प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारः ..

उपनिषत् (खण्डः -७)

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारः वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयांसि वैतानि परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ ७ ॥

भाष्यम्

'परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ( २ ) ॥ परोवरीयांस्येतानि विष्णोः रूपाणि सर्वशः । तेषां विशेषो नैवास्ति सदा तानि समानि हि । अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपि तु ||' इति च । 'प्राणो नेतृत्वतो विष्णुर्वाक् सर्ववचनात् सदा । चक्षु दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः ।

मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा ।।' इति च । परोवरीयो ब्रह्मास्य भवति सर्वापेक्षितदातृत्वात् ॥ ७ ॥

पदार्थकौमुदी

एवं पशुषु भगवदुपास्तिमुक्त्वेन्द्रियाणां पशुपुरुषाश्रितत्वादिन्द्रियेषु पञ्चविधभगवदुपास्तिकर्तव्यतामाह - प्राणेष्विति ।। अत्र "परोवरीयः सामोपासीत '' इत्यत्र परोवरीयः शब्दस्य विवक्षितमर्थं प्रमाणेनाऽह परस्मादिति ।। परस्मादुत्तमं परो इति प्रोक्तम् । उकारस्योत्तमार्थत्वात् ततः परं परोवरमिति प्रोक्तम् । वरशब्दस्यापि तथात्वात् । तस्मात् परं परोवरीयकमिति प्रोक्तम् । अनयोर्मध्ये इदमतिशयेन परोवरं परोवरीयः । परोवरीय एव पारोवरीयकमित्यर्थः । यद्यप्यधिकं वरीयान् परोवरीयानिति पूर्वं व्याख्यातम् । तथाऽपि तत्र सम्मुग्धतया स्वेनैव व्याख्यातमत्र तु वर्णार्थकथनपुरःसरं प्रमाणेन व्याख्यातमिति भेदः । भिन्नभिन्नाधिष्ठानेषु स्थितानां प्रद्युम्नादिरूपाणां नीचोच्च भावो न मन्तव्य इति भावेन प्रवृत्तंपरोवरीयांसि वा एतानि " इति वाक्यं हिङ्कारादिसामभक्तीनां परोवरीयस्त्वमुच्यत इति प्रतीतिनिरासाय व्याचष्टे - परोवरीयांसीति ॥ " एतानि " इत्यनेन न प्राणस्थपञ्चरूपाणामेव परामर्शः । किन्तु लोका- दिस्थानामपीति भावेन " सर्वशः" इत्युक्तम् । श्रुतौ वैशब्दश्रवणात् परोवरीयांसीति सावधारणम् । अत एव तव्यावर्त्यमाह -- तेषामिति ।तत्र हेतुमाहसदेति ॥ सदेत्यस्य पूर्वत्रापि सम्बन्धः । ननु समत्वे परोवरीयस्त्वं कथमित्यतस्तेषां परस्परं समत्वेऽप्यन्यस्मात् परोवरीयस्त्व- मुपपद्यत इत्याह- अत्युत्तमेति ॥ हिङ्कारादिनामक प्रद्युम्नादेः प्राणाद्यभेदः कथ्यत इति प्रतीतिनिरासाय भगवति प्राणादिशब्दप्रवृत्तिं प्रमाणेन दर्शयतिप्राण इति ।। अस्य प्रमाणप्रमितस्य सर्वस्य मन्तृत्वतः नेतृत्वत इत्यादावप्यस्य सम्बन्धः ।

ननुपरोवरीयो हास्य भवति" इति फलवाक्ये परोवरीयः शब्दो मोक्षादिफलपरोऽङ्गीकार्यः । तत्कथं पूर्वं भगवत्परत्वमङ्गीक्रियते ? नह्येकस्मिन्नेव प्रकरणे श्रुतस्यैकस्यैव शब्दस्यार्थद्वयकल्पनं युक्तमित्यत आह - परोवरीय इति ॥ ननु परोक्तरीत्या परोवरीयो हास्य जीवनं भवतीति कुतो न व्याख्यातम् । श्रुतावपि पूर्वं तथोक्तत्वादिति चेत् । न । अस्मिन् प्रकरणे "अप्सुमान् भवति'" "ऋतुमान् भवति " " पशुमान् भवति' इति भगवद्वत्त्वस्यैव फलत्वेनोक्तत्वात् । जीवनशब्दाध्याहार- प्रसङ्गाच्च । ब्रह्मवत्त्वमतिप्रसक्तं कथं फलमित्यत आह - सर्वेति । स उपासकः परोवरीयसोऽधिकं वरीयसो लोकान् बैकुण्ठानन्तासन - श्वेतद्वीपाख्यान् जयति प्राप्नोति । उपसंहरति इति त्विति । इत्येवं प्रकारेण पञ्चविधस्य पञ्चरूपस्य भगवत उपास्तिरुक्तेति शेषः ।।

।। इति सप्तमः खण्डः ।।