गायत्री वा इदं सर्वं भूतं ..
उपनिषत् (खण्डः - १२)
(हयग्रीवमत्स्यादिरूपवाग्रूपानामुपासनम् )
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥
भाष्यम्
यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत् सर्वं गायत्री भगवानेव । 'भू बहौ' इति धातोः । ‘बहुः पूर्णतायाम्' इति च । ‘यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकम् । तदिदं भगवान् विष्णुः सर्वान्तः स्थित एव च ॥ निःसृतत्वाद् वेदानां गायकस्त्राति चाखिलम् । अतो गायत्रिनामाऽसौ वासुदेवः परः पुमान् ॥ भूमा भूतमिति प्रोक्तः पूर्णत्वात् पुरुषोत्तमः । अनन्यापेक्षमुद्रिक्तं सर्वस्य च नियामकम् ( ( ) || यद्यत्तत्तद्विष्णुरेव नान्यदेतादृशं कचित् ।
स एव भगवान् विष्णुर्वाङ्नामा वाचि संस्थितः ॥ वचनाद्धयशीर्षाख्यो गायत्र्यां च स आस्थितः ।
पदार्थकौमुदी
एवम् आदित्यान्तर्गतस्य भगवतो वस्वादिसर्वदेवतोपास्यत्वादिरूपं महिमानं निरूप्येदानीं तत्प्रतिपादकगायत्रीनिष्ठस्य गायत्रीनाम्नो भगवतः षड्विधत्वादिरूपो महिमा निरूप्यते - गायत्रीत्यादिना || इदं सर्वं भूतं प्राणिजातम् । यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्री वै इत्यन्यथाप्रतीतिनिरासाय ‘"गायत्री वा इदं सर्वं भूतं यदिदं कि " इति वाक्यमन्वयप्रदर्शनपूर्वकं व्याचष्टे - यदिदमिति ॥ " भूतं" इत्यनूद्य "प्रभूतं " इति व्याख्यानं तस्यैव लब्धार्थप्रदर्शनम् - परिपूर्णमिति ॥ यच्छब्दश्रवणात् तदित्यध्याहृतम् । “वै" इत्यस्यार्थः - एवेति ।। नान्यदित्यर्थः । अनेन भूतशब्दवाच्यतया वक्ष्यमाणस्य मत्स्यादेः सर्वान्तस्थितस्य च रूपस्य गायत्रीनामकभगवदभिन्नांशत्वमुक्तं भवति ।
ननु भूधातोः सत्तार्थत्वप्रसिद्धेः कथं "भूतं प्रभूतं" इति व्याख्यात- मित्यत आह भू बहाविति ॥ नन्वथापि पूर्णमिति लब्दार्थ - कथनमयुक्तम् । बहुत्वस्य सङ्ख्याविशेषरूपस्यापूर्णसर्ववस्तुसाधारण्या- दित्यत आह - बहुरिति । तथाच पूर्णस्यैव मुख्यतो बहुशब्दवाच्यत्वेन प्रसिद्धत्वात् । मुख्यस्यैव च ग्राह्यत्वात् तत्पर्यायेणापि भूतशब्देन पूर्णमेव ग्राह्यमिति भावः ।
एवमादिवाक्यं स्ववाक्येन व्याख्याय तत्स्थेने गायत्र्या वाग्रूपायाः सर्वात्मकत्वमत्रोच्यत इति परकीयव्याख्याननिरासाय च प्रमाणेनैव खण्डं ब्याचष्टे– यदिदमित्यादिना ॥ परितो देशतो गुणतः कालतश्च पूर्णमिति भूतशब्दार्थकथनम् । तथा च यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकं सर्वान्तःस्थितं च । तदिदं सर्वं भगवान् गायत्रीनामा विष्णुरेवेति सम्बन्धः । भगवति गायत्रीशब्दं निर्वक्तुं प्राप्तं " गायति च त्रायते च ' इति वाक्यं कर्माप्रतीतेर्गानस्वरूपाप्रतीतेश्च तदुभयं दर्शयन् व्याचष्टे ।। तेनोच्चारितत्वादित्यर्थः । तथाच वेदोच्चारणमेवात्र गानं विवक्षितमिति भावः । भूतमिति पूर्णमिति व्याख्यानम् । तत्कथं शब्दलब्धमित्यत- स्तद्दर्शयति – भूमेति । भूतमिति भूमा प्रोक्तः । "भू बहौ" इति धातोः । भूमा च पुरुषोत्तमो मत्स्यादिरूपी प्रोक्तस्तस्य पूर्णत्वात् । भूमशब्दस्य च तदर्थत्वेन प्रसिद्धत्वात् । ‘“बहुः पूर्णतायाम्" इत्युक्तेरिति भावः ।
यद्भूतं प्रभूतं पूर्णं तत्सर्वं गायत्रीनामा विष्णुरेवेति व्याख्यानम-युक्तम् । मुक्तानां रमायाश्च पूर्णत्वेन विष्णुत्वापत्तेरत उक्तं विशदयति- अनन्यापेक्षमिति । उद्रिक्तं पूर्णं मत्स्यादि ततश्चानन्यापेक्षत्वेन पूर्णत्वं विशेषणीयमिति भावः । सर्वस्य विनियामकं सर्वान्तस्थितम् । यद्यदिति वीप्सा सर्वरूपसङ्ग्रहार्था । एतादृशम् अनन्यापेक्षमुद्रिक्तम् । अतो नाति- प्रसङ्ग इति भावः । अनेन गायत्रीनाम्नो हरेरत्र विवक्षितषड्विधरूपमध्ये यद्गायत्रीसंस्थं गायत्रीनामकं तदेव प्रथमं रूपं भूतशब्दोक्तम् । मत्स्यादि सर्वान्तस्थितं च द्वितीयमिति विवक्षितमित्युक्तं भवति । तस्य तृतीयं रूपं वक्तुं “वाग्वै गायत्री" इति वाक्यं प्रवृत्तम् । तद्गायत्र्याः शब्दात्मकत्व- मुच्यत इति व्याख्यानमप्रामाणिकमित्याशयेन व्याचष्टे सवे ॥ गायत्रीनामैव । वैशब्दार्थः - एवेति । स एव वाङ्नामा नान्य इत्यनेनास्य तदभिन्नांशत्वमुक्तमिति ज्ञातव्यम् । वाङ्नामकत्वं केन निमित्तेनेत्यत उक्तम् – वचनादिति । अनेन वक्तीति वागिति निर्वचनं सूचितं भवति । “वाचि संस्थितः” इत्येतदधिष्ठानकथनार्थम् । एवं पृथिव्यामपि संस्थित इत्यादिकमपि ज्ञातव्यम् । वाङ्नामा हरिः किंरूप इति जिज्ञासायामाह - हयशीर्षाख्य इति ॥ ननु गायत्रीसंस्थोऽपि भगवान् किमाकार इत्याकाङ्क्षायामाह— गायत्र्यामिति ।। स हयशीर्षाख्यः ।