सर्वास्वप्सु पञ्चविधं सामोपासीत

उपनिषत् (खण्डः - ४ )

अप्सु भगवदुपासना

सर्वास्वप्सु पञ्चविधं सामोपासीत । मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥

न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २ ॥ खण्डः ४ ॥

भाष्यम्

'अप्सु पञ्चविधोपासी यो नारायणवान् भवेत् । न चास्य मृतिरप्सु स्यादप्सुषद् भगवान् हरिः ।।' इति च । अप्सु स्थितनारायणवान् मुक्तो भवतीत्यर्थः । अपः सूत इत्यप्सूर्भगवान् । दीर्घलोपेनाप्सुमानिति वा ॥ ४ ॥

पदार्थकौमुदी

एवं वृष्टौ पञ्चविधभगवदुपास्तिमभिधाय वृष्टिपूर्वकत्वात् सर्वासामपां तत्र भगवदुपास्तिकर्तव्यतामाह सर्वास्विति । अयमपि खण्डो भगवत्पर इति ज्ञापनाय ‘“न हाप्सु प्रैत्यप्सुमान् भवति" इति फलवाक्यं प्रमाणेनैव व्याचष्टे - अप्स्विति ॥ पञ्चविधस्य भगवत उपासाऽस्यास्तीति तथोक्तः । अप्सुमानित्यस्यार्थः - नारायणवानिति ॥ "न हाप्सु प्रैति" इत्यस्यार्थः- नचेति ॥ तत्र हेतुः - अप्सुषदिति । यद्वाऽप्सुमानित्येत- न्नारायणवानिति व्याख्यातम् । तत्कथं शब्दतो लब्धमित्यत आह अप्सुषदिति ।। यतो भगवान् हरिरप्सुषदतोऽप्सुमानित्यस्य नारायण- वानिति व्याख्यानमुपपन्नमित्यर्थः । नन्वेवमप्सुषद्वानिति स्यान्न त्वप्सु - मानितीत्यतो मध्यमपदलोपीसमासोऽयमित्याह - अप्सुस्थितनारायण- वानिति ॥

नन्वन्तर्यामितया नारायणवत्त्वं सर्वसाधारणमिति कथमिदमुपासन- फलमित्यतस्तदर्थमाहमुक्त इति ॥ नन्वप्सुमानित्यत्राप्स्वित्यस्य सप्तम्यन्तत्वात् कथं समासः ? समासे तु अम्मानित्येव प्रयोगापत्तेरिति तु चेत् । न । सप्तम्या अलुक्त्वाङ्गीकारात् । अथवा नाप्स्वित्येतत् सप्तम्या- न्तम् । येनालुक्त्वं मध्यमपदलोपो वाऽऽश्रयणीयः । किन्तु योगेन भगव- द्वाचकमिति पक्षान्तरमाह - अप इति । तद्वानप्सुमानिति योज्यम् । एवं तर्ह्यप्सूमानिति दीर्घः स्यादित्यत उक्तम् - दीर्घलोपेनेति । छान्दस- त्वादिति भावः ।

खण्डार्थः

सम्प्लवते सञ्चरति । नानादेशस्थ एकदेशस्थो भवतीति यावत् ॥ १ ॥ । ॥ इति चतुर्थः खण्डः ।।