अथ यत्पञ्चमममृतं तत्साध्याः उपजीवन्ति ब्रह्मणा मुखेन ..
उदेत्यास्तमयं यावद् याति भानुस्तु पर्वते
एकत्रिंशत्तु घटिकाः साधिका वसुदैवताः
'अहः सर्वं वसूनां तु परेषां रात्रिरेव च
एवं पृथिव्यां रुद्राणामन्तरिक्षं प्रकीर्तितम्
न त्विन्द्राद् यमो द्विगुणकालं तिष्ठति तस्माद् वरुणस्तस्मात् सोम इत्यत्र किञ्चिन्मानम्
इन्द्रादिपुरीणामुद्वासत्वेनैवमङ्गीकारे..
उदेति पूर्वतः सूर्यो निम्लोचति च पश्चिमे
कालान्तरे भाविनं तु दक्षिणाद्युदयं पुनः
अथ यत्पञ्चमममृतं तत्साध्याः उपजीवन्ति ब्रह्मणा मुखेन ..
उपनिषत् ( खण्डः - १० )
मधुनामकनारायणोपासनाफलम्
अथ यत्पञ्चमममृतं तत्साध्याः उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्यः उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङ्गस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ १० ॥
भाष्यम्
.................पञ्चमस्य च ।। ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः ।।
अन्योन्यमुखता मुक्तौ ब्रह्मणां समता तथा । वाक्शेषादेर्मुखं ब्रह्मा मुक्तावपि विशेषतः ।। द्रष्टोभयस्यापि शिवो द्वितीयस्यान्तगस्य ( १ ) च । मोक्षे त्वन्यत्र चैकस्य परतः शेषभावतः ।। ये चैतत्पदयोग्याः स्युर्देवाः पञ्च महागणाः । तेषामपि यदोपासा निश्छिद्रा मधुनामके । तदा वस्वादितां प्राप्य मुक्तिमेष्यन्त्यसंशयम् ॥
पदार्थकौमुदी
‘‘अथ यत्पञ्चमममृतम्”इत्यादेः " उद्यन्ति” इत्यन्तस्य तात्पर्य - माह- पञ्चमस्य चेति ।। साध्यपदव्याख्यानम् - ऋजव इति ।। " ब्रह्मणा मुखेन’इत्येतस्यार्थकथनम्- ब्रह्ममुख्या हीति । ऋजूनामेतद्दर्शनादिकं प्रमाणसिद्धमिति हिशब्देनाऽह । नन्वेवं सरस्वतीशेषसुपर्णतत्पत्नीनां वस्वादिषु कुत्राप्यप्रविष्टत्वात् मधूपास्त्यभावः स्यादित्याशङ्कायां साध्यान्तर्भाविमाह - सुपर्ण इत्या- सुपर्णइत्या- दिना ॥ ननु " ब्रह्मणैव मुखेन " इत्युक्तं मुक्तौ ब्रह्मणः सकलसाध्य- मुखत्वमयुक्तम् । ब्रह्मणोऽपि ऋजुत्वेन साध्यपदोक्तऋजुमुखत्वा- सम्भवादित्यत आह- अन्योन्येति । तथाशब्दोऽप्यर्थः । यद्यपि ब्रह्मणां समता तथाऽप्यन्योन्यमुखता युज्यते । मुखशब्देनाप्राधान्याभावमात्रस्य विवक्षितत्वादिति भावः । यथाऽप्राधान्याभावमात्रेणेतरसाध्यान् प्रति ब्रह्मणः मुखत्वं तथा न साध्यपदोक्तवागादीन् प्रतीत्याह - वाक्शेषादे- रिति । विशेषतोऽपि प्राधान्येनापि । मुखमिति सम्बन्धः ।
ननु रुद्रस्यैव शेषत्त्वात् तस्य च द्वितीयामृतद्रष्टृत्वात् कथं साध्यान्तर्भावेनान्त्यामृतद्रष्टृत्वमित्यत आह- द्रष्टेति || मोक्षार्थं परतः परजन्मनि । शेषत्वावस्थायाम् उभयस्यापि द्रष्टा । शेषभावतोऽन्यत्र तु शिवत्वावस्थायाम् एकस्यैव द्रष्टेति विवेकः । यद्वा, परतः शेषभावतः शेषत्वानन्तरम् । मोक्ष इति यावत् । उभयस्याप्यमृतस्य द्रष्टा । अन्यत्र रुद्रत्वे त्वेकस्येति योजना । पूर्वं प्राप्तपदानां वस्वादीनां मोक्षलक्षणं फलमुक्तम् । इदानीम् अप्राप्तपदानां तत्पदयोग्यानां मधूपासकानां किं फलमिति जिज्ञासायां वस्वादिपदप्राप्त्यादिकं फलमिति प्रतिपादयितुं "स य एतदेवममृतं वेद'' इत्यारभ्य " एतस्माद् रूपादुदेति'' इत्यन्तं वाक्यं खण्डपञ्चकेऽपि प्रवृत्तं तत् तत्तत्पदायोग्यानामपि मधूपास्त्या तत्तत्पदप्राप्त्यादिर्भवतीति प्रतीतिनिरासाय व्याचष्टे - ये चेति ॥ देवाः देवत्वयोग्याः। श्रौताभिशब्दार्थ : - असंशयमिति ।। तस्य निश्चयार्थत्वेन पूर्वं व्याख्यातत्वात् ।