मटचीहतेषु कुरुष्वाटक्या सह जाययोषस्तिर्ह चाक्रायण ..
उपनिषत् (खण्डः - १० )
उषस्तेर्वृत्तान्तः
मटचीहतेषु कुरुष्वाटक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ॥ १ ॥
तं होवाच नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इत्येतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच न स्विदेतेऽप्युच्छिष्टा इति ॥ २ ॥
न वा अजीविष्यमिमान् अखादन्निति होवाच कामो म उदपानमिति स ह खादित्वातिशेषान् जायाय आजहार साग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ स ह प्रातः संिजहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्रां राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ३ ॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान् खादित्वामुं यज्ञं विततमेयाय तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोप विवेश स ह प्रस्तोतारमुवाच प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीत्येवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीत्येवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ४ ॥ १० ॥
||दशमः खण्डः १०||
भाष्यम्
‘उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः' इति शब्दनिर्णये । ‘आसन्नयौवना योषिद् (१) आटकीत्यभिधीयते ' इति च । ‘प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः ' इति च ॥ १०॥
पदार्थकौमुदी
सामैकदेशप्रस्तावप्रतिहारोद्गीथनिष्ठां भगवदुपास्तिं वक्तुं तदर्थां काञ्चनाऽख्यायिकामाह – मटचीत्यादिखण्डद्वयेन ॥ तत्र मटच्यशनाया इत्यन्यथाप्रतीतिनिरासाय प्रमाणेन मटचीशब्दार्थमाह - उपला इति ॥ वर्षोपला इत्यर्थः । आटक्येत्येतद् दुर्गमार्थत्वाद् व्याचष्टे – आसन्नेति ।। दुर्गमार्थत्वात् प्राणक इत्यस्यार्थमाह - प्रद्रवन्निति ।।
|| इति दशमः खण्डः ||
खण्डार्थः
उषस्तिर्नामतश्चक्रमयनं यस्यासौ चक्रायणः प्रायो रथचक्रसमीपे तिष्ठति । चक्रायणस्यापत्यं चाक्रायणः । कुरुदेशे वसन् कुरुषु मटचीहतेषु वर्षोपलैर्नाशितेषु सत्सु अत एवातिवृष्ट्या दुर्भिक्षे पतिते आटक्या आसन्नयौवनया जायया सहेभ्यग्रामे धनिकग्रामे इमाधिपतिग्रामे वा प्रद्राणकोऽन्नपानार्थं प्रद्रवन्नुवास । स चाक्रायण अन्नार्थी अटन् कुल्माषान् कुत्सितमाषान् खादन्तमिभ्यं यदृच्छयोपलभ्य बिभिक्षे याचितवान् ॥ १ ॥
स इभ्यस्तं प्रत्युवाच । चशब्दोऽवधारणे । ये मे ममोपनिहिताः समीपस्थिताः कुल्माषा इम एव विद्यन्ते । यद् यस्मात् तस्मात् कुल्माषा न सन्ति दातुम् । इमे च न देयाः उच्छिष्टत्वादिति भावः । एतेषामुच्छिष्टानामेव कुल्माषाणां मध्ये कांश्चन में देहीति होवाच चाक्रायणः । एवमुक्त इभ्यस्तान् कुल्माषानस्मै चाक्रायणाय प्रददौ । हन्त तर्हि अनुपानमुच्छिष्टजलपानं चं कुर्वित्युवाच । अनुपानं करभस्रिकास्थितोदकपानमित्यप्याहुः । एवमुच्छिष्टजलपानार्थं प्रार्थित- श्वाक्रायण एतदुदकपाने उच्छिष्टमेव मे मया पीतं स्यादिति होवाच ।तत्रेभ्यो बभाषे । एतेऽपि कुल्माषा उच्छिष्टा न स्वित् न किम् ॥ २ ॥
तत्र मुनिरुवाच । इमान् कुल्माषानखादन्नभक्षयन्नैवाजीविष्यं न जीविष्यामि | अतः प्राणात्यये दोषाभावात् ते भक्षिताः । उदपानं जलपानं तु मे कामो ममेच्छाधीनमिदानीं वर्तते । वृथोच्छिष्टस्वीकारे दोषप्राप्तेर्न तत् पिबामीति । उक्तं च सूत्रकृता – “ ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्' (ब्र.सू. ३-४ - २८ ) इति । स चाक्रायणस्तान् कुल्मषांस्तत्र खादित्वाऽतिशेषानतिशिष्टाञ्जायाया आजहार ह । सा जायाऽग्र एव पत्युरागमनात् पूर्वमेव सुभिक्षा शोभनभिक्षा लब्धान्ना बभूव । अतस्तान् कुल्माषान् प्रतिगृह्य निदधौ स्थापितवती ।
स चाक्रायणस्तां रात्रिं नीत्वा प्रातः सञ्जिहानः शयनं निद्रां वा परित्यत्यजन् उत्तिष्ठन्निति यावत् । उवाच । प्रत्यहमन्नार्थं खिद्यन्तीं स्वजायां प्रति । बतेत्यास्वादने । यद् यस्माद् वयमन्नं लभेमहि | अन्नस्य मात्रां भारमिति वा । धनमात्रां धनभारं च लभेमहि । तेनास्माकं जीवनं भविष्यति ।। अतस्तव खेदो मा भूदित्यर्थः । अन्नादिलाभे कारणमाह- राजेति । असौ दूरे स्थितो राजा यक्ष्यते तत्राहं गमिष्यति । स राजा मां सर्वैरार्त्विज्यैः ऋत्विक्कर्मभिर्वृणीते । अतस्तत्र गमनाय पाथेयं किमप्य- स्तीत्युवाचेति सम्बन्धः।। ३ ॥
एवमुक्तवन्तं पतिं प्रति जायोवाच- हन्तेति ॥ हन्तेति खेदे । हे पते ये भवद्भिः पूर्वेद्युरानीताः इम एव कुल्माषा वर्तन्त इति । त एव नेया इत्युक्त्वा तान् प्रतिगृह्य खादित्वाऽमुं यज्ञं विततं विस्तृतमेयाय गतवान् । तत्र यज्ञे । आस्तावे आस्तुवन्त्यस्मिन्नित्यास्तावाख्ये कर्मणि स्तोष्यमाणान् स्तोतॄनुप समीपे उपविवेशोपविष्टवान् । स चाक्रायणः प्रस्तोतारमुवाच ह ।
हे प्रस्तोतरित्यभिमुखीकृत्य या देवता प्रस्तावं प्रस्तावभक्तिमन्वायत्ता सम्बद्धा तत्प्रतिपाद्या तत्स्था च तां देवतां चेद् यदि त्वमविद्वान् प्रस्तोष्यसि तर्हि ते तव मूर्धा विपतिष्यतीति ।
एवमेवोद्गातारं प्रत्युर्वाच । उद्गातारं प्रति “ प्रस्तोतर्या देवता " इत्याद्युक्तेरसङ्गतेरेवमित्युक्तं विवृणोति – उद्गातरिति ॥ पूर्ववदर्थः । एवमेव "प्रतिहर्तारम्" इत्यादिकमपि व्याख्येयम् ।
एवं चाक्रायणेनोक्तास्ते प्रस्तोत्रादयः प्रस्तावादिदेवता ज्ञानाभावात् समारताः स्वस्वव्यापारान्निवृत्तास्तूष्णीमासाञ्चक्रिरे
॥ ४ ॥
॥ इति दशमः खण्डः ॥