अथ होवाच बुडिलमाश्वतराश्विं ..
उपनिषत् (खण्डः - १६)
वैश्वानरस्य कटिप्रदेशोऽम्नामक इति निरूपणम्
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं रयिमान् पुष्टिमानसि ॥ १ ॥
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेनमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ २ ॥ १६ ॥
भाष्यम्
व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः । वस्तिराकाशवाय्वोश्च तावाधारौ प्रकीर्तितौ ॥
पदार्थकौमुदी
"बुडिलमाश्वतराश्विम्' इति खण्डतात्पर्यमाह - व्याप्तत्वादिति ॥ रमापतेर्वस्तिः कटिप्रदेशः । मध्यदेहवस्त्योराकाशानामकत्वे निमित्ता-न्तरमाह– आकाशेति । आकाशवारिणोः ।
खण्डार्थः
आप एव व्याप्तत्वादम्नामकमप्स्थमेव । रयिः रतिकरत्वतः । रयिमान् धनवान् ॥ १ ॥
वस्तिः कटिप्रदेशः ।। २ ॥
।। इति षोडशः खण्डः ॥