एष ह वै यज्ञो योऽयं पवत एष यन्निदं सर्वं पुनाति ..
उपनिषत् (खण्ड: - १६ )
यज्ञनामकवायुदेवस्य पादपूजा
एष ह वै यज्ञो योऽयं पवत एष यन्निदं सर्वं पुनाति यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥
तयोरन्यतरां मनसा संस्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्गाताऽन्यतरांस यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यपवदति ॥ २ ॥
अन्यतरामेव वर्तनीं संस्कुर्वन्ति हीयतेऽन्यतरा स यथैकपाद् व्रजन्रथो वै केन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान् भवति ॥ ३ ॥
अथ यत्रोपाकृते प्रातरनुवाकेन पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥
स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान् भवति ॥ ५ ॥ १६ ॥
भाष्यम्
'यज्ञाभिमानी यज्ञाख्यो वायुर्यज्ञे प्रतिष्ठितः । ज्ञ शुद्धभाव इत्यस्माद् यन्नयं पावयेद् यतः ।।अतो वायुर्यज्ञनामा तत्पादौ वाङ्मनः स्थितौ । दक्षिणोऽस्य मनःसंस्थो ब्रह्मर्त्विक् तस्य पूजकः ॥ होत्राद्या वाचि संस्थस्य वामपादस्य पूजकाः । तस्मात् प्रातरनूवाकपरिधान्योर्यदन्तरा ॥ ब्रह्मा चेदुत्सृजेद् वाचं यज्ञपाल्लोपवद् (१) भवेत् । वाङ्मनःपादयज्ञाख्यप्रतिमो वायुरीरितः । ध्यायन् वायुं हरिं चैव ततो ब्रह्मा मुनिर्भवेत् ॥ १६ ॥
पदार्थकौमुदी
" वायुर्वाव संवर्ग: प्राणो ब्रह्म" इत्यपरब्रह्मविद्योक्ता । तद्विषयं विद्यान्तरमाह – एष हेत्यादिना ॥ क्रियाकलापरूपत्वाद् यज्ञस्य ‘एष हवै यज्ञो योऽयं पवते" इति कथमुक्तमित्यत आह - यज्ञेति ॥ यज्ञाख्य- त्वे निमित्तम – यज्ञाभिमानी यज्ञे प्रतिष्ठित इति । “यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञः” इति यज्ञशब्दनिर्वचनरूपं वाक्यं व्याचष्टे - यन्नयमिति ।। अस्तु य इत्यस्य यन् गच्छन्नित्यर्थः । यातेर्गत्यर्थत्व- प्रसिद्धेः । ज्ञ इत्यस्य पावनाख्यशुद्धभावः कथमर्थ इत्यतो धातुं पठति - ज्ञेति ॥ धातोरिति शेषः । धातोर्ज्ञाशब्दः पावनार्थोऽवगम्यते यत इत्यर्थः । ‘“तस्य मनश्च वाक् च वर्तनी" इत्येतद् वाङ्मनसयोर्मार्गत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे – तत्पादाविति । " स यथैकपात्" इति ‘“उयुभयपात्” इति च दृष्टान्तबलादिति भावः । कः पादः कुत्र स्थित इत्यतस्तद्दर्शयन्नेव ‘‘तयोरन्यतरां मनसा संस्करोति ब्रह्म" इत्येतद् व्याचष्टे - दक्षिण इति ॥
“वाचा होताऽध्वर्युरुद्गाताऽन्यतराम्" इत्येतद् व्याचष्टे - होत्राद्या इति ॥ तर्हि स यत्रोपाकृत इत्यारभ्य " हीयतेन्यतरा” इत्यन्तवाक्येन वायुपादलोपः कथमुच्यत इत्यत आह - तस्मादिति ॥ मौनेन पूजकत्वादित्यर्थः । यदन्तरा तन्मध्ये | ननु वायुपादमुपक्रम्य यज्ञपादस्य लोपकथन सङ्गतमित्यत आह- वागिति । प्रतिमापादलोपे देवता- पादलोपोपचार इति भावः । अथ “यत्रोपाकृते" इत्यादेस्तात्पर्यमाह - ध्यायन्निति ॥ ध्यायन्नेव हरिं चेत्यनेनास्या विद्यायाः शास्त्रदृष्ट्या भगवत्परत्वमुक्तं भवति ।। खं० ॥ १६ ॥
खण्डार्थः
योऽयं पवते मुख्यवायुरेष यज्ञो यज्ञनामको यज्ञाभिमानी यज्ञे स्थितः । हवा इति श्रुत्यादिप्रसिद्धिं दर्शयति । वायौ यज्ञशब्दं निर्वक्तुं वायुस्वभावं निरूपयति – एष इति । एष वायुर्यन् गच्छन्निदं योग्यं सर्वं पुनाति शुद्धं करोति । किं तत इत्यत आह- यदिति । यद् यस्माद् एषः यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञो यज्ञाख्यो मुख्यतः यज्ञमूर्तेर्वायोः पादावस्थितिस्थानमाह तस्येति । तस्य वायोः वर्तनी वर्तते गच्छत्याभ्यामिति वर्तनी पादौ मनश्च वाक्च ऋत्विजां मनोवाक्संस्थौ । तत्र दक्षिणो मनस्थो वामो वाक्संस्थ(२) इति ज्ञेयम् ॥ १ ॥
तयोः पूजकानाह तयोरिति । तयोः पादयोर्मध्येऽन्यतरां वर्तनिं दक्षिणं पादं ब्रह्मा ब्रह्माख्यऋत्विक् मनसा मनोव्यापारेण मौनेनैव संस्करोति पूजयति । संस्कर ( १ ) इति पाठे पूजक इत्यर्थः । होताऽध्व- गुरुद्वाता चेति त्रयोऽन्यतरां वर्तनिं वामपादं वाचा मन्त्रोच्चारणेनैव संस्कुर्वन्ति । ब्रह्मणः कदा मौनं तद्भङ्गे च किमित्यत आह - स इति । एवं मौनेन त्रायुपूजकत्वात् स ब्रह्मा यत्र यदा प्रातरनुवाके शस्त्रे उपाकृते उपक्रान्ते परिधानीयायाः कर्मसमापिकाया ऋचो जपादिति यावत् । पुरा पूर्वं व्यपवदति वाचमुत्सृजेत् ॥ २ ॥
होत्राद्यास्तु अन्यतरामेव वर्तनिं वाचा संस्कुर्वन्ति । तदाऽन्यतरा वर्तनिः दक्षिणः पादो हीयते । यज्ञपादस्य लुप्तत्वात् । यज्ञपादहान्या भवमनर्थं सदृष्टान्तमाह – स इति । सः वक्ष्यमाणो दृष्टान्तो यथा एकपात् पुरुषो व्रजन् रिष्यति यथा वैकेन चक्रेण वर्तमानो रथो रिष्यति । एवमस्य यजमानस्य यज्ञो रिष्यति नश्यति । यज्ञं रिष्यन्तमनु यजमानोऽपि रिष्यति । यज्ञनाशेऽपि यजमानस्याध्यक्षत्वात् कथमेतदित्यत आह- स इति ॥ ३ ॥
यस्मादेवं ब्रह्मणो मौनपरित्यागेऽनर्थोऽथ तस्माद् यत्र यदा प्रातरनुवाके उपाकृते परिधानीयायाः पूर्वं ब्रह्म न व्यपवदति । तदोभे एव वर्तनी संस्कुर्वन्ति ऋत्विजः । एवं च न हीयतेऽन्यतरा ॥ ४ ॥
किं तत इत्यतः सदृष्टान्तं ततो भवं पुरुषार्थमाह- स यथेति । व्याख्यातप्रायम् ।। ५ ।।
।। इति षोडशः खण्डः ।।