ॥
उपनिषत्
निर्णिज्य कसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
कंसं चमसं वा मन्थपात्रं निर्णिज्य प्रक्षाल्याग्नेः पश्चात् संविशति स्वपेत् । चर्मणि कृष्णाजिने व्याघ्रचर्मणि वा स्थण्डिले वा केवलायां वा भुवि वाचंयमो मौनी, अप्रसाहः स्त्रीरहितः, संविशतीति पूर्वेणान्वयः । स यदि स्वप्ने स्त्रियं सुमङ्गलीं पश्येत् समृद्धं सफलं कर्मेति विद्यात् ॥ ८ ॥
उपनिषत्
तदेष श्लोकः
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शन इति ॥ ९ ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
स्त्रीदर्शनं कर्मसमृद्धिज्ञापकमित्यत्र श्लोकं प्रमाणयति - तदेष इति ॥ तत् तत्र उक्तेऽर्थे काम्येषु कर्मसु क्रियमाणेषु यदा यदि तत्र तर्हि स्वप्ननिदर्शने स्वप्राख्यदृष्टान्ते जाते सति समृद्धिं जानीयादित्यर्थः । तदाह सूत्रे 'सूचकच हि श्रुतेराचक्षते च तद्विदः' (ब्र. सू. ३ - २-४ ) इति ।। इति द्वितीयः खण्डः ।। ॥ ९ ॥
।। इति द्वितीयः खण्डः ।।
अथ तृतीयः खण्डः
उपनिषत्
( देवयानपितृयाणमार्गनिरूपणम् )
श्वेतकेतुर्ह आरुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैबलिरुवाच कुमारानु त्वाऽशिषत् पितेत्यनु हि भगव इति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
यो हवै ज्येष्ठमित्यादिना स्वसमानाधिक्यापादकविद्योक्ता । सर्व- पापालेपपुण्यलोकापादकपञ्चाग्निविद्यां सोपोद्घातमाख्यायिकयाऽष्टभिः पर्वभिराह— श्वेतकेतुरित्यादिकया ॥ श्वेतकेतुर्नामतः, अरुणेरपत्य-मारुणेयः पञ्चालानां पञ्चालदेशीयजनानां समितिं सभामेयाय प्राप्तवान् । तं ह श्वेतकेतुं प्रवाहणो नाम राजा जिबिलस्यापत्यं जैबिलिरुवाच हे कुमारा ३ इति सम्बोध्य ते पिता त्वा त्वाम् अनुशिषद् अन्वशिषद् विद्यामुप- दिष्टवान् किमित्युवाचेत्यर्थः । कुमार आह - हे भगवः ! अनुशिषदित्य- नुकर्षः । अनुशिष्टोऽस्मि पित्रेत्युवाचेत्यर्थः ॥ १ ॥
उपनिषत्
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति । वेत्थ यथा पुनरावर्तन्ता३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
इति तेनोक्तो राजा पप्रच्छेत्याह श्रुतिः - वेत्थेति ॥ यद् अधि अधिकृत्य इतो लोकात् प्रयन्ति गच्छन्ति तद् वेत्थ जानासि किमिति पप्रच्छ राजेति योज्यम् । कुमार आह - नेति न वेद्मि भगवः, इति कुमार
उवाच एवमग्रेऽपि प्रश्नप्रत्युत्तरे ज्ञेये । व्यावर्तना व्यावर्तनानि मध्ये प्राप्यस्थानानि । यथा येन प्रकारेण वर्तते तं प्रकार वेत्थ किमित्यर्थः ।। २ ।।
उपनिषत्
वेत्थ यथाऽसौ लोको न सम्पूर्यता ३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
असौ लोकः परलोकः । इतो गतैर्न सम्पूर्यते तद् वेत्थ किमिति ? सर्वत्र प्लुतिः प्रश्नद्योतिका । पञ्चम्यामाहुतौ आहूयते स्थाप्यते अत्रेत्याहुतिः प्रक्षेपस्थानम्, तस्याम् । हुता इति शेषः । यत्र पञ्चमस्थाने प्रक्षिप्ता आपः अबादिपञ्चमहाभूतोपलक्षिता जीवाः पुरुषवचसः पुमांस इति स्त्रिय इति शब्दभाजो भवन्ति तद् वेत्थ किमित्यर्थः
॥ ३ ॥
उपनिषत्
अथ नु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात् कथं सोऽनुशिष्टो ब्रवीतेति स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
राजा वक्ति-अथेति । अथ नु एवं तर्हि किमर्थमनुशिष्टोऽस्मीत्य-वोचथाः उक्तवानभूः । यो हीमानि मया पृष्टानि प्रमेयाणि न विद्यात् स कथमनुशिष्टोऽस्मीति ब्रवीत ब्रूयादिति राजोवाचेत्यर्थः । स श्वेतकेतुः आयस्तः सखेदः पितुरर्धं स्थानमेयाय जगाम । तं पितरमुवाच । हे भगवन् मा माम् अननुशिष्य अनुपदिश्यैव किल त्वा त्वाम् अनुशिषम् अन्वशिषमित्यब्रवीत् भगवान् ॥ ४ ॥
उपनिषत्
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् तेषां नैकं च नाशकं विवक्तुमिति स होवाच यथा मा त्वं ततैतानवदो यथाऽहमेषां नैकं च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
राजन्यबन्धुः राजाधमः मा मां पञ्च प्रश्नानप्राक्षीत् प्रष्टव्यार्थान् पृष्टवान् । तेषां मध्ये एकञ्चन विवक्तुं विविच्य वक्तुं नाशकं शक्तो नाभूवं, तानू मे ब्रूहि इत्युवाचेत्यपि ज्ञेयम् । क्रोधाद् राजन्यबन्धुरित्युक्तिः । स पुत्रेणैवमुक्तः पिता, हे तत ! तात ! त्वम् एतान् प्रश्नान् यथा यथावद् वक्तुं मा मामवदः । एषां मध्ये अहं यथा यथावत् किञ्चन किमपि न वेद न जानामि । यद्यहमिंमान् प्रश्नार्थानवेदिष्यं ज्ञातवानभविष्यं कथं ते नावक्ष्यमित्युवाच पिता ॥ ५ ॥
उपनिषत्
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
स गौतमो राज्ञोऽर्द्धं स्थानमेयाय गतवान् । प्राप्ताय तस्मै गौतमायाह पूजां चकार राजा । स कृतार्हणो गौतमः उषित्वा परेद्युः प्रातःकाले सभागः सभागधेयः सोपायनः उदेयाय राजानमुपागतवान् । राजा दैववित्तलिप्सयाऽयमागतवानिति तन्मनोगतं ज्ञात्वा तं गौतमं हे भगवन् ! गौतम ! मानुषस्य वित्तस्य हस्त्यश्वगोहिरण्यादेर्वित्तस्य वरं प्राप्तिं वृणीथाः भजस्वेत्युवाच । स एवमुक्तो गौतमः, हे राजन् ! मानुषं वित्तं तवैवास्तु, कुमारस्यान्ते समीपे यामेव वाचमभाषथाः तामेव मे मह्यं ब्रूहीत्युवाच ह ॥ ६ ॥
उपनिषत्
तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
स एवमुक्तो राजा तत्पृष्टस्य गोप्यत्वात् कृच्छ्री क्लेशयुक्तो बभूव । नासंवत्सरवासिने प्रबूयादिति शास्त्रमनुसरन् राजा तं गौतमं चिरं वसेत्याज्ञापयाञ्चकार । तं गौतममुवाच - हे गौतम ! त्वं मा मां यां विद्यां यथा यथावद् वक्तुमवदः, इयं तु विद्या त्वत् त्वत्तः प्राग् ब्राह्मणान् यथा यथावत्, न गच्छति पुरा नागच्छत्, इयं पञ्चाग्निविद्या ब्राह्मणेषु नाऽसीत् । तस्मादेव कारणात् सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनं राज्यरक्षादिरूपमभू-दित्युक्त्वा राजा तस्मै गौतमाय विद्यामुवाचेत्यर्थः ॥ ७ ।। खण्डः ३ ।।
अथ चतुर्थः खण्डः
उपनिषत्
( पञ्चानिविद्या)
असौ वाव लोको गौतमाग्निस्तस्याऽदित्य एव समिद् रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गाः॥१॥
छान्दोग्योपनिषत्खण्डार्थः
पञ्चप्रश्नविषयानर्थान् व्युत्क्रमेण सप्तभिः खण्डैरुपदिदिक्षुरादौ चरमप्रश्नविषयपञ्चाग्निविद्यां वेत्थ पञ्चम्यामाहुतावाप इत्येतदुत्तरस्य प्रथमादिसापेक्षत्वात् तदुक्तिपूर्वमाह - असौ वावेत्यादिपञ्चभिः खण्डैः । असौ लोकः द्युलोकस्थः असुस्थत्वात् प्रकाशरूपत्वाच्चासौ लोक इत्युक्तो नारायणः अग्रिः अत्तीति वा अङ्गनेतृत्वाद्वा अग्निनामा । तस्य द्युलोकस्थस्य नारायणस्य आदित्यः, आदत्त इत्यादित्यनामाऽऽदित्यस्थो नारायणनारायणात्मा समित्, समेधनात् समिदित्युच्यते । रतिशंरूपत्वेन रश्मिनामा रश्मिगतो नारायणवासुदेवात्मा धूत्करोति निराकरोत्यज्ञाना- दीनीति धूमनामोच्यते । बहुरूपत्वाद् बहुवचनम् । एवमग्रेऽपि । तमा अहननीयत्वादहर्नामाऽहर्गतो नारायणसङ्कर्षणात्मा । अर्चिः अरंचितत्वेन अर्चिरित्युच्यते । सुखरूपत्वाच्चन्द्रमोनामा चन्द्रगतः नारायणप्रद्युम्नात्मा । अङ्गाराः अङ्गेषु रमणहेतुनाऽङ्गारा इत्युक्तः । अनन्यराजत्वेन नक्षत्रनामा नक्षत्रगतः । नारायणानिरुद्धात्मा मत्स्यादिरूपेण विविधं स्फुरणाद् विस्फुलिङ्गा इत्युक्तः ॥ १ ॥
उपनिषत्
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मिन् द्युलोकस्थे नारायणे एतस्मिन्नारायणाद्यात्मना प्रत्येकं पञ्चधा स्थिते अग्नौ अग्निनामके जीवाख्यवीरूपहोमाधारतयाऽग्निस्थानीये देवाः श्रद्धां श्रद्धापूर्वं यज्ञादिकर्तारं श्रद्धोपलक्षिताबादिपञ्चभूतयुक्तं जीवमि त्यर्थः । उपसंहारे इति तु पञ्चम्यामाहुताबाप इत्यपूशब्देन भूतानामुक्तेः । तदाह सूत्रे ‘प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः' (ब्र.सू.३-२-५) इति । जुह्वति प्रक्षिपन्ति । तस्या आहुतेः तस्मात् होमाधारस्थनारायणाद् लोकाग्नितः । सोमो राजा सम्भवति सोमराजानं प्रापयन्ति देवा इत्यर्थः ॥ २ ॥ खण्डः ४ ॥
॥ इति चतुर्थः खण्डः ॥
अथ पञ्चमः खण्डः
उपनिषत्
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चि-रशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पर्जन्यः परमस्य जन्यमस्तीति पर्जन्यनामा मेघचक्रगतो वासुदेवः । अग्निः प्रागुक्तनिरुक्त्याऽग्निनामाऽग्निस्थानीयः, तस्य पर्जन्यस्थस्य वासुदेवस्य । वायुः ज्ञानरूपत्वायूरूपत्वाभ्यां वायुनामा वायुगतो वासुदेवनारायणात्मा समित् प्रागुक्तनिरुक्त्या समिदित्युच्यते । अपां भरणादभ्रनामाऽभ्रगतो वासुदेववासुदेवात्मा धूमः । विद्योतनाद् विद्युन्नामा विद्युद्गतो वासुदेवसङ्कर्षणात्माऽर्चिः । अशनादशनिनामाऽशनिगतो वासुदेवप्रद्युम्नात्मा अङ्गाराः । निर्ह्रादनाद् हादुनिनामा ह्रादुनिशब्दितमेघ- नादगतो वासुदेवानिरुद्धात्मा विस्फुलिङ्गाः ॥ १ ॥
उपनिषत्
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेः वर्षः सम्भवति ॥ २ ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मिन्नेतस्मिन्नग्नौ नारायणाद्यात्मना वाय्वादौ पञ्चधा स्थिते पर्जन्यगते वासुदेवे । सोमं राजानं सोमराजं प्राप्तं श्रद्धापदेनोक्तं जीवं तस्या आहुतेः पर्जन्याख्यस्थानाद् वर्ष: वृष्टिस्थं कुर्वन्ति देवा इत्यर्थः ।। २ ।। खण्डः ५ ॥
॥ इति पञ्चमः खण्डः ॥
अथ षष्ठः खण्डः
उपनिषत्
पृथिवी वाव गौतमाग्निः तस्य संवत्सर एव समित् आकाशो धूमो रात्रिरर्चिर्दिशो अङ्गारा अवान्तरदिशो विष्फुलिङ्गाः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पृथिवी प्रथितत्वात् पृथिवीस्थः सङ्कर्षणः अग्निः । तस्याः पृथिवीस्थसङ्कर्षणस्य संवत्सरो वासयतीति संवत्सरनामा संवत्सरगतः सङ्कर्षणनारायणात्मा समित् । सम्यक् प्रकाशनाद् आकाशनामा आकाशगतः सङ्कर्षणवासुदेवात्मा धूमः । रतिदानाद् रात्रिनामा रात्रिस्थः सङ्कर्षणसङ्कर्षणात्माऽर्चिः । दिशतीति दिङ्नामा दिक्षु स्थितः सङ्कर्षणप्रद्युम्नात्मा अङ्गारा: । अवान्तरं दिशतीत्यवान्तरदिनामाऽ- वान्तरदिक्षु स्थितः सङ्कर्षणानिरुद्धात्मा विस्फुलिङ्गाः ॥ १ ॥
उपनिषत्
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेः अन्नं सम्भवति ॥ २ ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मिन्नेतस्मिन् संवत्सरादौ नारायणाद्यात्मना पञ्चधा स्थिते पृथिवीस्थे सङ्कर्षणे वर्षं वृष्टौ स्थापितं जीवम् । तस्याः आहुतेः पृथिवीस्थानादन्नं अद्यमानवस्तु सम्भवति, तत्र स्थापयन्तीत्यर्थः || २ || खण्डः ६ ।।
॥ इति षष्ठः खण्डः ॥
अथ सप्तमः खण्डः
उपनिषत्
पुरुषो वाव गौतमाग्निः तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पुरुषः पुरुत्वात् पूर्णत्वात् पुरुषनामा पुरुषगतः प्रद्युम्नः अग्निः । तस्य पुङ्गतस्य प्रद्युम्नस्य वक्तृत्वाद् वाङ्नामा वाचि स्थितः प्रद्युम्ननारायणात्मा समित् । प्राणनात् प्राणनामा प्राणस्थः प्रद्युम्नवासुदेवात्मा धूमः । जिह्वा हूयते अद्यतेऽनेनेति जिह्वानामा जिह्वागतः प्रद्युम्नसङ्कर्षणात्मा अर्चिः । चष्टे पश्यति सर्वमिति चक्षुर्नामा चक्षुःस्थः प्रद्युम्नप्रद्युम्नात्मा अङ्गाराः । श्रवणात् श्रोत्रनामा श्रोत्रगतः प्रद्युम्नानिरुद्धः विस्फुलिङ्गाः ॥ १ ॥
उपनिषत्
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ २ ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मिन्नेतस्मिन्नारायणादिरूपेण पञ्चात्मना वागादौ स्थिते प्रद्युम्नाख्ये पुरुषगतेऽग्नौ अन्नमद्यमानवस्तुगतं जीवम् । तस्या आहुतेः पुरुषरूप- स्थानाद् रेतो रेतस्थं कुर्वन्तीत्यर्थः ।। २ ।। इति सप्तमः खण्डः ।।
।। इति सप्तमः खण्डः ।।
अथ अष्टमः खण्डः
उपनिषत्
योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विष्फुलिङ्गाः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
योषा सर्वैर्जेष्यत्वाद् योषानामा योषिद्रतोऽनिरुद्धः अग्निः । तस्याः योषिगतानिरुद्धाख्याग्नेः उपस्थः उपस्थितेः उपस्थनामोपस्थगतः अनिरुद्धनारायणात्मा समित् । उपमन्त्रयते रत्यर्थं सम्भाषत इति यत् सः तत्र योऽनिरुद्धवासुदेवात्मोपमन्त्रणनामा धूमः । युनक्ति मिश्रीकरोतीति योनिनामा योनिस्थोऽनिरुद्धसङ्कर्षणात्मा अर्चिः । अन्तः योन्यन्तः करोतीति यत् ते अन्तःकरणकर्ताअन्तःकरणरूपक्रियागतोऽनिरुद्ध- प्रद्युम्नात्मा अङ्गाराः । रूपबाहुल्या बहुवचनमित्यवोचाम प्राक् । अभिनन्दाः अभिनन्दतीत्यभिनन्दनामाऽभिनदगतोऽनिरुद्धानिरुद्धात्मा विस्फुलिङ्गाः ।। १ ।।
उपनिषत्
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ॥ २ ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मिन्नेतस्मिन्नारायणाद्यात्मनोपस्थादौ पञ्चधा स्थिते योषिद्गतेऽ-निरुद्धाख्याग्नौ रेतोगतं जीवं तत्त्वाभिमानिनो देवाः जुह्वति प्रतिक्षिपन्ति, योनिद्वारेति योज्यम् । तस्या आहुतेः योषिद्रूपहोमस्थानाद् गर्भः सम्भवति शरीरवान् भवति । तदाह सूत्रे 'योने: शरीरम् ' इति ( ब्र.सू.३-२-२८) ॥ २ ॥ इति अष्टमः खण्डः ।।
॥ इति अष्टमः खण्डः ।।
अथ नवमः खण्डः
उपनिषत्
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाऽथ जायते
॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
'वेत्थ पञ्चम्याम्' इति स्वकृतप्रश्नस्यापेक्षताग्निचतुष्टयपूर्वं योषिदाख्यपञ्चममग्निमुक्त्वाऽधुनोत्तरमाह - इति त्विति ॥ प्रागिवार्थों ध्येयः । इतिशब्दश्चरमप्रश्नोत्तरसमाप्तौ । अत्र ' वेत्थ यथा पञ्चम्यामा- हुतावाप:' इति प्रश्नवाक्ये ' इति तु पञ्चम्यामाहुतावाप:' इति प्रतिवचनवाक्ये चापशब्दः पञ्चमहाभूतोपश्लिष्टजीवपरः । तदाह सूत्रेषु 'तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्' (ब्र.सू. ३- १-१), 'त्र्यात्मकत्वात्तु भूयस्त्वात् ' ( ब्र. सू. ३-१ - २ ) इत्यादिषु । एवं चरमप्रश्नं परिहृत्यावशिष्टप्रश्नचतुष्टयं परिजिहीर्षु स्तदुपयुक्तमाह- स गर्भ उल्बावृतः जरायुणा वेष्टित: दशमासान् वा यावद्वा कालं स्थातव्यं, तावत्कालं वा अन्तः योषिदन्तः शयित्वा अथानन्तरं जायते ॥ १ ॥
उपनिषत्
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति त एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
स जातः यावदायुषं जीवति । तं प्रेतं मृतं दिष्टं कर्मिणं यत एव धुलो- काख्याग्नितः इतः इमं लोकं प्राप्तः यतः योषिदाख्याग्नितः सम्भूतः जातो भवति, तादृशद्वयाद्यग्नये इतो लोकाद्धरन्ति नयन्तीति || २|| खण्डः ९ ।।
॥ इति नवमः खण्डः ।।
अथ दशमः खण्डः
उपनिषत्
( ज्ञानिनां देवयानेन ब्रह्मप्राप्तिः )
तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभि-सम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदङ् एति मासां स्तान् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
केन मार्गेण हरन्तीति शङ्कां परिहरन् वेत्थ यथा देवयानस्येति तृतीयप्रश्नोत्तरेणैवाऽद्यद्वितीयप्रश्नपरिहारः सिद्ध्यतीति भावेन तस्योत्तर- माह - तद्य इति । येऽधिकारिणः इत्थमुक्तप्रकारेण तत् पञ्चाग्निस्वरूपं विदुः ये चामी अरण्ये श्रद्धा तपः, इतिशब्दः प्रभृत्यर्थः, श्रद्धापूर्वकं तपःप्रभृत्यनुतिष्ठन्ति निवृत्तकर्मानुष्ठानपूर्वं भगवद्ध्यानादिकं कुर्वन्ति, ते ज्ञानिनोऽर्चिषमर्चिर्लोकमभिसम्भवन्ति प्राप्नुवन्ति । तदाह सूत्रे ‘अर्चिरादिना तत्प्रथितेः' (ब्र. सू. ४-३ - १४ ) इति । 'अर्चिषः' इत्यादि पञ्चमी । अहः अहरभिमानिलोकम् । आपूर्यमाणपक्षं पूर्वपक्षमानिलोक़म् । सम्भवन्तीति क्रियापदं सर्वत्र योज्यम् । उदङ् उत्तरतः यान् मासानादित्य एति । उत्तरायणमानिलोकम् ॥ १ ॥
उपनिषत्
मासेभ्यः संवत्सरं संवत्सरादादित्यं आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान् ब्रह्म गमयति एष देवयानः पन्था इति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
संवत्सरं संवत्सरमानिलोकं विद्युतं विद्युन्मानिलोकम् । तत्पुरुषः तस्या विद्युतो भारत्याः पुरुषः पतिः मानवो वायुः । स एनान् अर्चिरादिना विद्युलोकपर्यन्तमागतान् ब्रह्म गमयति । अस्य वाक्यस्योपकोसल- प्रकरणगतवाक्य इवार्थो ध्येयः । इत्येव देवयानः पन्था इति ॥ २ ॥
उपनिषत्
( काम्यकर्मिणां पितृयाणेन स्वर्गप्राप्ति: )
अथ य इमे ग्रम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमात् रात्रिं रात्रे परपक्षपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ य इमे ग्रामे स्थिताः सन्त इष्टं यजनं पूर्वं तटाकादि दत्तं दानं इति शब्दः आद्यर्थः । उपासते ग्रामे स्थित्वा प्रवृत्तकर्मिणो ये ते धूममभि- सम्भवन्ति धूमाभिमानिलोकं प्राप्नुवन्ति । सम्भवन्तीति सर्वत्र योज्यम् । रात्रिं रात्रिमानिलोकम् अपरपक्षं कृष्णपक्षमानिलोकं यान् षण्मासा-नादित्यो दक्षिणा दक्षिणां दिशमेति तान् मासानेति दक्षिणायनमानिलोकं प्राप्नुवन्तीत्यर्थः । एकवचनं बहुवचनार्थे । ते धूममित्युपक्रमात् ।। ३ ।।
उपनिषत्
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद् देवानामन्नं तं देवा भक्षयन्ति ॥। ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
मासेभ्यः संवत्सरं संवत्सरात् पितृलोकमिति योज्यम् । आकाशं विनायकलोकम् । एष सोमो राजा चन्द्रः देवानां तत् प्रसिद्धममृताख्य- मन्नम् । तदन्नं देवाः भक्षयन्ति ॥। ४ ॥
उपनिषत्
तस्मिन् यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेत-माकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
चन्द्रं प्राप्तास्ते काम्यकर्मिणः तस्मिन् चन्द्रे यावत्सम्पातं यावत्पतनमुषित्वा अथानन्तरं एतमेवाध्वानं पुनरावर्तन्ते । एतमित्युक्त- मार्गः क इत्यत आह— यथेतमिति । यथा येन मार्गेण लोकं प्रति इतं गतम् एतमेवाध्वानमित्यर्थः । कियत्पर्यन्तं गतमार्गेणाऽगमनमित्यत- श्चन्द्रादाकाशपर्यन्तं यथेतं तदनन्तरमन्यथेत्याह आकाशमिति ॥
आकाशं प्रति यथेतं पुनस्तथैवाऽकाशं यान्ति, आकाशात्तु पितृलोकादिकं पूर्वप्राप्तं हित्वा वाय्वादिदेवं प्राप्नुवन्तीत्यर्थः । तदाह ' यथेतमनेवं च' (ब्र.सू. ३-१-९) इति सूत्रकारः । वायुर्भूत्वा वायुदेवतासायुज्यादि- मान् भूत्वा धूमो भवति धूमदेवसायुज्यादिमान् भवति। एवमग्रेऽपि । तदाह सूत्रे “तत्स्वाभाव्यापत्तिरुपपत्तेः " (ब्र.सू. ३-१-२५) इति ॥ ५॥
उपनिषत्
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलामाषा इति जायन्ते ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रवर्षति वृष्ट्यन्तर्गता भवन्ति । वृष्ट्यन्तर्गताः कर्मिण: व्रीहियवाः । जीवान्तराभिमन्यमानव्रीहियवादिषु । परगृहे पान्थ इव प्रविष्टास्तिष्ठन्तीति तेषु जातेषु जायन्त इवोच्यन्ते । इतिशब्दः आद्यर्थः । तदाह सूत्रे - “अन्याधिष्ठिते पूर्ववदभिलापात्'' (ब्र.सू. ३-१-२८) इति। ततो व्रीह्यादिप्रवेशानन्तरं दुर्निष्प्रपतनं भवति । दुष्टपतनमेव व्यनक्ति - यो यो हीति ।। यो यो जनः अन्नं व्रीह्यादिरूपमद्यमानमत्ति अत्तृषु मध्ये यः पुमान् रेतो योषिति सिञ्चति तद् भूय एव अद्यमानवस्तुद्वारा रेतस्सेच पुरुषं प्रविश्य तद्भक्तान्नपरिणतिसारभूतरेतोगतः सन् तन्मयो भवतीत्यर्थः । तदाह सूत्रे - "रेतस्सिग्योगोऽथ ' ' ( ब्र. सू. ३.१.२५) इति ॥ ६ ॥
उपनिषत्
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतमध्वानमावर्तन्ते इत्युक्त्वा पुनरागमने आकाशवाय्वादीनि रेतस्सिकूपर्यन्तानि बहूनि स्थानान्युक्तानि । तर्हि बहुस्थानगमनात् कल्पान्तपर्यन्तमागमनं भवति किम् ? इत्यतो नेति भावेन योनिप्राप्तिं च यथायोग्यमाह तद्य इति ।। तत् तत्र कर्मिणां मध्ये इह लोके ये रमणीयचरणाः शुभकर्माणः ते रमणीयां योनिं तद् व्यनक्ति- ब्राह्मणयोनिं वैश्ययोनिं क्षत्रिययोनिं वा । प्रपद्येरन्निति यत् तदभ्याशः शीघ्रमेवं । एकसंवत्सरकाल एव । तदाह सूत्रे " नातिचिरेण विशेषात्” (ब्र.सू. ३.१.२४ ) इति । अथेत्यर्थान्तरद्योतकः । कपूय- चरणाः कुत्सितकर्माणः । पूर्ववद् योजना । कपूययोनिमेव व्यनक्ति-- श्वयोनिमित्यादिना ।। चरणशब्दोऽत्र " अथ य इमे ग्रामे " इत्यादिना प्रकृतेष्टापूर्तांदिकर्मपरो न कर्माङ्गाचारमात्रपरः । तदाह सूत्रे - ‘सुकृत- दुष्कृते एवेति तु बादरिः " ( ब्र. सू. ३.१.२४ ) इति । एतेन देवयानपितृयाणरूपमार्गद्वयोक्त्या आद्यद्वितीयप्रश्नयोरुत्तरमुक्तं ध्येयम् । यद्यप्यत्र इष्टापूर्ते इत्याद्युपक्रमाद् रमणीयचरणा एव प्रकृताः, तथाऽपि अथेति वक्ष्यमाणचतुर्थ प्रश्नपरिहारोपयुक्ततया तेऽपि प्रसञ्जिता इति ध्येयम् ॥ ७ ॥
उपनिषत्
अथैतयोः पथोर्नैकतरेण च न तानीमानि क्षुद्रमिश्राण्य-सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
चतुर्थ प्रश्नपरिहारमाह- अथेति । एतयोः " तद्य इत्थं विदुः " इत्यादिना ‘“अथ य इमे ग्रामे" इत्यादिना च प्रकृतयोः पथोः देवयान-पितृयाणरूपमार्गसाधनभूतयोः ज्ञानकर्मणोः, ज्ञानाख्येन देवयान- मार्गोपायेन वा कर्माख्यपितृयाणमार्गोपायेन वा, कतरेण च अन्यतरेणापि न तिष्ठन्ति - ज्ञानं वा कर्म वा न सम्पादयन्तीति यावत् । तदाह सूत्रे - 'विद्याकर्मणोरिति तु प्रकृतत्वात्' (ब्र.सू.३.१.२५) इति । तानीमा भूतानि जन्तूनि क्षुद्रमिश्राणि सुखदुःखमिश्राणि, “असकृदावर्तीनि” इत्यस्य विवरणं जायस्व म्रियस्व पुनःपुनः जायन्ते म्रियन्ते चेत्येतत् तृतीयं स्थानं स्वर्गापवर्गापेक्षया तृतीयं स्थानम् । तेनासकृदावर्तनहेतुना असौ लोकस्तृतीयस्थानरूपः । न सम्पूर्यते न समाप्यते तस्मात् तादृशस्थानाद् जुगुप्सेत विरज्येत ॥ ८ ॥
उपनिषत्
स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
कपूयचरणाः के ? इत्यतः श्लोकेन तानाहू-तदेष इति । श्लोकः स्पष्टार्थः ॥ ९ ॥
उपनिषत्
अथ ह य एतानेवं पञ्चाग्नीन् वेद न स ह तैरप्याचरन् पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १ ॥ १० ॥
छान्दोग्योपनिषत्खण्डार्थः
पञ्चाग्निविद्यां स्तौति अथ ति ॥ योऽधिकारी एवमुक्तदिशा एतान् व्यादिपञ्चाग्नीन् वेद, स ज्ञानी तैः उक्तपञ्चपातकिभिराचरन्नपि पाप्मना न लिप्यते । एवं ज्ञानिनः फलमाह - शुद्ध इति ।। य एवं ज्ञानी पापेन न लिप्यते इति वेद सोऽपि स्वयं शुद्धः पावयत्यन्यानिति पूतः । अन्तर्णीतण्यर्थः । पुण्यलोको भवतीति ।। १० ।।
।। १० ।। इति दशमः खण्डः १० ॥
अथ एकादश: खण्ड:
उपनिषत्
(वैश्वानरविद्याज्ञातारो दुर्लभाः )
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सर्वपापविधूननेन पुण्यलोकावाप्तिकारणपञ्चाग्निविद्योक्ता । सर्व- लोकगतजीवाद्यान्नात्तृत्वापादकवैश्वानरविद्यामाख्यायिकयाऽष्टभिः पर्वभिराह प्राचीनशाल इत्यादिकया || प्राचीनशालो नामतः, उपमन्योरपत्यमौपमन्यवः, सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । इन्द्रद्युम्नो नामतः, भल्लवाया अपत्यम् भाल्लवेयः । जनो नामतः, | शर्कराक्ष- स्यापत्यं शार्कराक्ष्यः । अश्वतराश्वस्यापत्यम् आश्वतराश्विः, बुडिलो नामतः । ते ते पञ्च, प्रत्यब्दयज्ञकृत्त्वेन महाशालाः, वेदवेदार्थ- वित्त्वेन महाश्रोत्रियाः समेत्य क्वचिन्मिलित्वा मीमांसाञ्चक्रुः व्यचारयन् । किमिति ? नोऽस्माकम् आत्मा आदानादिकर्ता । स्वामीति यावत् । ब्रह्म गुणपूर्णं वस्तु किमिति मीमांसाञ्चक्रुरित्यन्वयः ।। १ ।।
उपनिषत्
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अन्योन्यमेवमात्मस्वरूपस्य विचारेणापि निर्णयमलभमानास्ते निर्णयार्थमुद्दालकं सम्पादयाञ्चक्रुः निश्चिक्युरित्यर्थः । सम्पाद्यान्योन्य- मूचुश्च । तत्किमूचुरित्यत आह उद्दालक इति ।। अरुणस्यापत्यमारुणिः भगवन्तः आरुणिरुद्दालकः सम्प्रति इदानीमिममात्मानं विश्वनर- सम्बन्धितया वैश्वानरनामकमध्येति अधिकं जानाति । तमुद्दालकम् । हन्त हर्षे । अभ्यागच्छामेत्यन्योन्यमूचुरिति योज्यम् । इति निश्चित्य तमुद्दालक-
मभ्याजग्मुः ॥ २ ॥
उपनिषत्
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महा-श्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्य-नुशासानीति ।। ३ ।।
छान्दोग्योपनिषत्खण्डार्थः
स उद्दालकः । मनसाऽन्यं सम्पादयाञ्चकार निश्चितवान् । किमर्थम् ? इत्यत आह – प्रक्ष्यन्तीति । महाशाला महाश्रोत्रिया इमे मां प्रक्ष्यन्ति प्रश्नान् करिष्यन्ति । तेभ्यो वक्तुमिति शेषः । सर्वं पृष्टं वक्तुं न प्रतिपत्स्ये न ज्ञास्यामीवेतीवशब्दो निर्धारणे । अतोऽन्यमनुशासानि वदानि । हन्त हर्षे । इति निश्चित्य ।। ३ ।।
उपनिषत्
तान् होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
तान् उवाच ह – अश्वपतिरित्यादिना ।। हे भगवन्तः अश्वपतिः कैकेयः केकयदेशाधिपतिरयं राजा सम्प्रतीदानीमिममात्मानं वैश्वानरम् अध्येति तं हन्ताभ्यागच्छाम इत्युक्तास्ते सर्वे तमभ्याजग्मुर्ह || ४ ||
उपनिषत्
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः संिजहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
तेभ्यो ह प्राप्तेभ्यो राजा पृथक् प्रत्येकं प्रत्येकम् अर्हाणि तत्तद्योग्यपूजाः कारयाञ्चकार भृत्यैः । स राजा परेद्युः प्रातः सञ्जिहानः शयनादुत्थितः उवाच। किमिति ? किं चोरादिभीत्या समागताः, किं वा धनार्थित्वेन ? नाऽद्यः, अभावादित्याह - न म इति ॥ मे मम जनपदे देशे स्तेश्वोरो नास्ति । न कदर्यो यथाकालमाचारहीनः । न मद्यपः । स्वैरी जारः । कुतः स्वैरिणी कामचारिणी । अयक्ष्यमाणो वा कुतः । स्तेनादिरयक्ष्यमाणो वा कुतो नास्तीत्यत आह अहमस्मीति ॥ हे भगवन्तः चण्डशासनोऽहमस्मि तिष्ठामि । अतो न स्तेनादिरिति भावः । धनार्थिनश्वेदागतास्तर्हि यक्ष्यमाणोऽहमस्मीति वाऽन्वयः । यावद्धनम् एकैकस्मै ऋत्विजे दास्यामि तावद् भवद्भ्यो दास्यामि । वसन्तु भगवन्त इत्युवाचेत्यन्वयः ॥ ५ ॥
उपनिषत्
ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं राज्ञोक्तास्ते पुरुषो येनार्थेन प्रयोजनेन हेतुना चरेत् तमेवार्थं वदेत् त्तं पुरुषं प्रति । वयं तु नार्थकामनया चरामः, किन्तु ब्रह्मज्ञानकामनया । त्वं तु आत्मानमेवैनं वैश्वानरं सम्प्रत्यध्येषि । तमेव नोऽस्मभ्यं ब्रूहीत्यूचुः ॥ ६ ॥
उपनिषत्
तान् होवाच प्रातर्वः प्रतिवक्ताऽस्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच ॥ ७ ॥ ११ ॥
छान्दोग्योपनिषत्खण्डार्थः
तान् होवाच राजा वः युष्मान् प्रति प्रातर्वक्ताऽस्मीति । ते ह परेद्युः प्रातःकाले समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे राजसमीपं प्राप्ताः । तान् ह राजाऽनुपनीय शिष्यत्वेनास्वीकृत्यैव एतद् वक्ष्यमाणमुवाच ।। ७ ।। खण्डः ११ ॥
॥ इति एकादश: खण्ड: ॥
अथ द्वादशः खण्डः
उपनिषत्
( वैश्वानरस्य शिरो नामकमिति निरूपणम् )
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एभिरवगतं वैश्वानरं क्रमेण पृष्ट्वा तन्नामधेयं फलं च स्वयं वदन् विशेषाज्ञाने बाधकं चाऽह – औपमन्यव इत्यादिना || इत्येतदुवाचेत्य- न्वयः । हे भगवो राजन्! क्रीडात्मकत्वेन दिवमित्युक्तमात्मानमहमुपास इत्युवाच औपमन्यवः । यं त्वमात्मानमुपास्से एष वै द्युनामा अतितेजस्त्वात् सुतेजा इत्युक्तः द्युलोकाधार आत्मा वैश्वानरः । तस्मात् तदुपासकत्वात् तव कुले सुतं प्रसुतमासुतं पुत्रः पौत्रः तत्पुत्रश्च दृश्यते ॥ १ ॥
उपनिषत्
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वनरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १२ ॥
छान्दोग्योपनिषत्खण्डार्थः
अन्नमत्सि प्रियं च पश्यसि योऽधिकारी एतमेवं त्वदुपास्यमेवाऽत्मानं वैश्वानरमेवं सुतेजस्त्वादिनोक्तप्रकारेणोपास्ते, सोऽन्नमत्ति पश्यति प्रियम् । अस्य कुले ब्रह्मवर्चसं भवति । आत्मनस्तु हरेरेष धुनामा त्वयोपास्यो मूर्धा शिरः । एवमेकावयवोपासकस्त्वं यद् यदिमां नाऽगमिष्यस्तर्हि ते मूर्धा व्यपतिष्यदित्युवाच राजेति ॥ २ ॥
।। इति द्वादश: खण्ड: ।।
अथ त्रयोदशः खण्डः
उपनिषत्
( वैश्वानरस्य चक्षुरादित्यनामकमिति निरूपणम् )
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरं सत्ययज्ञं पौलुषिमुवाच ह । हे प्राचीनयोग्य ! कं त्वमात्मानमुपास्स इति । स आह आदित्यमेवेति ।। आयुषामा-दानादादित्यनामानमात्मानमुपास इत्युवाचेत्यर्थः । राजाऽऽह एष इति ।। त्वं यमात्मानमुपासे एष वै विश्वरूपः सर्वरूपातिदर्शनात् । विश्वरूपनामा वैश्वानर आत्मा वै । तस्माद् विश्वरूपोपासकत्वादेव तव कुले गृहे बहु विश्वरूपम् अतिबहुवस्तुजातं दृश्यते ॥ १ ॥
उपनिषत्
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ।। २ ।। १३ ।।
छान्दोग्योपनिषत्खण्डार्थः
तद् व्यनक्ति– प्रवृत्त इत्यादिना ।। एवमुपासकस्य फलमाह—– अत्त्यन्नमित्यादिना || आत्मन एतत्तु त्वयोपास्यमादित्याख्यमादित्या-धारमङ्गं चक्षुरेव न सर्वाङ्गम् । अन्ध इत्यादि प्राग्वज्ज्ञेयम् । इत्युवाच राजेत्यर्थः || २ || इति योदशः खण्ड: १३ ॥
अथ चतुर्दशः खण्डः
उपनिषत्
(वैश्वानरस्य प्राणो वायुनामक इति निरूपणम् )
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वां पृथग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
'अथ होवाच' इत्यादिप्रश्न प्रतिवचने प्रागिव ध्येये । हे वैयाघ्रपद्य ! व्याघ्रपात्पुत्रेति सम्बुद्धिः । ज्ञानायुरूपत्वाद् वायुनामकं वाय्वाधारम् । एष त्वयोपास्यो वायुः पृथग्वर्त्मा प्राणादिभिरशक्यकार्यकर्तृतया पृथग्व-त्त्म्रेत्युक्तः । पृथङ् नानाविधाः वलयः आवलयः आयन्ति । तद् विवृणोति - पृथग् रथश्रेणय इति ।। गजाश्वाद्यावलीनामुपलक्षणमेतत्
॥ १ ॥
उपनिषत्
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद् यन्मां नाऽगमिष्य इति ।। २ ।। १४ ।।
छान्दोग्योपनिषत्खण्डार्थः
एवमुपासकस्य फलमाह- अत्त्यन्नमित्यादि || आत्मनो वैश्वानरस्यैष त्वयोपास्यो वायुः प्राणः प्राणाख्यावयवः || २ || ॥ इति चतुर्दशः खण्डः १४॥
अथ पञ्चदशः खण्डः
उपनिषत्
( वैश्वानरस्य शरीरमध्यभागः आकाशनामक इति निरूपणम् )
अथ होवाच जन शार्कराक्ष्य शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजनिति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेत्यादि प्राग्वत् । आ समन्तात् काशते दीप्यत इत्याकाशाख्य-मात्मानमुपास इति होवाच । विस्तीर्णत्वादेष बहुल इत्युक्तः । तस्माद् बहुलोपासकत्वात् ।। १ ।।
उपनिषत्
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्दोहस्त्वेष आमन होवाच सन्दोहस्ते व्यशीर्यद् यन्मां नाऽगमिष्य इति ॥ २ ॥ १५ ॥
छान्दोग्योपनिषत्खण्डार्थः
एष त्वयोपास्यो बहुल आत्मनः सन्दोहो(१) मध्यदेहः व्यशीर्यद् विशीर्णमभविष्यत् ।। २ ।। इति पञ्चदशः खण्ड: १५ ।। इति पञ्चदशः खण्ड: ।।
अथ षोडशः खण्डः
उपनिषत्
( वैश्वानरस्य कटिप्रदेश: अम्नामक इति निरूपणम् )
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं रयिमान् पुष्टिमानसि ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
।। अप एवेति ।। व्याप्तत्वादाप इत्युक्तमात्मानमुपास इत्युवाच । रयिः रतिजनकत्वाद रयिनामा ॥। १॥
उपनिषत्
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मन इति होवाच वस्तिस्ते व्यभेत्स्यद् यन्मां नाऽगमिष्य इति || २ || १६ ||
छान्दोग्योपनिषत्खण्डार्थः
॥ वस्तिस्त्वेष इति । वैश्वानरात्मनो वस्तिरूपावयव इत्यर्थः । व्यभेत्स्यद् भिन्नोऽभविष्यत् || २ || इति खण्ड:१६ ॥
|| इति षोडशः खण्ड: ॥
अथ सप्तदशः खण्डः
उपनिषत्
( वैश्वानरपादयोः पृथिवीनामकत्वकथनम् )
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजनिति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्व ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पृथिवी प्रथनाद् विस्तीर्णगुणत्वेन पृथिव्याख्यम् । प्रतिष्ठितिहेतुत्वात् प्रतिष्ठा ।। १ ।।
उपनिषत्
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नाऽगमिष्य इति || २ || १७ ||
छान्दोग्योपनिषत्खण्डार्थः
एतावात्मनः पादौ । एताविति विधेयापेक्षया पुल्लिङ्गं द्विवचनं च । व्यम्लास्येतां भज्येयाताम् || २ || १७ ॥
॥ इति सप्तदशः खण्डः ॥
अथ अष्टादश: खण्ड:
उपनिषत्
( हृत्कमले वैश्वानरः )
तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वासोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं तैः षड्भिः प्रत्येकमुपास्यं भगवतः सुतेजःप्रभृतिनामकं शिरआद्यङ्गमेवेत्युपदिष्टमनुवदन् समग्रवैश्वानरस्वरूपं तदुपास्तिफलं चोवाच राजेत्याह श्रुति:- तान् होवाचेत्यादिना । एते प्रसिद्धाः यूयं खलु त्रैश्वानरमात्मानं पृथगिवैकैकावयवं विद्वांसो जानन्तोऽन्नमत्थ भक्षयत ।भगवदवयवानां भेदाभावात् पृथगिवेत्युक्तम् । यस्तु अधिकारी । तुशब्दो देवरूपाधिकारिविशेषद्योतकः । एतं सर्वप्राणिसन्निहितं वैश्वानरमात्मानं प्रादेशमात्रं प्रादेशपरिमितहृदयकमलव्यापित्वाद्वा तावत्परिमाणव्यक्त्या वा प्रादेशमात्रम् । हृद्यपेक्षया ' ( ब्र.सू.१.३.५ ) इति सूत्रोक्तन्यायात् । अभिविमानम् अभितो विगतं मानं मर्यादा यस्येत्यभिविमानम् एवमुक्तदिशा शिरःप्रभृतिसर्वाङ्गोपेततयोपास्ते स सर्वेष्वित्यादि । भूतेषु स्थावरादिजडेषु । आत्मसु चेतनेषु । देवत्वादेवोपासकस्य तस्य मुख्यं फलम् । अन्येषां यथायोग्यम् । वैश्वानरोऽत्र विष्णुर्ज्ञेयो न भूतानिः, तदभिमानिदेवो वा । तदाह सूत्रे 'वैश्वानरः साधारणशब्द- विशेषात्' (ब्र.सू.१.२.२४ ) इति ॥ १ ॥
उपनिषत्
तस्य हवा एतस्याऽत्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्दोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥१८॥
छान्दोग्योपनिषत्खण्डार्थः
भगवदङ्गानामुक्तं नामधेयं सर्वथाऽनुसन्धेयमिति भावेन तदनुवदन् होमापेक्षितमाह – तस्येत्यादिना ।। तस्य वैश्वानरनाम्नो हरेः मूर्धेव सुतेजा: । अतितेजस्त्वहेतुना सुतेजोनामा द्युलोकाश्रयः । तस्य चक्षुः विश्वरूपः सर्वपदार्थविषयकतया विश्वरूपनामा विश्वरूपाख्यादिल्या-श्रयः । तस्य हरेः प्राणः पृथग्वर्त्मा प्राणादिभिरशक्यकार्यकर्तृत्वातू पृथग्वर्त्मनामा वाय्वाश्रयः तस्य हरेः सन्दोहः मध्यदेहः बहुलनामा आकाशमान्याश्रयः । तस्य नाभ्यधोभागवस्तिरूपोऽवयवो रयिः रतिद- त्वहेतुना रयिनामाऽपामाश्रयः । तस्य पादौ प्रथितत्वहेतुना पृथिवीनामा पृथिव्याश्रयौ । तस्य वैश्वानरस्य हरे: उरो वक्षः वेदिः वेद्यभिमानिनी तदाश्रितेत्यर्थः । आश्रयाश्रयिभावाभिप्रायाऽभेदोक्तिः । एवमग्रेऽपि बर्हिरादिशब्दा अभिमानिपराः । तदाह सूत्रे "पुरुषविधमपि
चैनमधीयते” (ब्र.सू.१.२.३६ ) इति ॥ २ ॥ इति खण्ड: १८ ॥
॥ इति अष्टादश: खण्ड: ॥
अथ एकोनविंशः खण्डः
( 'प्राणाय स्वाहा' इत्याहुते: फलनिरूपणम् )
उपनिषत्
तद्यद् भक्तं प्रथममागच्छेत् तद्धोमीयँ स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति
॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
इतिकर्तव्यतासहितं होममाह - तद्यदीति । तत् प्रसिद्धं भोज्यं यद् भक्तमन्नं प्रथममागच्छेदास्यं प्रति तद्धोमीयं होमसाधनद्रव्यम् । होममन्त्रा-नाहुतितृप्यांश्चाऽह स यामित्यादिना । स भुन्जानः । जुहुयात् होमं कुर्यात् । जुह्वीत कुर्वीत । 'प्राणाय स्वाहा' इत्याहुत्या । प्राणः प्राणबायोरभिमानिभूतं यदादित्यस्य रूपं हृदयकमलगतस्य
वैश्वानराख्यस्य हरेः पूर्वद्वारपालकं तत् तृप्यति' ।। १ ।।
उपनिषत्
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चाऽदित्यश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति
।। २ ।। १९ ।।
छान्दोग्योपनिषत्खण्डार्थः
प्राणमानिरूपे तृप्यति चक्षुर्मानि यदादित्यस्य रूपं तत् तृप्यति । चक्षुर्मानिरूपे तृप्यति आदित्य: रविबिम्बमानिसूर्यरूपं तृप्यति । त्रिरूपे आदित्ये तृप्यति द्यौर्द्युलोकमानिनी श्रीः तृप्यति । दिवि तृप्यन्त्यां द्यौः श्रीश्च प्राणचक्षुर्मण्डलानामभिमानी आदित्यश्च यत्किञ्च ज्ञानानन्दरूपं ब्रह्माख्यं वस्तु अधिकृत्य तिष्ठतस्तद् ब्रह्म तृप्यति । तस्य ब्रह्मणस्तृप्तिमनु पश्चाद् यजमानः प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति ॥ २ ॥
।। इति एकोनविंशः खण्डः ||
अथ विंशः खण्डः
उपनिषत्
( 'व्यानाय स्वाहा' इत्याहुते: फलनिरूपणम् )
अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
दक्षिणद्वारपः व्यानवायुश्रोत्रचन्द्रबिम्बमानितया त्रिरूपश्चन्द्रो 'व्यानाय स्वाहा' इति मन्त्रेण क्रियमाणद्वितीयाहुत्या तृप्यतीत्याह- अथ यां द्वितीयामिति ॥ प्रागिवार्थः ॥ १ ॥
उपनिषत्
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्वाधितिष्ठन्ति तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति
।। २ ।। २० ।।
छान्दोग्योपनिषत्खण्डार्थः
दिशः दिङ्नाम्नो रमादेवी यत्किञ्च, ज्ञानरूपत्वाद् यत्, सुखरूपत्वात् किम् । यत्किञ्च ज्ञानानन्दरूपं ब्रह्मेत्यर्थः || २ || इति विंशः खण्डः २० ।।
अथ एकविंशः खण्डः
उपनिषत्
( 'अपानाय स्वाहा' इत्याहुतेः फलवर्णनम् )
अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अपानवायुवाग्भूताग्र्यभिमानी त्रिरूपोऽग्निदेवः पश्चिमद्वारपः 'अपानाय स्वाहा' इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह- अथ यां तृतीयामिति ।। १ ।।
उपनिषत्
अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।।२।।२१।।
छान्दोग्योपनिषत्खण्डार्थः
पृथिवीनाम्नी भूदेवी || २ || इति खण्डः २१ ॥
|| इति एकविंशः खण्डः ॥
अथ द्वाविंशः खण्डः
उपनिषत्
( ‘समानाय स्वाहा' इत्याहुते: फलवर्णनम् )
अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
समानवायुमनःपर्जन्यानामभिमानितया त्रिरूप इन्द्र उत्तरद्वारपः ‘समानाय स्वाहा' इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह - अथ यां चतुर्थीमिति ॥ १ ॥
उपनिषत्
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतः तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २२ ॥
छान्दोग्योपनिषत्खण्डार्थः
पर्जन्यः मेघचक्रमानीन्द्रः । विद्युद् विद्युन्मानिनी वायुपत्नी ॥२॥
|| इति द्वाविंशः खण्डः ॥
अथ त्रयोविंशः खण्डः
उपनिषत्
( 'उदानाय स्वाहा' इत्याहुते: फलवर्णनम् )
अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
उदानवायुवाय्वाकाशमानितया त्रिरूपो मुख्यवायुरूर्ध्वद्वारपः ‘उदानाय स्वाहा' इति मन्त्रेण क्रियमाणाहुत्या तृप्यतीत्याह- अथ यां पञ्चमीमिति || १ ||
उपनिषत्
उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाऽकाशश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
वायुः प्रसिद्धवायुमानी । आकाशः आकाशमानी विशेषेण लक्ष्म्याविष्टतयाऽऽकाश इत्युक्तो मुख्यवायुः आकाशश्च । वायौ विशेषसन्निधियुता लक्ष्मीरित्यर्थः ||२|| खण्डः २३||
|| इति त्रयोविंशः खण्डः ॥
अथ चतुर्विंशः खण्डः
उपनिषत्
( ज्ञानपूर्वककर्मण: फलप्रदत्वनिरूपणम् )
अथ स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं वैश्वानरस्वरूपं तद्विषयहोमं चोक्त्वा तज्ज्ञानपूर्वकहोमफलं तदज्ञानपूर्वकहोमवैफल्योक्त्याऽऽह स य इदमिति ॥ स भुन्जनो यः कश्चिद् इदं वैश्वानरस्वरूपादिकम् अविद्वान् अजानन् प्राणाग्निहोत्रं जुहोति करोति । अङ्गारानपोह्य परित्यज्य भस्मनि यथा जुहुयात् । तद् अज्ञानकृतं प्राणाग्निहोत्रं तादृक् तत्तुल्यं निष्फलमिति यावत् ।। १ ।।
उपनिषत्
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
ज्ञानपूर्वानुष्ठाने फलोक्तिः अथ य एतदिति । तस्य तेन । हुतं भवतीत्यन्वयः । यद्वा, सर्वलोकादिषु हुतं तस्यैव भवतीत्यर्थः ॥ २ ॥
उपनिषत्
तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ।। ३ ।।
छान्दोग्योपनिषत्खण्डार्थः
फलान्तरं चाऽह – तद्यथेति ॥ वक्ष्यमाणनिदर्शनं यथा । इषीकातूल-मिति छान्दसो ह्रस्वाभावः 'इष्टकेषीकामालानां चिततूलभारिषु' इत्युक्ते-रिषीकतूलमिति भाव्यत्वात् ।। ३ ।।
उपनिषत्
तस्मादु हैवंविद् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद् वैश्वानरे हुतं स्यादिति तदेष श्लोक: ।। ४ ।।
छान्दोग्योपनिषत्खण्डार्थः
तस्मादुक्तरीत्या वैश्वानरज्ञानस्य सर्वपापक्षयादिहेतुत्वात् । उच्छिष्ट-मपात्रे दत्तं वैश्वानरे आत्मनि अस्य अनेन तद्भुतं स्यात् ।। ४ ।।
उपनिषत्
यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥ २४ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि पञ्चमोऽध्यायः ॥ ५॥
छान्दोग्योपनिषत्खण्डार्थः
वैश्वानरज्ञानपूर्वकं कृतं प्राणाग्निहोत्रं सर्वाभीष्टप्रदमित्युक्तमर्थं मन्त्रेण संवादयति - तदेष इति इह लोके सर्वाणि भूतानि अभीष्टापेक्षाणि प्राणाग्निहोत्रमुपासते । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ।। ५ ।। २४ ।।
।। इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते पञ्चमोऽध्यायः ।।